लोपो व्योर्वलि
6-1-66 लोपः व्योः वलि उपदेशे
Sampurna sutra
Up
व्योः वलि लोपः
Neelesh Sanskrit Brief
Up
वल्-प्रत्याहारस्य वर्णे परे वकार-यकारयोः लोपः भवति ।
Neelesh English Brief
Up
A वकार and a यकार are deleted when followed by a letter of the वल् प्रत्याहार.
Kashika
Up
धातोरिति प्रकृतं यत् तद् धात्वादेरिति पुनर्धातुग्रहणाद् निवृत्तम्। तेन धातोरधातोश्च वकारयकारयोर्वलि परतो लोपो भवति। दिव् — दिदिवान्, दिदिवांसौ, दिदिवांसः। ऊयी — ऊतम्। क्नूयी — क्नूतम्। <<गोधाया ढ्रक्>>४.१.१२९ — गौधेरः। पचेरन्। यजेरन् । वकारस्य — <<जीवे रदानुक्>> (द॰उ॰ १.१६३) — जीरदानुः। स्रिवेः — आस्रेमाणम्। <<उणादयो बहुलम्>>३.३.१ इति बहुलवचनात् <<च्छ्वोः शूडनुनासिके च>> ६.४.१९ इत्यूठ् न भवति। वलीति किम् ? ऊय्यते। क्नूय्यते। पूर्वं लोपग्रहणं किम् ? वेरपृक्त लोपात् पूर्वं वलि लोपो यथा स्यात्। कण्डूयतेः क्विप् — कण्डूः। लोलूयतेः — लोलूः। व्रश्चादीनामुपदेशसामर्थ्याद् वलि लोपो न भवति। वृश्चति। वव्रश्चेत्यत्रापि हि संप्रसारणहलादिः शेषयोर्बहिरङ्गत्वात् प्राप्नोति॥
Siddhanta Kaumudi
Up
वकारयकारयोर्लोपः स्याद्धलि । पुंवद्भावः । युवतिर्जाया यस्य युवजानिः ॥
Laghu Siddhanta Kaumudi
Up
भवेत्। भवेताम्॥
Neelesh Sanskrit Detailed
Up
वल् = यकारम् विहाय सर्वाणि व्यञ्जनानि ।
वकारात् / यकारात् परं यकारं विहाय अन्यं व्यञ्जनम् विद्यते चेत् वकारस्य / यकारस्य लोपः भवति । उदाहरणे एतादृशे —
1. वकारस्य लोपः
दिव्-धातोः क्वसु-प्रत्यये कृते दिदिवस् इति प्रातिपदिकम् सिद्ध्यति । अस्य प्रक्रियायाम् प्रकृतसूत्रेण वकारस्य लोपः क्रियते —
दिवुँ (क्रीडादिषु, दिवादिः, <{4.1}>)
→ दिव् + लिट् [<<परोक्षे लिट्>> 3.2.115 इति लिट्]
→ दिव् + क्वसुँ [<<क्वसुश्च>> 3.2.107 इति लिट्-इत्यस्य क्वसुँ-आदेशः]
→ दिव् + वस् [ककार-उकारयोः इत्संज्ञा, लोपः]
→ दिव् दिव् + वस् [<<लिटि धातोरनभ्यासस्य>> 6.1.8 इति द्वित्वम्]
→ दि दिव् + वस् [<<हलादि शेषः>> 7.4.60 इति 'दि' इत्येव अवशिष्यते ।]
→ दिदिवस् [<<लोपो व्योर्वलि>> 6.1.66 इति वकारे परे वकारलोपः]
2. यकारस्य लोपः
पठ्-धातोः विधिलिङ्लकारस्य प्रथमपुरुष-एकवचनस्य प्रक्रियायाम् प्रकृतसूत्रेण यकारलोपः कृतः दृश्यते —
पठँ (व्यक्तायां वाचि, भ्वादिः <{1.381}>)
→ पठ् + लिङ् [<<विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्>> 3.3.161 इति लिङ्]
