झलो झलि

8-2-26 झलः झलि पदस्य पूर्वत्र असिद्धम् लोपः सस्य

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

झल उत्तरस्य सकारस्य झलि परतो लोपो भवति। अभित्त। अभित्थाः। अच्छित्त। अच्छित्थाः। अवात्ताम्, अवात्तेत्यत्र वा सिचः सकारलोपस्यासिद्धत्वात् <<सः स्यार्धधातुके>> ७.४.४९ इति सकारस्य तकारः। झल इति किम्? अमंस्त। अमंस्थाः। झलीति किम्? अभित्साताम्। अभित्सत। अयमपि सिच एव लोपः, तेनेह न भवति — सोमसुत् स्तोता, दृषत्स्थानमिति॥

Siddhanta Kaumudi

Up

झलः परस्य सस्य लोपः स्यात् झलि । असैद्धाम् । असैत्सुः । असैत्सीः । असैद्धम् । असैद्ध । असैत्सम् । असैत्स्व । असैत्स्म । पक्षे असेधीत् । असेधिष्टाम् । इत्यादि ।{$ {!49 खादृ!} भक्षणे$} । ऋकार इत् । खादति । चखाद ।{$ {!50 खद!} स्थैर्ये हिंसायां च$} । चाद्भक्षणे । स्थैर्ये अकर्मकः । खदति ॥

Laghu Siddhanta Kaumudi

Up

झलः परस्य सस्य लोपो झलि। अगौप्ताम्। अगौप्सुः। अगौप्सीः। अगौप्तम्। अगौप्त। अगौप्सम्। अगौप्स्व। अगौप्स्म। अगोपायिष्यत्, अगोपिष्यत्, अगोप्स्यत्॥॥ {$ {! 13 क्षि !} क्षये $} (धातुपाठे <{01.0269}>)॥ क्षयति। चिक्षाय। चिक्षियतुः। चिक्षियुः। एकाचेति निषेधे प्राप्ते -

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<झलो झलि>> - असैध् स् तामिति स्थिते, अपृक्तत्वाभावादीडभावादिडभावाच्च, इट ईटीति सिचो लोपेऽप्राप्ते — झलो झलि । झल इति पञ्चमी । संयोगान्तस्येत्यतो लोप इति, रात्सस्येत्यतः सस्येति चानुवर्तते । तदाह — झलः परस्येत्यादि । असैद्धामिति । असैध् स् तामिति स्थिते सलोपे धत्वे जश्त्वे च रूपम् । पक्ष इति । इट्पक्षे इत्यर्थः । असेधीदिति । इट ईटीति सलोपः । नेटीति वृद्धिप्रतिषेधः । लघूपधगुणः । खादृ इति । अत्र ऋदित्वंनाग्लोपी॑त्याद्यर्थमित्यभिप्रेत्याह — ऋकार इदिति । खदेति । स्थैर्यं — स्थिरीभवनम् ।

Padamanjari

Up

भिदिच्छिदी स्वरितेतौ, मन्यतिहनुदातेत् । अयमपि सिच एव लोप इति । यदि वा'पदस्य' इति वर्तते, तत्र प्रत्यासतेः'झलो झलि' सस्येति निर्द्दिष्टानां त्रयाणामप्येकसम्बन्धत्वे विधिरयमिति सोमसुत् स्तोतेत्यादौ न भविष्यति । समासेऽपि न भवति - सोमसुत्स्थितिरिति । किं कारणम् ? सकारथकाराभ्यां यत्पदमारब्धं तत्प्रति तकारस्यावयवत्वाभावात् ॥