1-1-56 स्थानिवत् आदेशः अनल्विधौ
index: 1.1.56 sutra: स्थानिवदादेशोऽनल्विधौ
अनल्विधौ आदेशः स्थानिवत्
index: 1.1.56 sutra: स्थानिवदादेशोऽनल्विधौ
एकवर्णाश्रितानि कार्याणि विहाय अन्येषु स्थान्याश्रयेषु कार्येषु आदेशः स्थानिवत् भवति ।
index: 1.1.56 sutra: स्थानिवदादेशोऽनल्विधौ
An आदेश acts like a स्थानी in the context of the operations that are not associated with a single letter.
index: 1.1.56 sutra: स्थानिवदादेशोऽनल्विधौ
स्थान्यादेशयोः पृथक्त्वात् स्थान्याश्रयं कार्यमादेशे न प्राप्नोति इत्ययमतिदेश आरभ्यते । स्थानिना तुल्यं वर्तते इति स्थानिवत् । स्थानिवदादेशो भवति स्थान्याश्रयेषु कार्येष्वनलाश्रयेषु, स्थान्यलाश्रयाणि कार्याणि वर्जयित्वा । न अल्विधिरनल्विधिः इत्यर्थः । किमुदाहरणम् ? धात्वङ्गकृत्तद्धिताव्ययसुप्तिङ्पदादेशाः ।
धात्वादेशो धातुवद् भवति - अस्तेर्भूः 2.4.52, ब्रुवो वचिः 2.4.53 । आर्धधातुकविषये प्रागेव आदेशेषु कृतेषु धातोः 3.1.91 इति तव्यादयो भवन्ति - भविता, भवितुम्, भवितव्यम् ; वक्ता, वक्तुम्, वक्तव्यम् ।
अङ्गाऽदेशोऽङ्गवद् भवति - केन, काभ्याम्, कैः । किमः कः 7.2.103 इति कादेशे कृतेऽङ्गाश्रया इन-दीर्घत्वैस्भावाः भवन्ति ।
कृदादेशः कृद्वद् भवति - प्रकृत्य, प्रहृत्य । क्त्वो ल्यबादेशे कृते ह्रस्वस्य पिति कृति तुक् 6.1.71 इति तुग् भवति ।
तद्धितादेशः तद्धितवद् भवति - दाधिकम्, अद्यतनम् । कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा भवति ।
अव्ययादेशोऽव्ययवद् भवति -प्रस्तुत्य, प्रहृत्य, उपहृत्य, उपस्तुत्य । अव्ययादाप्सुपः 2.4.82 इति सुब्लुग् भवति ।
सुबादेशः सुब्वद् भवति - वृक्षाय, प्लक्षाय । सुपि च 7.3.102 इति दीर्घत्वं भवति ।
तिङादेशः तिङ्वद् भवति - अकुरुताम्, अकुरुतम् । सुप्तिङन्तं पदम् 1.4.14 इति पदसंज्ञा भवति ।
पदादेशः पदवद् भवति - ग्रामो वः स्वम्, जनपदो नः स्वम् । पदस्य 8.1.16 इति रुत्वं भवति ।
वत्करणं किम् ? स्थानी आदेशस्य संज्ञा मा विज्ञायि - इति । स्वाश्रयमपि यथा स्यात् - आङो यमहनः 1.3.28 - आहत, आवधिष्ट इति आत्मनेपदमुभयत्र अपि भवति । आदेशग्रहणं किम् ? आनुमानिकस्य अप्यादेशस्य स्थानिवद्भावो यथा स्यात् - पचतु एरुः 3.4.86 । अनल्विधौ इति किम् ? द्युपथित्यदादेशा न स्थानिवद् भवन्ति - द्यौः, पन्थाः, सः इति । हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति सुलोपो न भवति ॥
index: 1.1.56 sutra: स्थानिवदादेशोऽनल्विधौ
आदेशः स्थानिवत्स्यात् न तु स्थान्यलाश्रयविधौ । अनेनेह यकारस्य स्थानिवद्भावेनाच्त्वमाश्रित्य अनचि च <{SK48}> इति द्वित्वनिषेधो न शङ्क्योऽनल्विधावितीति तन्निषेधात् ॥
index: 1.1.56 sutra: स्थानिवदादेशोऽनल्विधौ
आदेशः स्थानिवत्स्यान्न तु स्थान्यलाश्रयविधौ। इति स्थानिवत्त्वात् सुपि चेति दीर्घः। रामाय। रामाभ्याम्॥
index: 1.1.56 sutra: स्थानिवदादेशोऽनल्विधौ
यत्र कस्यचन स्थानिनः कश्चन आदेशः विधीयते, तत्र —स्थानिनः गुणधर्माः आदेशे अपि अतिदिश्यन्ते वा ? — इति प्रश्ने जाते, अष्टाध्याय्याम् आहत्य चतुर्भिः सूत्रैः मिलित्वा अस्य उत्तरम् दीयते । स्थानिवदादेशोऽनल्विधौ 1.1.56 इत्यतः आरभ्य द्विर्वचनेऽचि 1.1.59 इति यावन्ति एतानि चत्वारि सूत्राणि
स्थानिनि विद्यमानानाम् गुणधर्माणाम् अस्मिन् सन्दर्भे द्वौ प्रकारौ क्रियेते —
1)
2)
एताभ्यां द्वाभ्यां प्रकाराभ्याम् केवलं अनल्-आश्रिताः गुणधर्माः एव आदेशे अतिदिश्यन्ते, अल्-आश्रिताः गुणधर्माः तु आदेशे नैव अतिदिश्यन्ते — इति प्रकृतसूत्रस्य अर्थः । अस्मिन्नेव सन्दर्भे काशिकाकारेण — आहत्य अष्टौ अनल्-आश्रिताः गुणधर्माः विद्यन्ते — इति स्पष्टीकृतम् अस्ति । एतेषाम् अष्टानाम् क्रमेण
सोदाहरणम् विवरणम् एतादृशम् —
अस्तेर्भूः 2.4.52 इत्यनेन सूत्रेण आर्धधातुकप्रत्ययस्य विवक्षायाम्
अस्
→ भू [अस्तेर्भूः 2.4.52 इति अस्-धातोः भू-आदेशः । स्थानिवद्भावेन अस्य धातुसंज्ञा भवति ।]
→ भू + अनीयर् [धातोः 3.1.91 अस्मिन् अधिकारे विद्यमानेन कृत्तद्धितसमासाश्च 1.2.46 इति सूत्रेण पाठितः अनीयर्-प्रत्ययः भू-आदेशस्य धातुसंज्ञां दृष्ट्वा तत्र विधीयते]
→ भवनीय [सार्वधातुकार्धधातुकयोः 7.3.84 इति गुणः, एचोऽयवायावः 6.1.78 इति अवादेशः]
किम् + भ्याम् [तृतीयाद्विवचनस्य भ्याम्-प्रत्ययः]
→ क + भ्याम् [किमः कः 7.2.103 इति क-आदेशः । स्थानिवद्भावेन अस्य अङ्गसंज्ञा भवति ।]
→ काभ्याम् [सुपि च 7.3.102 इति अदन्त-अङ्गस्य दीर्घादेशः 'क' इत्यस्य अङ्गसंज्ञां दृष्ट्वा प्रवर्तते ।]
समासस्य विषये
अप + कृ + क्त्वा [समानकर्तृकयोः पूर्वकाले 3.4.21 इति क्त्वाप्रत्ययः]
→ अप + कृ + ल्यप् [समासेऽनञ्पूर्वे क्त्वो ल्यप् 7.1.37 इत्यनेन क्त्वा-प्रत्ययस्य ल्यप्-आदेशः । स्थानिवद्भावेन अस्य कृत्संज्ञा भवति ।]
→ अप + कृ + तुक् + य [ल्यप्-इत्यस्य कृत्संज्ञां प्रत्ययसंज्ञां च दृष्ट्वा ह्रस्वस्य पिति कृति तुक् 6.1.71 इति सूत्रेण ह्रस्वान्तस्य अङ्गस्य तुगागमः भवति ।]
→ अपकृत्य
ठस्येकः 7.3.50 इति सूत्रेण
संवत्सरस्य इदम्
→ संवत्सर + ठञ् [कालाट्ठञ् 4.3.11 इति ठञ्-प्रत्ययः । कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । सुपो धातुप्रातिपदिकयोः 2.4.71 इति षष्ठीप्रत्ययस्य लुक् ]
→ संवत्सर + ठ [इत्संज्ञालोपः । ठकारस्य इत्संज्ञा प्रयोजनाभावात् न भवति ।]