→ पठ् + तिप् [<<तिप्तस्..>> 3.4.78 इत्यनेन प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]
→ पठ् + शप् + ति [<<कर्तरि शप्>> 3.1.68 इति औत्सर्गिकम् विकरणम् शप्]
→ पठ् + अ + यासुट् + ति [<<यासुट् परस्मैपदेषूदात्तो ङिच्च>> 3.4.103 इति यासुट्-आगमः]
→ पठ् + अ + यास् + ति [टकारस्य <<हलन्त्यम्>> 1.3.3 इति इत्संज्ञा, <<तस्य लोपः>> 1.3.9 इति लोपः । सकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]
→ पठ् + अ + यास् + सुट् + ति [<<सुट् तिथोः>> 3.4.107 इति सुट्-आगमः]
→ पठ् + अ + यास् + स् + ति [टकारस्य <<हलन्त्यम्>> 1.3.3 इति इत्संज्ञा, <<तस्य लोपः>> 1.3.9 इति लोपः । सकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]
→ पठ् + अ + या + ति [<<लिङः सलोपोऽनन्त्यस्य>> 7.2.79 इति उभयोः सकारयोः लोपः]
→ पठ् + अ + इय् + ति [<<अतो येयः>> 7.2.80 इति 'या'-इत्यस्य इय्-आदेशः]
→ पठ् + अ + इ + ति [<<लोपो व्योर्वलि>> 6.1.66 इति तकारे परे यकारलोपः]
→ पठ् + अ + इ + त् [<<इतश्च>> 3.4.100 इति इकारलोपः]
→ पठ् + ए + त् [<<आद्गुणः>> 6.1.87 इति गुणः]
→ पठेत्
वाय्वोः इत्यत्र बहिरङ्गासिद्धत्वेन, स्थानिवद्भावेन वा यकारलोपस्य निषेधः
वाय्वोः (वायु-शब्दस्य षष्ठी-सप्तमी-द्विवचनम् ) इत्यस्मिन् शब्दे यकारात् परः वल्-वर्णः अस्ति; अतः तत्र प्रकृतसूत्रेण अनिष्टः यकारलोपः प्रसज्यते । प्रक्रिया इयम् —
वायु + ओस् [षष्ठीद्विवचनस्य प्रत्ययः]
→ वाय् व् + ओस् [<<इको यणचि>> 6.1.77 इति यणादेशः । एतादृशे यणादेशे कृते <<लोपो व्योर्वलि>> 6.1.66 इति वकारस्य अनिष्टः लोपः प्राप्नोति ।]
अस्य लोपस्य निवारणार्थम् द्वे पद्धती वैयाकरणैः दीयेते —
१. यणादेशस्य बहिरङ्गत्वात् यलोपः न
वाय्वोः इत्यत्र उकारस्य कृतः यणादेशः ओस्-इति बहिर्भूतं प्रत्ययं निमित्तरूपेण स्वीकृत्य भवति । यकारलोपः तु शब्दे एव विद्यमानम् वकारम् निमित्तरूपेण स्वीकृत्य भवति । अतः यकारलोपस्य अपेक्षया यणादेशः बहिरङ्गः अस्ति । अस्यां स्थितौ पूर्वं जातं बहिरङ्गं कार्यम् <<असिद्धं बहिरङ्गमन्तरङ्गे>> इत्यनया परिभाषया अन्तरङ्गकार्यस्य कृते असिद्धं भवति । इत्युक्ते,
वाय्वोः इत्यत्र जायमानः यणादेशः यलोपस्य कृते असिद्धः अस्ति । अतः <<लोपो व्योर्वलि>>
6.1.66 इति सूत्रेण अत्र
वायु इत्येव दृश्यते, न हि
वाय्वोः इत्यत्र । एवं स्थिते अत्र वल्-वर्णस्य अभावात यलोपः अपि न प्रवर्तते ।
