क्तिच्क्तौ च संज्ञायाम्

3-3-174 क्तिच्क्तौ च सञ्ज्ञायाम् प्रत्ययः परः च आद्युदात्तः च धातोः कृत्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

आशिषीत्येव। आशिषि विषये धातोः क्तिच्क्तौ प्रत्ययौ भवतः, समुदायेन चेत् संज्ञा गम्यते। तनुतात् तन्तिः। सनुतात् सातिः। भवतात् भूतिः। क्तः खल्वपि — देवा एनं देयासुर्देवदत्तः। सामान्येन विहितः क्तः पुनरु च्यते, क्तिचा बाधा मा भूदिति। चकारो विशेषणार्थः <<न क्तिचि दीर्घश्च>> ६.४.३९ इति॥

Siddhanta Kaumudi

Up

धातोः क्तिच् क्तश्च स्यादाशिषि सञ्ज्ञायाम् । तितुत्र-<{SK3163}> इति नेट् । भवतात् । भूतिः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

तन्तिरिति । ठनुदातोपदेशऽ इत्यादिनानुनासिकलोपः प्रापनोति, ठनुनासिकस्य क्विझलोः क्ङितिऽ इति दीर्घत्वं च, तदुभयमपि न भवति;'न क्तिचि दीर्घश्च' इति प्रतिषेधात् । सातिरिति । सनः क्तिचि'लोपश्चास्यान्यतरस्याम्' इत्यात्वम् । क्तिचश्चकारश्चिन्त्यप्रयोजनः;'न क्तिचि दीर्घश्च' इत्यत्र एकानुबन्धकपरिभाषया क्तिनो निवृतेः सिद्धत्वात् ॥