→ संवत्सर + इक [ठस्येकः 7.3.50 इत्यनेन ठ-प्रत्ययस्य इक-आदेशः । स्थानिवद्भावेन आदेशस्य तद्धितसंज्ञा ।]
→ सांवत्सर् + इक [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः, यस्येति च 6.4.148 इति अकारलोपः]
→ सांवत्सरिक
समासेऽनञ्पूर्वे क्त्वो ल्यप् 7.1.27 इति सूत्रेण
प्र + पठ् + क्त्वा + सुँ [समानकर्तृकयोः पूर्वकाले 3.4.21 इति क्त्वाप्रत्ययः । कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । अतः प्रथमैकवचनस्य विवक्षायाम् सुँ-प्रत्ययः]
→ प्र + पठ् + ल्यप् + सुँ [समासेऽनञ्पूर्वे क्त्वो ल्यप् 7.1.37 इत्यनेन क्त्वा-प्रत्ययस्य ल्यप्-आदेशः । स्थानिवद्भावेन अस्य (तदन्तस्य) अव्ययसंज्ञा भवति ।]
→ प्रपठ्य + सुँ
→ प्रपठ्य [अव्ययादाप्सुपः 2.4.82 इत्यनेन अव्ययसंज्ञकात् विहितस्य सुप्-प्रत्ययस्य लुक् भवति ]
राम-शब्दस्य चतुर्थ्येकवचनस्य प्रक्रियायाम्
राम + ङे [चतुर्थ्येकवचनस्य ङे-प्रत्ययः]
→ राम + य [ङेर्यः 7.1.13 इति ङे-प्रत्ययस्य य-आदेशः । स्थानिवद्भावेन अत्र आदेशस्य सुप्-प्रत्ययसंज्ञा ।]
→ रामाय [सुपि च 7.3.102 इति अङ्गस्य दीर्घः]
लङ्लकारस्य प्रक्रियायाम् उत्तमपुरुषैकवचनस्य
द्विषँ (अप्रीतौ, अदादिः, <{2.3}>)
→ द्विष् + लङ् [अनद्यतने लङ् 3.2.111 इति लङ्]
→ अट् + द्विष् + लङ् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अडागमः]
→ अ + द्विष् + मिप् [तिप्तस्झि.. 3.4.78 इति उत्तमपुरुषैकवचनस्य मिप्-प्रत्ययः]
→ अ + द्विष् + अम् [तस्थस्थमिपां तांतंतामः 3.4.101 इति अम्-आदेशः । अयम् स्थानिवद्भावेन तिङ्प्रत्ययत्वं प्राप्नोति । अतः तिङ्शित्सार्वधातुकम् 3.4.113 इत्यनेन अस्य सार्वधातुकसंज्ञा भवति ।]
→ अ + द्विष् + शप् + अम् [सार्वधातुकप्रत्यये परे कर्तरि शप् 3.1.68 इति शप्-प्रत्ययः ]
→ अ + द्विष् + अम् [अदिप्रभृतिभ्यः शपः 2.4.72 इति शब्लुक्]
→ अ + द्वेष् + अम् [सार्वधातुकप्रत्ययनिमित्तकः पुगन्तलघूपधस्य च 7.3.86 इति लघूपधगुणः]
→ अद्वेषम्
युष्मद्-सर्वनाम्नः षष्ठीबहुवचनस्य
युष्माकम्
→ वस् [बहुवचनस्य वस्नसौ 8.1.21 इति वस्-आदेशः । स्थानिवद्भावेन अस्य पदसंज्ञा भवति ।]
→ वरुँ [पदान्तसकारस्य ससजुषो रुँः 8.2.66 इति रुँत्वम्]
→ वः [खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]
अनेन प्रकारेण अनल्-आश्रिताः गुणधर्माः अष्टविधाः सन्ति । एते सर्वे अपि आदेशे अतिदिश्यन्ते ।
प्रकृतसूत्रेण केवलम् अनल्-आश्रितगुणधर्माणाम् (उपरि-निर्दिष्टानाम् अष्टानाम् गुणधर्माणाम्) एव आदेशे अतिदेशः सम्भवति । एतान् विहाय अन्ये गुणधर्माः (अल्-आश्रिताः गुणधर्माः) आदेशे नैव अतिदिश्यन्ते । तत्र आहत्य चतुर्षु कार्येषु अयम् स्थानिवद्भावः न विधीयते इति प्रथमावृत्तौ परिगणितम् अस्ति । तद् इत्थम् —
1) अल्-आश्रितेन गुणधर्मेण
दिव् + भ्याम् [तृतीयाद्विवचनस्य भ्याम् प्रत्ययः]
→ दि उ + भ्याम् [दिव उत् 6.1.131 इत्यनेन दिव्-इत्यस्य वकारस्य उ-आदेशः । अत्र वकारस्य वकारत्वम् उकारे नैव अतिदिश्यते, अतः अत्र लोपो व्योर्वलि 6.1.66 इति वकारलोपः न सम्भवति ।]
→ द्युभ्याम् [इको यणचि 6.1.77 इति यणादेशः]
2) अल्-आश्रितेन गुणधर्मेण स्थानिनः
पथिन्-शब्दस्य प्रथमैकवचनस्य प्रक्रियायाम् पथिमथ्यृभुक्षामात् 7.1.85 इत्यनेन नकारस्य आकारादेशे कृते, नकारस्य हलन्तत्वम् आकारे न अतिदिश्यते, अतः हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इत्यनेन सुँ-प्रत्ययस्य लोपः नैव सम्भवति ।
पथिन् + सुँ
→ पथि आ + स् [पथिमथ्यृभुक्षामात् 7.1.85 इत्यनेन नकारस्य आकारादेशः । अत्र आदेशे कृते नकारस्य हलन्तत्वम् आकारे नैव अतिदिश्यते । अतः हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इत्यनेन सुँ-प्रत्ययस्य लोपः अपि नैव सम्भवति ।]
→ पथ आ + स् [इतोऽत् सर्वनामस्थाने 7.1.86 इत्यनेन इकारस्य अकारादेशः]
→ पन्थ् अ आ + स् [थो न्थः 7.1.87 इति थकारस्य 'न्थ्' आदेशः]
→ पन्थाः [अकः सवर्णे दीर्घः 6.1.101 इति सवर्णदीर्घः । विसर्गनिर्माणम् ।]
3) अल्-आश्रितेन गुणधर्मेण स्थानिनः
राम + सुँ + इष्टः [अत्र इष्ट-शब्दस्य इकारे यज्-धातोः यकारादित्वम् न अतिदिश्यते, अतः 'इष्टः' इति शब्दः यकारादिः न स्वीक्रियते ।]
→ राम + र् + इष्टः [ससजुषो रुः 8.2.66 इति रुत्वम्]
→ रामय् इष्टः [भोभगोअघोअपूर्वस्य योऽशि 8.3.17 इति यकारादेशः । यदि 'इष्टः' इति शब्दे यकारादित्वम् अभविष्यत्, तर्हि अत्र हशि च 6.1.114 इत्यनेन उकारादेशः अभविष्यत् ।]
→ राम इष्टः [लोपः शाकल्यस्य 8.3.19 इति यकारलोपः]
4) अल्-आश्रितेन गुणधर्मेण निमित्तकः विधिः
1) क्त्वा-प्रत्ययः कित् अस्ति, अतः तत्स्थाने आदेशरूपेण विहितः ल्यप्-प्रत्ययः अपि कित् भवति; अतश्च
2) ब्रूञ्-धातुः ञित् अस्ति, अतः तत्स्थान विहितः वच-आदेशः अपि ञित्-भवति, अतश्च स्वरितञितः कर्त्रभिप्राये क्रियाफले 1.3.72 इत्यनेन तस्मात् आत्मनेपदस्य अपि प्रत्ययाः विधीयन्ते ।
3) ण्वुल्-प्रत्ययः णित् अस्ति, अतः तत्स्थाने विहितः अक-आदेशः अपि णित् भवति, अतश्च
सेर्ह्यपिच्च 3.4.87 इति सूत्रे विद्यमानम् 'अपित्' इति ग्रहणम् अस्य ज्ञापकरूपेण स्वीक्रियते ।
index: 1.1.56 sutra: स्थानिवदादेशोऽनल्विधौ