२. यणादेशस्य स्थानिवद्भावात् यलोपः न
वाय्वोः इत्यत्र उकारस्य कृतः यणादेशः <<अचः परस्मिन् पूर्वविधौ>>
1.1.57 इत्यनेन स्थानिवद् भवति; अतः तत्र उकारसदृशम् एव कार्यं भवति; इत्युक्ते वल्-वर्णस्य अभावात् यलोपः अपि न प्रवर्तते ।
वस्तुतस्तु, यकारलोपस्य विषये <<अचः परस्मिन् पूर्वविधौ>>
1.1.57 इत्यनेन प्राप्तस्य स्थानिवद्भावस्य <<न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु>>
1.1.58 इत्यनेन निषेधः उक्तः अस्ति । परन्तु तत्रैव विद्यमानेन <!स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवद् भवति, अन्यत्र तु स्थानिवद् एव!> इति वार्त्तिकेन अयं निषेधः केवलं स्वरलोपस्य विषये प्रवर्तते; स्वरादेशस्य विषये न । अतः अयं निषेधः प्रकृतसन्दर्भे, इत्युक्ते यत्र उकारस्य लोपः न क्रियते अपितु आदेशः एव क्रियते, तत्र न प्रवर्तते । स्थानिवद्भावनिषेधस्य अभावात् स्थानिवद्भावः अवश्यं भवति; अतः अत्र वकारस्य अनुपस्थितौ यलोपः अपि न प्राप्नोति ।
भाष्ये वलोपस्य प्रत्याख्यानम्
प्रकृतसूत्रस्य प्रामुख्येण यकारलोपार्थम् एव प्रयोगः भवति । वकारलोपस्य बहूनि न्यूनानि उदाहरणानि विद्यन्ते । तेषु प्रायेण सर्वाणि अपि वैदिक-उदाहरणानि एव सन्ति । किं च, भाषायां बहुषु स्थलेषु रेफे परे वकारस्य लोपः न हि कृतः दृश्यते । यथा -
व्रीहिः,
तीव्रम्,
व्रणः — आदयः । अतः अस्य सूत्रस्य भाष्ये वकारलोपस्य प्रत्याख्यानम् एव कृतम् वर्तते । तत्र भाष्यकारः ब्रूते —
अनारम्भो वा पुनः वलोपस्य न्याय्यः । प्रकृतसूत्रेण वकारस्य वलि परे लोपः न उच्येत चेदेव वरम् — इति अस्य आशयः ।
Balamanorama
Up
<<लोपो व्योर्वलि>> - लोपो व्योर्वलि । 'व्'य् अनयोद्र्वन्द्वात् षष्ठीद्विवचनम् । तदाह — वकारयकारयोरिति । पुंवद्भाव इति ।स्त्रियाः पुंवदि॑त्यनेने॑ति शेषः । युवजानिरिति । जायाशब्दे यकारादाकारस्य निङ् ।
Padamanjari
Up
धातोरिति प्रकृतमित्यादि। एतद्'धात्वादेः षः सः' इत्यत्र व्याख्यातम्। दिदिवानिति। दिवेः क्वसौ रूपम्।'वस्वेकाजाद्घसाम्' इति नियमादिडभावः। अत्र वक्तव्यमस्ति तद्'वस्वेकाजाद्घसाम्' इत्यत्र वक्ष्यामः। ठूयी तन्तुसन्तानेऽ,'क्नूयी शब्दे' । आस्रेमाणमिति।'