स्थानिवदादेशोऽनल्विधौ - ननु सुध् य् इत्यत्र ईकारस्थानिकस्य यकारस्य स्थानिवद्भावेनाच्त्वाद्च्परकत्वात्कथं धकारस्य द्वित्वमिति शङ्का ह्मदि निधाय तस्य स्थानिवद्भावप्रापकसूत्रमाह-स्थानिवदादेशः । गुरुस्थानापन्ने गुरुपुत्रादौ स्थानापत्त्या तद्धर्मलाभो लोकतः सिद्धः । कुशादिस्थानापन्नेषु शरादिषु च वैदिकन्यायसिद्धः । इह तु शास्त्रे स्वं रूपं शब्दस्येति वचनात्स्थानिधर्मा आदेशेषु न प्राप्नुयुरिति तत्प्राप्त्यर्थं स्थानिवदादेश इत्यारब्धम् । 'स्थानं प्रसङ्ग' इत्युक्तम् । यस्य स्थानेऽन्यद्विधीयते तत्स्थानि । येन विधीयमानेन अन्यत्प्रसक्तं निवर्तते स आदेशः । स्थानिना तुल्यः स्थानिवत् ।तेन तुल्य॑मिति वतिप्रत्ययः । आदेशः स्थानिना तुल्यो भति । स्थानिधर्मको भवतीति यावत् । अलिति वर्णपर्यायः । विधीयत इति विधिः=कार्यम् । अलाश्रयो विधि अल्विधिः अनल्विधिः । अलाश्रयभिन्ने कार्ये कर्तव्ये इति प्रतीयमानोऽर्थः । अलाश्रयकार्ये कर्तव्ये स्थानिवन्न भवतीति फलितम् । अलाश्रयेति सामान्यवचनात् अला विधिः, अलः परस्य विधिः, अलो विधिः लि विधिश्चेति सर्वसंग्रहः । अला विधौ यथा-व्यूढोर स्केन । अत्र विसर्जनीयस्य सः॑ इति विसर्गस्थानिकस्य सकारस्य व#इसर्गत्वमाश्रित्य अड्व्यवाय इति णत्वं प्राप्तं न भवति । अलः परस्य विधौ यथा-द्यौः ।दिव औ॑दिति वकारस्थानिकस्य औकारस्य स्थानिवद्भावेन हल्त्वात्ततः परस्य सोर्हल्ङ्यादिलोपः प्राप्तो न भवति । अलो विधौ यता द्युकामः ।दिव उ॑दिति वकारस्थानिकस्य उकारस्य स्थानिवद्भावेन वकारत्वात्लोपो व्योर्वली॑ति लोपः प्राप्तो न भवति । अलि विधौ यथा-क इष्टः । यजेः क्तः । अत्र यकारस्थानिकसंप्रसारणस्य इकारहस्य स्थानिवद्भावेन हश्त्वात् हशि चे॑त्युत्वं प्राप्तं न भवति । अल् चेह स्थानिभूतः, स्थान्यवयवश्च गृह्रते । ततश्च आदेशस्य स्थानिभूतो योऽल्, स्थान्यवयवश्च योऽल्, तदाश्रयविधौ न स्थानिवदिति फलति । तत्र स्थानीभूताऽल्विधौ व्यूढोरस्केनेत्युदाहृतमेव । यथा वा-धिवि प्रीणन इति धातोर्लटि प्रथमपुरुषस्य झेरन्तादेशे 'धिन्विकृण्व्योर च' इति विकरणस्य उकारस्य यणि वकारे सति तस्य स्थानिवद्भावेनार्धधातुकत्वात् स्वतो वलादित्वाच्च इडागमः प्राप्तो न भवति, वकारस्य स्थानिभूतो योऽल् उकारः, तदादेशं वकारमार्धधातुकत्वेनाश्रित्य प्रवर्तमानस्य इटः स्थान्यलाश्रयत्वात् । स्थान्यवयवालाश्रयविधौ यथा प्रतिदीव्य । इह क्त्वादेशस्य य इत्यस्य स्थानिवद्भावेन बलाद्यार्धधातुकत्वादिडागमः प्राप्तो न भवति । इडागमस्य वलादित्वविषये स्थान्यवयवभूतालाश्रयत्वात् । तदेतदाह-आदेशः स्थानिवत्स्यान्नतु स्थान्यलाश्रयविधाविति । स्थान्यलाश्रयेत्यत्र स्थानीति किम् । रामाय । इहसुपि चे॑ति दीर्घस्य यञादिसुबाश्रयस्य आदेशगतयकाररूपालाश्रयत्वेऽपि तस्मिन् कर्तव्ये यादेशस्य स्थानिवद्भावेन सुप्त्वं भवत्येव, दीर्घस्य आदेशगतयकाररूपालाश्रयत्वेऽपि स्थान्यलाश्रयत्वाऽभावात् । न च नीञ्धातोर्ण्बुलि अकादेशे वृद्धौ नै-अक इति स्थिते ऐकारस्य स्थानिवद्भावेन ईकारधर्मकत्वादायादेशो न स्यात्, ईकारस्य आयादेशाभावादिति वाच्यम्, इह हि स्थानिप्रयुक्तं यत् कार्यं शास्त्रीयं तदेवातिदिश्यते । ईकारस्य च आयादेशभावो न शास्त्रविहित इति न तस्य ईकारस्थानिके ऐकारे अतिदेश इत्यास्तां तावत् । अनेनेति । उदाहृतेन स्थानिवत्सूत्रेण इह=सुध्य् इत्यत्र ईकारस्थानिकस्य यकारस्य स्थानिवद्भावेन अच्कार्यकारित्वमाश्रित्य अचि न द्वित्वमित्यर्थकेन अनचीत्यनेन धकारस्य द्वित्वनिषेधो न शङ्कनीय इत्यर्थः । कुत इत्यत आह — अनल्विधाविति तन्निषेधादिति । स्थानिवत्त्वनिषेधादित्यर्थः । यकारादेशस्थानीभूतो योऽल् ईकारः तद्गतमच्त्वं यकारे आश्रित्य प्रवर्तमानस्य यकारद्वित्वनिषेधस्य स्थान्यलाश्रयत्वादिति भावः ।
index: 1.1.56 sutra: स्थानिवदादेशोऽनल्विधौ
ननु तत्स्थानापन्नस्य तद्धर्मलाभो लोकवेदयोः सिद्ध एव । लोके तावदेकस्मिन्नुपाध्याये मृते तत्स्थाननिविष्टस्याप्यबिवादनाद्यौपाध्यायधर्मलाभो भवति, एकस्मिंश्च राजनि प्रोषिते तत्स्थानेऽभिषिक्तस्य तत्पुत्रादेरपि तद्धर्मलाभो भवति । वेदेऽपि व्रीहिस्थानपतिता वीवारादयोऽवघातादीन् व्रीहिधर्मान् लभन्ते । तद्वदत्राप्यस्तिस्थानापन्नो भूरस्तिधर्मान् धातुत्वादीन् लप्स्यते, नार्थोऽनेनेत्याशङ्क्याह - स्थान्यादेशयोरित्यादि । अयमभिप्रायः - उपाध्यायत्वप्रयुक्ता उपाद्यायधर्मा राजधर्माश्चाभिषिक्तत्वप्रयुक्ता व्रीहिधर्माचापूर्वसाधनत्वनिबन्धनाः, न ततत्स्वरूपनिबन्धना इति युक्तं तत्प्रकारजुषो भवन्तीति । इह तु स्वं रूपमितिवचनादस्त्यादिस्वरूपनिबन्धना धातुत्वादयो धर्मा न भवनाद्यर्थाभिधानलक्षणकार्यप्रयुक्ताः, तच्च स्वरूपमादेशानां नास्तीति तत्स्थानापन्नानामपि न स्युरिति तदाह - पृथक्त्वादिति । रूपभेदादित्यर्थः । नन्वेतत्प्रकारजुषोऽपि तत्स्थानापन्नस्य तद्धर्मलाभो दृष्टते, यदा ह्युपाध्यायः शिष्येण यज्ञार्थमुपनिमन्त्रितः कार्यव्यासङ्गात् स्वशिष्यमन्यं प्रेरयति तदा स तत्र गत्वाऽग्रासनादीनुपाध्यायधर्मान् लभते, अत्राप्युपाध्यायप्रतिनिधित्वात् तद्बुद्ध्यैव तद्धर्मा अनुष्ठीयन्ते; एवं कृते तु सत्युपाध्याय इति न तत्स्थानापन्नतया, न चैवमत्र संभवतीत्यारब्धव्यमेव सूत्रम् । युष्मदस्मदोरादेशनिषेधात्सिद्धम् । यदयं 'युष्मदस्मदोरनादेशे' इत्याह, तज् ज्ञापयति-'भवति स्थानिकृतमादेशः' इति; अलाश्रये चाप्रसङ्गः, 'अदो जग्धिः' ल्यब्ग्रहणात् । यदि हि स्थान्यलाश्रयमप्यादेशे स्यात् कितीत्येव सिद्धे ल्यब्ग्रहणनर्थकं स्यात्, सत्यम्; 'उतरार्थं तावत् स्थानिवदादेश इति वक्तव्यम् । अजादेशस्य विषयविशेषे स्थानिवत्वं वक्ष्यामि, पदान्तादिविधिषु प्रतिषेधं वक्ष्यामि' इति । सोऽन्यार्थः सन्निहैव क्रियते लिङ्गानाश्रयणाय । षोढातिदेशः-निमितातिदेशः, व्यपदेशातिदेशः, शास्त्रातिदेशः, रूपातिदेशः, तादात्म्यातिदेशः, कार्यातिदेश इति । तत्र निमितमशक्यमतिदेष्टुंअ ब्राह्मण्यवत्, न हि ब्राह्मणस्याग्रभोजनादिनिमितं ब्राह्मण्यं वचनशतेनापि क्षत्रियेऽतिदेष्टुंअ शक्यते । 'पूर्ववत्सनः' इत्यत्रापि न प्रकृतिगतं निमितं ङ्त्वाइदि सनन्तेऽतिदिश्यते, किन्तु प्रकृतिगतमेव तत् सना व्यवधानेऽप्यात्मनेपदनिमितमिति । एतावता निमितातिदेशवाचोऽयुक्तिः । व्यपदेशातिदेशः संज्ञापक्षान्न भिद्यते, तत्र च वतेरानर्थक्यं वक्ष्यते, कः पुनरायुष्मतो व्यपदेशोऽभिप्रेतः ? किं स्थानीति व्यपदेशः, यथा 'आद्यन्तवदेकस्मिन्'इत्यत्र व्यपदेशातिदेशपक्षः ? उत स्थानिनो ये व्यपदेशा धातुरङ्गमित्यादयः, त आदेशस्य भवन्ति ? इति । पूर्वः पक्षो भवतोऽप्यनभिप्रेतः, द्वितीयस्य तु संज्ञापक्षान्महान् भेदः । तथाहि - संज्ञापक्षे यत्र स्थानिरूपमुच्चार्य्यते 'आङे यमहनः ' इत्यादौ, तत्रैव कार्यं स्याद्, न धातोस्तव्यादयोऽह्गस्येनादय इत्यादौ; न ह्यत्र संज्ञात्वेन विनियुक्तमस्त्यादि स्थानिरूपमुच्चारितम्; यच्चोच्चारितं न सा संज्ञा, ताअदेशस्यैव कार्यं स्याद् न स्थानिनः, न हि संज्ञोच्चारिता स्वयं कार्येण युज्यते, स्थानिनस्तु व्यपदेश आदेशस्तयातिदिश्यमाने धातोस्तव्यादयोऽङ्गस्येनादय इत्यादौ स्थान्यादेशयोरुभयोरपि कार्यं सिद्ध्यति; उभयोरपि व्यपदेशसद्भावात् । 'आङे यमहनः' इत्यादिकं तु स्थानिस्वरूपनिबन्धनं कार्यमादेशस्य न स्यात्,न ह्यत्र काश्चिद्व्यपदेशो य आदेशस्यातिदिश्येत । अथापि श्वं रूपम्' इति वचनाद्धन्नित्यपि हन्तेर्व्यपदेश इति तस्मिन्नतिदिष्टे कार्यं सिध्यतीत्युच्यते; एवमपि पूर्वोक्तस्तावद्विशेषो विद्यत इत्यास्तामेतत् । अप्रधानत्वातु व्यपदेशो न भवति । अत एव शास्त्रातिदेशोऽपि न भवति । स्थानिरूपे चाऽतिदिश्यमान आदेशविधानं व्यर्थं स्यात् । न च वचनद्वयप्रामाण्याद्विकल्पः, 'वा लिटि' इति विकल्पारंभात् । तादात्म्यातिदेशोऽसंभवान्न भवति, द्वयोर्हि सहावस्थितयोरन्योऽन्यतादात्म्यमतिदिश्यते, सुबामन्त्रितयोरिव, इह त्वादेशेन स्थानी निवर्तित इत्यसंभवः । अतः पारिशेष्यात्प्राधान्याच्च कार्यातिदेशोऽयम्, तदाह-स्थान्याश्रयकार्यमिति, स्थान्याश्रयेषु कार्येष्विति च । तात्पर्यतश्चायं कार्यातिदेशो वर्ण्यते । अक्षराणि त्वादेशः स्थानिना तुल्यं वर्तत इत्येतावत्येव पर्यवसितानि । केन तु प्रकारेण तुल्यत्वमित्यपेक्षायां तत्कार्यापत्येति तदाह - स्थानिना तुल्य वर्तत इति । स्थानिवदिति । स्थान्याश्रयेष्विति । बहुव्रीहिः । अनल्विधावित्यस्यार्थमाह - अनलाश्रयेष्विति । एतेन विधीयते इति विधःउ कार्यम्, अलाश्रयो विधिरल्विधिरित्युतरपदलोपी समास इति दर्शयति । किमर्थं पुनरुतरपदलोपाश्रयणम् ? स्यादेतत्-सति तस्मिन्, यश्चालि विधिः, यश्चालो विधिः,यश्चालः परस्य विधिः-यजेः क्तः, इष्टः, क इष्ट इत्यत्र संप्रसारणस्य स्थानिवत्वात् को यष्टेत्यादिवत् 'हशि च'इत्युत्वं प्राप्तं न भवति, स इष्ट इत्यत्र 'एततदौः' सुलोपो न भवति । अलो विधिः - द्यौकामः, उकारस्य 'लोपो व्योर्वलि' इति न भवति । उत्वं तु 'अहर्विमलद्यौ' इत्यत्र चरितार्थम् । अलः परस्य विधिः-द्यौः, पन्थाः, सः-हल्ङ्याबिति लोपो न भवति । अला विधिः-व्यूढोरस्केन । अत्र शोऽपदादौ' इति वसर्जनीयस्य स्थाने विहितस्य स्थानिवत्वात् विसर्जनीयस्याटसूपदेशाद् 'अड्व्यवाये' इति णत्वं प्राप्तं न भवति । अतः सर्वविभक्त्यर्थसंग्रहाथंमुतरपदलोपाश्रयणम् । अन्यथा हि षष्ठीसमास एवाश्रीयतेऽल्स्थानिक एव विधिराश्रितः स्यादिति, तन्न; सम्बन्धसामान्ये षष्ठ ईविज्ञानादपि सर्वविभक्त्यर्थसंग्रहस्य सिद्धत्वात् । अनुवादे हि स्थानेयोगाभावात् सर्वोऽल्सम्बन्धी विधिः प्रतिपत्स्यते । एवं तर्हि यत्र गुणभावेनाप्यलाश्रीयते, तत्रापि निषेधो यथा स्यात्-प्रपठ।लेति, अत्र हि वलादेरिति प्रत्ययः प्राधान्यनाश्रितः, वल् तु गुणभावेनेति अप्राधान्यान्न स्यात् । उतरपदलोपे तु भवति; अलाश्रयत्वादिड्विधेः । यद्यलाश्रयेषु स्थानिवत्वं न भवति, वृक्षाय - शुपि च' इति दीर्घो न स्यात्; यञादौ सुपीत्यलाश्रयत्वात् । अरुदितामित्यत्र सार्वाधातुकस्य तसस्तामादेशे 'रुदादिभ्यः सार्वधातुके ' इति वलाश्रय इण् न स्यात्, अत आह-स्थान्यलाश्रयाणीति । स्थानिनोऽल् स्थान्यल्, स आश्रयो येषां तानि तथोक्तानि । अयमभिप्रायः-यथा गुरुपद्गुरुपुत्रे वर्तितव्यमन्यत्रोच्छिष्टभोजनात् पादेपसंग्रहणाच्चेति अतिदेशे प्रवृते, यदा गुरुपुत्रः स्वयं गुरुर्भवति तदोच्छिष्ट्ंअ भुज्यते पादौ चोपसंगृह्यएते, तत्कस्य हेतोः ? अतिदेशेनैक्वाक्यतामापन्नः प्रतिषेध आतिदेशिकीमेव प्राप्तिं प्रतिषेधतीति, तथेहाप्यातिदेशिक एवाल्विधिः प्रतिषिध्यते । न च वृक्षाय, अरुदितामित्यत्रातिदेशापेक्षा; स्वयमेव यञादित्वाद्वलादित्वाच्च । ततश्च यत्र स्थानिन एवालाश्रीयते स एव निषिध्यते, यथा-प्रपठ।