स्रिवु गतिशोषणयोः' , औणादिको मनिन्, नञा समासः। ननु च सतः कार्यिणः कार्येण भवितव्यमिति पूर्वं कार्यिनिर्द्देशो युक्तः, पश्चात्कार्यनिर्द्देशः -ठ्व्योर्वलि लोपःऽ इति, लाघवं च भवत्यर्द्धमात्रया, तत्किमर्थं पूर्वं लोपग्रहणं कृतम्? इत्यत आह -पूर्वं लोपग्रहणमित्यादि। पूर्वं लोपग्रहणेनायमर्थः सूच्यते -विध्यन्तरात्पूर्वमेवायं लोपो भतीति, कण्कडूअयतेर्यलोपश्च प्राप्नोति, वेरपृक्तलोपश्च, तत्रान्तरङ्गत्वात्पूर्वमपृक्तलोपेन भवितव्यम्। कण्डूअयतेः क्विबिति।'कण्ड्वादिभ्यो यक्' इत्यत्र भाष्यम् -ठ्नैतेब्यः क्विब् दृश्यतेऽ इति, तस्मात्कण्डूअमिच्छतीति क्यजन्तात्क्विब् दृष्टव्यः। द्विविधा हि कण्कड्वादयः -धातवः, प्रातिपदिकानि च। तत्र धातुभ्यो यग्विधानात्प्रातिपदिकेभ्यः क्यजादयो भवन्त्येव, तत्र क्यजन्तात्किवपि कृते -अतो लोपश्च प्राप्नोति, वेरपृक्तलोपश्च, तत्रान्तरङ्गत्वात्पूर्वमपृक्तलोपेन भाव्यम्। अथाप्यार्द्धधातुक इति विषयसप्तम्याश्रयणात्पूर्वमतो लोपः, पश्चात्किवप्? एवमपि क्विलोपश्च प्राप्नोति, वेरपृक्तलोपश्च, तत्रान्तरङ्गत्वात्पूर्वमपृक्तलोपः स्तात्, तस्मिश्च सति निमिताभावादलाश्रये प्रत्ययलक्षणाभावात्स्थानिवद्भावाभावाच्च वलि लोपो न स्यात् पूर्वलोपग्रहणाच्च भवति। अथात्र लोपस्य स्थानिवद्बावादुवङ् करमान्न भवति ? उच्यते; क्यजन्तात्क्विबित्युक्तम्, ततः किम् ? स्थानिवद्भावेनापि कण्कडूअमात्रस्य धातुत्वाभावादुवह् न भवति। यणादेशस्तर्हि प्राप्नोति ? अस्तु यण्, तस्योठ करिष्यते। न चोठयपि कर्तव्ये स्थानिवद्भावः, आदिष्टदचः पूर्वत्वाद्वकारस्य, अत एव कण्कडुवावित्यादावूणुवङदिषु कर्तव्येषु नास्त्यल्लोपस्य स्थानिवद्भावः। अथ व्रश्चकः, व्रश्चनमित्यादौ रेफे वलि परतो वकारस्य लोपः कस्मान्न भवति? तत्राह -व्रश्चादीनामित्यादि। ननु वृश्चति, वव्रश्चेत्यादौ सम्प्रसारणे कृते हलादिशेषे च वकारस्य श्रवणं यथा स्यादित्येतदुपदेशस्य प्रयोजनं स्यात्, न ह्यत्र लोपः प्रवर्तते, वल्परत्वाभावदित्यत आह -वृश्चति वव्रश्चेत्यादावपीत्यादि। बहिरङ्गत्वादिति। बहिरङ्गत्वं सम्प्रसारणस्य क्डित्प्रत्ययोपेक्षत्वात्, हलादिशेषस्य त्वभ्यासापेक्षत्वात्, ततश्चाकृतयोरेव तयोर्वलोपः प्राप्त उपदेशसामर्थ्यादेव न भवति। अत्र भाष्ये वलोपः प्रत्याख्यातः। आस्रेमाणम्, जीरदानुरित्यत्र छान्दसो वर्णलोपः, क्वसावपि छान्दस एव, दिविप्रबृतीनां यङ्लुगन्तानां तसादिषूठा भवतिव्यम्, तिप्सिपोरीडभावपक्षेषूठा भवितव्यम्। ये तत्र क्ङितीति नानुवर्तयन्ति-देदिविति देद्योति, देदिवीषि देद्योषि, मिपि त्वनुनासिकत्वादेव भवति, देदिवीमि देद्योमि; ये त्वनुवर्तयन्ति तेषामपि छान्दसो यङ्लुगिति ॥