लेत्यत्र । न ह्यत्र ल्यप् स्वयं वलादिरिति । ननु च गुरुपुत्रस्य स्वयं गुरुत्व उच्छिष्टभोजनादौ न मात्रयाप्यतिदेशापेक्षा, इह तु सत्यपि स्यमेव यञादित्वे नान्तरेणातिदेशं दिर्घः सिद्ध्यति; असुप्त्वात् । अरुदितामित्यत्रापि सत्यपि स्वयं वलादित्वेऽसार्वधातुकत्वादतिदेशेनैव वेट् प्रार्थनीयः, सत्यम्; द्वे कार्ये-सुप्संज्ञा च, दीर्घत्वं च । न हि 'प्रयोगसमवाय्येव कार्यमतिदेश्यम् ' इति नियमोऽस्ति, यतु शास्त्रीयं तदेवातिदिश्यते । न च सुप्संज्ञाऽलाश्रयेति; तस्यामतिदिष्टायां स्वाश्रयं यञादित्वमाश्रित्य दीर्घत्वं भविष्यति । अरुदितामित्यत्राप्यातिदेशिकं सार्वधअतुकत्वं स्वाश्रयं च वलादित्वमाश्रित्येड् भविष्यति । ननु च वृक्षायेत्यत्र स्थानिन एकारस्याल्त्वातदाश्रयं सुप्त्वमलाश्रयमेव, उच्यते; कार्यापेक्षमल्विधित्वं नोदाहरणापेक्षम् । एतदुक्तं भवति - यस्मिन् कार्ये विधीयमानेऽल एवासाधारणं किञ्चिद्रूपं निमितादिरूपेणाश्रीयते - 'हशि' 'हलि' 'व्योर्वलि' 'हल्ङ्याब्भ्यः' 'अड्व्यवाये' इति - स एवाल्विधिः; 'सुपि च' इत्यत्र तु नैवंविधं किञ्चिदस्ति, केवलं वृक्षायेत्यत्रोदाहारणेऽलात्मकः स्थानीतेयतावत् किमुदाहरणमिति प्रश्नः । धात्वाद्यादेशाः प्रयोजनमित्युतरम् । तत्र 'प्रयुज्यतेऽनेनेति प्रयोजनम्' उदाहरणं न प्रयुज्यत इत्यर्थात्प्रश्नानुरूपं प्रतिवचनम् । ननु चास्तिब्रुवोरार्द्धधातुके परत आदेशाभ्यां भाव्यम्, तत् किमतिदेशेनेत्यत आह - आर्द्धधातुके विषय इत्यादि । दाधिकम् । दध्नि संस्कृतम् 'दध्नष्टक्' । अव्ययादेश इति । क्त्वामात्रस्य ल्यबादेशः, क्त्वान्तस्याव्ययसंज्ञा, स कथमव्ययादेशः, तस्मात् क्त्वाग्रहणेन ल्यपो ग्रहणातदन्तस्यापि संज्ञा भवतीत्येवम्परमेतत् । तत्रापि 'कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्' इति प्रस्तुत्येति संघातस्य भवति । वक्करणं किमिति । विनापि तेन तदर्थो गम्यते, यथा ङ्त्किदित्यादाविति प्रिश्नः । स्थानीत्यादि । असति वत्करणे संज्ञाप्रकरणत्वात् स्थान्यादेशस्य संज्ञा विज्ञायेत, मैवं विज्ञायीति वत्करणमित्यर्थः । किमर्थं पुनः स्थान्यादेशस्य संज्ञा नेष्यत इत्याह - स्वाश्रयमपीति । संज्ञायां हि स्थानिस्वरूपनिबन्धनम् 'आङेयमहनः' इत्यादि कार्यमादेश एव स्याद्, न स्थानिनि; न हि संज्ञोच्चारिता स्वयं कार्येण युज्यते । 'आत्मनेपदेष्वन्यतरस्याम्' इति च विषयसप्तमी विज्ञायते । स्वाश्रयमपीति । कोऽर्थः ? स्थानिन्यपीत्यर्थः । तथा चोतरग्रन्थे 'उभयत्र' इति सप्तमीनिर्द्देशः । आदेशग्रहणं किमिति । यथा 'पितृवत्स्थूलः' इत्युक्ते सम्बन्धिशब्दात्पुत्र इति मम्यते, तथेहापि स्थानिवदित्युक्ते क इत्यपेक्षायाम् 'यदपेक्षं स्थानित्वं स एवा देशः' इति गम्यत प्रश्नः । आनुमानिकस्येत्यादि । द्विविधो हि आदेशः - प्रत्यक्षश्च 'अस्तेर्भूः' इत्यादिः, आनुमानिकश्च 'एरुः' इत्यादिः । अत्रेकारेणेकारान्तः स्थान्यनुमीयते, विषणेनेव गौः । उकारेण चोकारान्त आदेशः ततस्तेस्तुरिति सम्पद्यते । तत्रासत्यादेशग्रहणे प्रत्यक्षस्यैव ग्रहणं स्यान्नानुमानिकस्य, पुनःश्रतेस्तु व्याप्त्यर्थत्वात् आदेशमात्रं स्थानिवद्भवति । तेन पचत्वित्यत्र 'तिङ्न्तं पदम्' इति पदसंज्ञा सिद्धा भवति । ननु चेकारमात्रस्योकारमात्रमादेशोऽस्तु, किं तदन्तानुमानन ? एवं हि 'एरुः' इत्येतच्च यथाश्रुतमेव व्याख्यातं भवति; आदेशग्रहणं च न कर्तव्यं भवति, 'एकदेशविकृतिस्यानन्यत्वात् पदसंज्ञा भविष्यति । एवं तर्हि पुनःश्रुतिरेव लिङ्गम्, एकदेशविकारः शास्त्रे नाश्रीयत इति, तेन - सर्वे सर्वपदादेशा दाक्षीपुत्रस्य पाणिनेः । एकदेशविकारे हि नित्यत्वं नोपपद्यते ॥ इति सिद्धं भवति । द्यौपिथित्यदादेशा इति । 'दिव औत्', 'पथिमथ्युभुक्षामात्','त्यदादीनामः-इत्येते । ननु सामान्यातिदेशे विशेषानतिदेशः, ततश्च यथा ब्राह्मणवदस्मिन् क्षत्रिये वर्तितव्यमिति ब्राह्मणमात्रकार्यमेव भवति, न माठरादिविषेषकार्यम्; तथा 'स्थानिवदादेशः' इत्युक्ते यः स्थानी यदाकारविशिष्टः सूत्रे श्रूतस्तदादेशस्य तदाकारप्रयुक्तेनैव कार्येण भवितव्यम् । 'क्त्वो ल्यप्' इत्यत्र च वस्तुस्थित्या सन्निहितमपि वलादित्वं स्थानिरूपेण नाश्रितम् । तथा हि-इडादिरपि क्त्वा भवत्येव,क्त्वा केवलोऽपि दत्वायेति यगन्तोऽपि, इष्ट्वीनमिति मान्तोऽपि; तत्र क्त्वामात्रप्रतिबद्धं यत्कार्यं कृत्वप्रत्ययत्वादि, तदादेशेऽतिदिश्यताम्, वलादित्वस्य तु कुतोऽतिदेशः ? एवं क इष्ट इत्यादावपि च यण इक् भवति, दिवोऽलोऽन्त्यस्योत्वौत्वे भवतः, पथ्यादीनामन्त्यस्याद्भवति, त्यदादीनामन्त्यस्याकारः, विसर्ज्जनीयस्य सत्वमित्येवं यणादिरूपेण स्थानिन आश्रयणम् । ततश्च ततदाकारप्रयुक्तस्यैव कार्यस्यापि अतिदेशः, न हल्त्वादिविशेषणिबन्धनस्येति नार्थोऽनल्विधावित्यनैन । यत्र तर्हि विशेषरूपमेव स्थानित्वेनाश्रीयते, यथा-'च्छ्वोः शूठ' इति वकारः, तत्र तत्कार्यमादेशस्य मा भूद्-अक्षद्यौउभ्याम् । वलि लोपो न भवति । अथात्रापि वकारान्तस्याङ्गस्यालोऽन्त्यस्योडिति रूपेण स्थानिन आश्रयणम्, एवमपि विशेषातिदेशज्ञापनार्थमिदमुच्यते; अन्यथा ल्यपो वलादित्ववत् कित्वस्याप्यतिदेशो न स्यात्, देवित्वेत्यादावकितोऽपि क्त्वः सम्भवात् । अनुबन्धाश्च स्थानिन्यसन्त एव कार्येषु युज्यन्त इति तत्कार्येष्वनल्विधाविति निषेधो न भवति । लिङ्गाच्च । यदयं शेर्ह्यपिच्च' इत्याह, तज्ज्ञापयति-भवत्यनुबन्धकार्याणामतिदेश इति ॥ अचः परस्मिन् पूर्वविधौ । अचेति स्थानिनिर्देश इति । यद्यप्यनूद्यमानादेशविशेषणत्वात् स्थानषष्ठी न लभ्यते, तथाप्यचो य आदेश इत्युक्ते तत्स्थानिक एव प्रतीयत इति । परस्मिन्निति निमितभावे सप्तमी, न परसप्तमी; परशब्देनैव परत्वस्योक्तत्वात्, परस्मिन्य आदेश इति अनुवादत्वाच्च, किति ये गुणवृद्धी इतिवत्; पूर्वविधाविति विषय इति प्रकृतत्वात् स्थानिवत्वस्य । पूर्वविधौ कर्तव्ये स्थानिवदिति । एवं पदतात्पर्यं दर्शयित्वा वाक्यार्थमाह - अजादेश इतायदि । किमर्थमिदमुच्यते, पूर्वत्र स्थानिकार्यमादेशेऽतिदिष्टम्, इह तु स्थानिनि सति पूर्वस्य यत्कार्यं तदादेशेऽपि सति पुर्वस्य भवतीत्यतिदिश्यते । ननु तत्रापि स्थानिनिमितमन्यस्य तदप्यतिदिश्यते, यथा वृक्षायेति 'सुपि च' इति दीर्घत्वम् ? एवं तर्ह्याल्विध्यर्थमिदम् । तथा हि-वव्रश्चेत्युदत्वे ङ संप्रसारणे संप्रसारणम्' इति वकारस्य संप्रसारणप्रतिषेधः स्थान्यलाश्रयोऽस्माद्वचनाद्भवति । इदं च शंप्रसारणे परः प्रतिषेधः' इति पक्षे प्रयोजनम्, शंप्रसारणभाविनि यण्येव प्रतिषेधः' इति तु पक्षे न प्रयोजनम् । इहाचितीकः, बहुचितीक इति चितेः कपि दीर्घत्वे कृते 'ह्रस्वान्तेऽन्त्यात्पूर्वम्' इति स्थान्यलाश्रयः स्वरो भवति । एवं यातेर्यङ्न्तात् क्तिचि अतो लोपे यलोपविधिं प्रति स्थानिवत्वनिषेधाद् यलोपे च या या तीति स्थिते यङ्कारलोपस्य स्थानिवत्वात् 'आतो लोप इटि च' इत्याकारलोपे पुनर्यलोपे यातिरिति भवति । न च पुनराकारलोपः, पुनश्च यलोप इति प्रत्ययमात्रस्य श्रवणप्रसङ्गः, आल्लोपस्य स्थानिवत्वाच्चिणोलुङ्न्यायेनासिद्धत्वाद्वा । तथा च वरेविधौ स्थानिवत्वं निषिध्यते-यायावर इति । स्थानिवद्भावादातो लोपो मा भूदिति । तथा तिष्ठ तेर्यङ्न्तात् क्तिच्, अल्लोपयलोपयोस्तेष्ठीति स्थिते अल्लोपस्य स्थानिवत्वादियङ् भवति, तथा चोतरसूत्रेकण्डूअतिरित्यत्र उपङ्प्रसङ्गं चोदयित्वा 'अस्तु तस्यैव च्छ्रवोः शूडित्यूठ करिष्यते' इत्युक्तम्, इयङ् चि कृते यलोपे च तेष्ठितिरिति भवति । न च पुनरियङ्, आदिष्टादचः पूर्वत्वात् । तथा पेपीयतेः क्तिचि अल्लोपयलोपयोः 'एरनेकाचः' इति यणि यलोपे पेप्तिरिति भवति । 'शो तनूकरणे' यङ्न्तात् क्तिचि अल्लोपयलोपाल्लोपेषु पूर्वत्राद्धीये न स्थानिवदिति स्थानिवत्वनिषेधाच्छशां ष इति षत्वे शाष्टिरिति भवति । एवं चिचीयतेश्चेक्तिरित्येषा दिक् । तथा तितौमाचष्ट इति णिचि टिलोपस्य स्थानिवत्वादयो ञ्णितीत्यस्याभावे 'अतः उपधायाः' इति स्थान्यलाश्रया वृद्धिर्भवति । न चात्र क्विलुगुपधात्वेत्युपधाविधि प्रति स्थानिवत्वनिषेधः, तस्य प्रत्ययविधिविषयत्वात्, सत्यां च वृद्धौ पुकि सति तितापयतीति भवति । न च पुक्यपि स्थानिवत्वम्; आदिष्टादचः पूर्वत्वात् । ननु पूर्वस्य कार्ये कर्तव्ये सति स्थानिवत्वेन भवितव्यम्, अत्र च सर्वत्र स्थानिवत्वे सति पूर्वस्य कार्यप्राप्तिरिति इतरेतराश्रयम् । नात्र स्थानिवत्वात् प्रगेव पूर्वस्य कार्ये प्राप्ते स्थानिवत्वम्, किं तर्हि ? प्राग्वा पश्चाद्वा पूर्वस्य कार्ये पूर्वस्य कार्ये चिकीषिते । अत एव वरेविधौ स्थानिवत्वनिषेधः । तदेवमल्विध्यर्थमिदम् । किञ्च - ब्राह्मणवदस्मिन्क्षत्रिये वर्तितव्यमित्यत्र ब्राह्मणाश्रयं कार्यं प्राप्यते, न तु स्वाश्रयं युद्धादिकं व्यावर्त्यते । पूर्वसूत्रेऽपि स्थान्याश्रयं प्राप्यते, न स्वाश्रयं व्यावर्त्यते, यथा - वृक्षायेति दीर्घत्वमादेशाश्रयं भवति; भविता, भवितुम्, भवितव्यमिति गुणः । इह तु स्थान्यलाश्रयमेवेष्यते, स्वाश्रयं नेष्यते । तथा च पटयतीति टिलोपे कृते प्राप्ता उपधावृद्धिर्न भवति, अवधीदिति हलन्तलक्षणा, बहुखट्वक इति 'ह्रस्वान्तेऽन्त्यात्पूर्वम्' इतिस्वरो न भवति, वाय्वोर्यलोपो न भवति, तन्वन्तीतीण् न भवति । एवं बहूनि स्वाश्रयनिवृत्तिरुदाहरणानि । अत एव द्वर्वचनादिविधौ स्थानिवत्वनिषेधः । अतोऽजादेशः परनिमितकः पूर्वस्य विधौ स्थानिवदेव यथा स्यात्, मा भूत्स्वयं निमितमिति नियमार्थमपीदमारब्धव्यम् । कथं पुनरेकेन यत्नेनोभयं लभ्यम्, विधिश्च, नियमश्च ? विधिग्रहणसामर्थ्यादिति तन्निरूपणे वक्ष्यामः । अथ वा - विधिग्रहणं विधिमात्रे स्थानिवद्भावा यथा स्यादशास्त्रीयो च विपरीते च । तेन पटयतीत्यादौ स्थानिनि दृष्टो वृद्ध्यभावादिरशास्त्रीयोऽप्यतिदिश्यते । तत्र वृत्तिकारेण यत्नसाध्यत्वादशास्त्रीयोदाहरणनि दर्शितानि । विधिशब्दः कर्मसाधनः, पूर्वस्येति शेषलक्षणषष्ठी; पूर्वस्य व्यवस्थितस्य सतः सम्बन्धिनि कार्ये कर्तव्ये इति । पूर्वत्वं त्वत्राजपेक्षमाश्रीयते; नादेशापेक्षम्, निमितापेक्षं वा । न चाजपेक्षे पूर्वत्व विधिशब्दो भावसाधनः सम्भवति । बावसाधने हि तस्मिन्, पूर्वस्येति कर्मणि षष्ठीविज्ञानात् पूर्वस्मिन्विधात्व्ये स्थानिवदित्यर्थः स्याद् । अवस्थिते चाचि ततः पूर्वं किञ्चि द्विधेयं भवति, इह चादेशाः स्थानिवदिति वचनात् आदेशेन स्थानी निवर्तित इति नायमर्थः सम्भवति । अत्रादेशः परनिमितकः, तस्यैवादेशस्य स्थानिभूतो योऽच्, ततः पूर्वस्मिन् विधातव्य इति । तथा हि-'अचो य आदेशः' इत्यादेशात्प्रागवस्थानूद्यते, ततश्च संनिधानात् प्रतीयमानमवधित्वमपि तदवस्थस्यैवाचो युक्तम् । अत एवोच्यते-'योऽनादिष्टादचः पूर्वस्तस्य विधिं प्रति स्थानिवद्भावः' इति । आदेशनमादिष्ट्ंअ तदकृतं यस्य सोऽनादिष्टः, अकृतादेशादचः पूर्वस्येत्यर्थः । आदेशात्प्रागवस्थायामिति यावत् । न चास्या अवस्थायाः पूर्वस्मिन् विधातव्ये तदादेशः स्थानिवदिति सम्भवति । ननु कर्मसाधनेऽप्यजादेशः स्थानिवद्भवति-अकृतादेशाचः पूर्वस्य विधाविति नायमर्थः सम्भवति, स्थानिवद्भावदशायामच आदेशेन निवर्तितत्वात् । नात्र सम्प्रत्यचः पूर्वस्येत्ययमर्थः, किं तर्हि ? अचोऽवस्थानदशायां पूर्वत्वेन दृष्टस्याजवस्थाप्रभृतिपूर्वस्येत्यर्थः । तदेवमजपेक्षस्य पूर्वत्वस्याश्रयणात् कर्मसाधन एव विधिशब्दः । कि पुनः कारणमजपेक्षमेव पूर्वत्वमाश्रीयते, न पुनरादेशापेक्षं निमितापेक्षं वा ? उच्यते; तदपेक्षे पूर्वत्वे वैयाकरणः, सौवश्व इत्यत्र स्थानिवद्भावादैचोरायावौ प्राप्नुतः, तावपि हि यणादेशातन्निमिताच्च परस्मादचः पूर्वस्य कार्यम् । न च वाच्यम् - शत्यपि स्थानिवत्वेऽन्तर्भूताज्निमिततयाऽन्तरङ्गयोरायावोः कर्तव्ययोर्बहिभूततद्धितापेक्षतया बहिरङ्गावैचावसिद्धावित्यायावौ न भविष्यतः' इति; ङाजान्तर्ये बहिरङ्गप्रकॢप्तिः' इतिवचनात् । यथा-अक्षद्यौउरिति बहिर्भूतक्विबवेक्षोऽप्यूडन्तर्भूताजपेक्षेयणि नासिद्धो भवति । अजपेक्षे तु पूर्वत्वे वि अ आकरणः, सु अ अश्व इत्यजवस्थायां य्वोरभावेनैचोरदर्शनादप्रसङ्गस्तदाह-'अचः पूर्वत्वविज्ञानादैचौः सिद्धम्' इति । किं च - निमितापेक्षे पूर्वत्वे द्वाभ्याम्, देयम्, लवनमित्यत्रात्वेत्वगुणाः स्वनिमितात्पूर्वेषां स्वेषामेव कार्येषु दीर्घगुणावादेशेषु स्थानिवत्स्युः । तथोभयोरपि पक्षयोरपीपचदित्यादौ शन्वल्लघुनि' इति सन्वद्भावो न स्यात्; उपधाह्रस्वस्य स्थानिवत्वादलघूपधत्वात् । अजपेक्षे तु पूर्वत्वे पाचि अ अत् इति स्थिते द्विर्वचनमुपधाह्रस्वत्वं णिलोपः-इत्येतेषु प्राप्तेषु परत्वादन्तरङ्गत्वाच्च णिलोपे कृते पर वान्नित्यत्वाच्च ह्रस्वत्वे च पश्चाद् द्विर्वचनेऽभ्यासस्य स्थानिनोऽचः पूर्वत्वेनादृष्टत्वान्नास्ति स्थानिवद्भावः । तथा च तत्र तत्रोच्यते-'योऽनादिष्टादचः पूर्वस्तस्य विधिं प्रति स्थानिवद्भाव आदिष्टाच्चैषोऽचः पूर्वः' इति । तस्मादजपेक्षमेव पूर्वत्वम् । यद्येवम्, तन्वन्तीत्यत्रेटि कर्तव्ये यणः स्थानिवत्वं न स्यात्, तन् उ अन्तीत्यजवस्थायां यत्पूर्वमङ्गं न तस्येट्, किं तर्हि ? ततः परस्यादेशस्यैव । निमितापेक्षे तु यणो निमितादन्त्यकारात्पूर्वस्य तस्यैव यण इड् विधेय इति कर्मसाधने भावसाधने च विधिशब्दे स्थानिवत्वं लभ्यते । आदेशापेक्षेऽपि भावसाधने यणः पूर्वत्वेनेटो विधेयत्वात्सिध्यति, नैष दोषः, 'आर्द्धधातुकस्येड्' इत्यत्र 'एकाच उपदेशे' इत्यतः 'उपदेशे' इत्यनुवृतेरुपदेशे वलादेरिड् भविष्यति; तत्राप्युपदेश इत्यनुवृतेः । एवमपि चोरिष्यत इत्यादौ वलादिलक्षणे चिण्वदिटि च प्राप्ते नित्यत्वाच्चिण्वदिडिति । वक्ष्यति-ङित्यश्चायं वल्निमितविघाती' इति,तन्नोपपद्यते; उक्तेन प्रकारेण वलादिलक्षणस्यापीटो नित्यत्वात् । एवं तर्हि अहिरङ्गस्य यणोऽसिद्धत्वादिडभावः । यद्वा-पूर्वस्माद्विधिः पूर्वविधिरिति पञ्चमीसमासोऽप्याश्रीयते, तेन पूर्वस्मादङ्गादिटो निमितत्वेननाश्रितात्परस्य यण इति कर्तव्ये स्थानिवद्भविष्यति ॥ कानि पुनः पञ्चमीसमासप्रयोजनानि ? इदं तावत्प्रयोजनम्-तन्वन्तीति । किञ्च बेभिदिता, मार्थितिकः, अपीपचन् । बेभिद्यतेर्यङ्न्तातृचि अल्लोपस्य स्थानिवत्वान्न भवति, नैतदस्ति; बेभिद्य तृ इति स्थितेल्लोपश्च पाप्नोति इट् च; परत्वादिट् । नित्योऽल्लोपः-कृतोऽपीटि प्राप्नोति; इट् पुनरनित्यः, न हि कृतेऽल्लोपे प्राप्नोति, नित्येनाल्लोपेन बाध्यते । यस्य च निमितं लक्षणान्तरेण न विहन्यते तद् नित्यम्, अत उभयोर्नित्ययोः परत्वादिडेव भविष्यति । इदं तर्हि मथितं पण्यमस्य माथितिक इति ठस्येकादेशे कृते, यस्येति लोपे चेकस्य स्थानिवद्भावेन ठग्रहणेन ग्रहणात् 'इसुसुक्तान्तात्कः' इति कादेशः प्राप्नोति, यस्येति लोपस्य स्थानिवद्भावान्न भवति । एतदपि सन्निपातपरिभाषया ठस्येति वर्णग्रहणेनाल्विधित्वेन स्थानिवद्भावाभावाद्वा सिद्धम् । इदं तर्हि अपीपचन्, अपीपचाअन् इति स्थितेऽन्त्याकारस्य चङ्कारस्य च 'अतो गुणे' इति पररूपत्वे तस्य परं प्रत्यादिवद्भावाज् झिग्रहणेन ग्रहणे सति सिजभ्यस्तविदिभ्यश्च' इति जुस् प्राप्नोति, णिलोपस्यैकादेशस्य वा स्थानिवद्भावान्न भवति । तदेवमजपेक्षमेव पूर्वत्वमाश्रीयते; विधिशब्दश्च कर्मसाधनः, शेषषष्ठ।ल च समास इति न कश्चिद् दोष इति स्थितम् । पट।ल्तीति । णाविष्ठवदिति टिलोपः । अवधीदिति । 'हनो वध लिङ्' 'लुङि चि' इति वधादेशः । हलन्तलक्षणेति । 'वदव्रज' इत्यत्र हलन्तस्येत्यनुवृतेर्हलन्तलक्षणा । बहुखट्वक इत्यत्र 'स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवद्' इति वचनात् स्वरविधावप्यत्र स्थानिवत्वं भवत्येव । प्रश्न इति । 'यजयाचयत' इत्यादिना नङ्, 'च्छ्रवोः शूठ' इति च्छस्य शः । तुकि न स्थानिवद्भवतीति । तुकि कर्तव्ये न स्थानिवद्भवतीत्यर्थः । नन्वन्तरङ्गत्वात् पूर्वं तुका भाव्यम्, तत्र चैकं निमितीकृत्य युगपदाङ्गवार्णयोः प्रसङ्गः, तत्र वार्णादाङ्गं बलीयः, यथा-करोतेर्लिटि णलि कृ अ इति स्थिते, गौरित्यत्र सावकाशाम् 'अचो ञ्णिति' इति वृद्धिं बाधित्वाऽन्तरङ्गत्वात्प्राप्तं यणं वृद्धिरेव बाधते, प्रश्न इत्यत्र तु शस्य नङ् निमितं तुकस्तु च्छः, भिन्नकाला चानयोः प्राप्तिरिति नायमस्या विषय इति तुकि सति 'च्छ्वोः शूठ' इत्यत्र सतुक्कच्छकारनिर्देशेन तस्यैवादेशः एवं च सत्यापि स्थानिवत्वे सतुक्तच्छग्रहणेन शो गृह्यते, न केवलं च्छग्रहणेनेति कुतस्तुकः प्रसङ्गः ! अत एव नङे ङ्त्विमपि विश्न इति गुणो मा भूदिति, तस्मादप्रत्युदाहरणमेतदिति प्रत्युदाहरणान्तरमाह-आक्राष्टामिति । श्पृशमृशकृषतृप्दृषां सिज् वा वक्त्व्यः' इति क्सापवादः पक्षे सिच् । अनुदातस्येत्यम्, यणि 'वदव्रज' इति वृद्धिः । 'पूर्वत्रासिद्धे न स्थानिवद्' इति वचनादत्राप्यतृप्यन्नाह - आगत्येति । 'वा ल्यपि' । युवजानिरिति । बहुव्रीहौ पुंवद्भावः, युवतिशब्दस्य वयोवचनत्वेनाजातिवाचित्वात् 'जातेश्च' इति प्रतिषेधो न भवति । यलोपे न स्थानिवदिति । ननु योऽत्रादेशो नासौ लोपस्य निमितम्, तस्य वल्मात्रनिमितत्वात्; यश्च निमितं नकारः नासावादेश इति स्थानिवत्वं न भविष्यति । न च जायाशब्दस्य जनेरौणादिके यङ्प्रत्यये 'ये विभाषा' इत्यात्वे च व्युत्पादितत्वाद् निङ्ः स्थानिवत्वे सत्यातो लोपप्रसङ्गः, न ह्युणादिषु व्युत्पत्तिकार्यमवश्यं भवति, अत उदाहरणानतरोपन्यासः - वैयाघ्रपद्य इति । व्याघ्रस्येव पादावस्येति 'पादस्य लोपोऽहस्त्यादिभ्यः' इत्यपरनिमितः 'गर्गादिभ्यो यञ्' । ननु सत्यपि स्थानिवत्वे वचनात् पद्भावो भविष्यति; यद्येवम्, पादे इत्यत्रापि प्राप्नोति; सति तु परस्मिन्नत्यस्मिन्वैयाघ्रपद्य इत्यत्र पद्भावस्य चरितार्थत्वाद् पादे इत्येकादेशस्य स्थानिवत्वात् पद्भावाभावः । कथं पुनरेकादेशस्य स्थानिवत्वम्, न ह्ययमच आदेशः, किं तर्हि ? अचोः उच्यते; वर्णनिर्देशेषु जातिग्रहणाद्, 'अच' इत्येकत्वास्याविवक्षितत्वाद् अचोरप्यादेशः स्थानिवत् । द्वयोरपि वा स्थानित्वे यदेकस्य स्थानित्वं तदाश्रयं तस्य स्थानिवत्वं भविष्यति । अत एव श्रायसौ, गौमतौ, चातुरौ, आनुडुहाविति श्रायसादिभ्योऽणन्तेभय औप्रत्यय एकादेशस्यादिवत्वात् प्राप्तौ नुमामौ न भवतः; उदकं वहति, 'कर्मण्यण्' संज्ञायामुदभावः, सप्तम्येकवचन एकादेशस्यादिवत्वाद्भत्वे सति प्राप्तः 'वाह ऊठ' न भवति उदवाहे इति । आदीघ्य इति । अदादित्वाच्छपो लुक् । परस्मिन्नत्युच्यमाने स्यानिवद्भावाभावात् कृते टेरेत्वे लोपो न प्राप्नोति । टेरेत्वं तु कृताकृतप्रसङ्गित्वान्नित्यमिति तदेव भवति । ननु च परस्मिन्नत्यसति शब्लुकोऽपि स्थानिवत्वात् तद्व्यवधानादेव लोपो न भविष्यति, न; 'क्विलुगुपधात्वचङ्पनिह्रनिर्ह्रासकुत्वेषु' इति लुका लुप्तस्य स्थामिवत्वप्रतिषेधात् । हे गौरिति । 'गोतो णित्' । बाभ्रवीया इति । बभ्रोरपत्यमिति 'मधुबभ्व्रोर्ब्राह्मणकौशिकयोः' इति यञ्, 'ओर्गुणः','वान्तो यि प्रत्यये' इत्यवादेशः । अवादेशो न स्थानिवद्भवतीति । ननु चासत्यपि स्थानिवद्भावे संनिपातपरिभाषया न भवितव्यमेवात्र यलोपेन, नैतदस्ति; 'अचः' इत्ययं संघातो यादिसन्निपातकृतः; न च स लोपस्य निमितम्, किं तर्हि ? वकारमात्रम् । यद्येवम्, स्थानिवद्भावस्याप्यप्रसङ्गः, योऽत्रादेशो नासावाश्रीयते, यश्चाश्रीयते नासावादेशः । नैवेय इति । निपूर्वाद्धाञः 'उपसर्गे घोः किः','आतो लोपः','द्व्यचः' 'इतश्चानिञः' इति ढक् । ननु च पूर्वस्मादपि विधौ स्थानिवत्वमुक्तम्, तत् कथमेतानि प्रत्युदाहरणानि ? नैष दोषः; अत्राप्यजपेक्षस्य पूर्वस्याश्रयणाद् योऽनादिष्टादचः पूर्वस्ततः परस्येति । एवमपि हे गौरित्यत्र प्राप्नोति व्यवहितेऽपि परशब्दवृतेर्गकारात्परस्य सोर्लोपः, एवमितरयोरपि, नैतदेवम्; पूर्वस्य विधिरिति षष्ठीसमास एवायम्, तत्रानुवादत्वात् स्थानषष्ठ।ल्भावात् सम्भन्धसामान्ये षष्ठी-पूर्वसम्बन्धिनि विधाविति । सम्बन्धश्च द्विविधः-कार्यित्वेन, निमितत्वेन वा । यत्र कार्यित्वेन स पूर्वस्य विधिः, यत्र निमित्तत्वेन स पूर्वस्मात्; ततश्च योऽनादिष्टादच पूर्वस्तन्निमितत्वेनाश्रित्य यत्कार्यं प्राप्तं स एव पूर्वस्माद्विधिः, यथा-अपीपचन्निति । अत्र हि योऽनादिष्टो णिच् चङ् वा, ततः पूर्वमपीपच् इत्येवाभ्यस्तं परस्य झेर्जुसो निमितम् । तन्वन्तीत्यत्र योऽनादिष्टोऽच् उप्रत्ययस्ततः पूर्वं यत् तन्निमितत्वेनाश्रीयते तद्विधावङ्गस्येत्यनुवृतेः । एतदेव तत्राङ्गाधिकारस्य प्रयोजनम् । हे गौरित्यादौ तु योऽनादिष्टादचः पूर्वो गकारादिर्न तत्सम्बुद्धिलोपादेर्निमितम्, यच्च निमितमोकारादिर्नासावनादिष्टादचः पूर्व इति न दोषः । इह तर्हि वेतस्वानिति, टिलोपस्य पूर्वविधौ स्थानिवत्वात् सकारात्पूर्वस्यानुपधात्वाद् 'मादुपधायाः' इति वत्वं न स्यात् । न च स्थानिवद्भावेन सन्निहितमकारमपेक्ष्याकारान्तादिति लभ्यते, तस्यानादिष्टादचः पूर्वत्वाभावात् तदपेक्षत्वे स्थानिवद्भावात्, नैष दोषः; 'पूर्वत्रासिद्धे न स्थानिवतद्' । विधिग्रहणं किम्, ननु पूर्वसूत्रादेवानुवर्तते ? समासद्वयपरिग्रहार्थम् । असति हि तस्मिन् पूर्वस्येत्युक्ते पूर्वस्माद्विधौ न स्यात्, पूर्वस्मादित्युक्ते पूर्वस्य विधौ न स्यात्, नैतदस्ति; पूर्वस्येत्युक्तेऽपि अनुवादत्वात् स्थानषष्ठ।ल्भावात् सर्वः पूर्वसम्बन्धी विधिः प्रतिपत्स्यते । एवं तर्हि विधिमात्रे स्थानिवद्यथा स्यात् शास्त्रीये विपरीते च । यद्वा-विधिग्रहणं द्वितीयो यत्नः, तत्राचः परिस्मिन्पूर्वस्येत्येको योगः, विधावित्येव । तेन वव्रश्चेत्यादौ स्थान्यलाश्रयमतिदिश्यते । ततो विधौ, अचः परस्मिन्पूर्वस्येत्येव, नियमार्थमेतत्-अजादेशः परनिमितकः पूर्वविधौ स्थानिवदेव, न तु स्वयं निमितमिति । तेन पटयतीत्यादि सिद्धं भवतीति । नन्वसत्यपि द्वितीययत्ने यथा चोलवत् काश्मीरेषु व्रीहयः, मरुभूमिवदस्मिन्प्रदेशेजलमित्यादौ दृष्टान्ते प्रसिद्धस्य भावस्याभावस्य वा यथादर्शनमतिदेशः, एवमत्रापि भविष्यति ? विषम उपन्यासः; युक्तं तत्र भावस्यैवाभावस्यैव च प्रसिद्धत्वाद्, इह तूदाहरणभेदेन भावाभावयोः प्रसिद्धावपि श्थानिवदादेशः' इत्युक्तेऽश्रुतक्रियापदेषु वाक्येषु भावतीत्येवाध्याहारस्य प्रसिद्धत्वाद् भावातिदेशः स्याद् इत्यलमितप्रबन्धेन ॥