लिट्यन्यतरस्याम्

2-4-40 लिटि अन्यतरस्याम् आर्धधातुके अदो घस्लृ

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

लिटि परतोऽदोऽन्यतरस्यां घस्लादेशो भवति। जघास, जक्षतुः, जक्षुः। आद, आदतुः, आदुः॥

Siddhanta Kaumudi

Up

अदो घसॢ वा स्याल्लिटि । जघास । गमहन - <{SK1263}> इत्युपधालोपः । तस्य चर्विधिं प्रति स्थानिवद्भावनिषेधाद्धस्य चर्त्वम् । शासिवसि - <{SK2410}> इति षत्वम् । जक्षतुः । जक्षुः । घसस्तासावभावात्थलि नित्यमिट् । जघसिथ । आद । आदतुः । इडत्त्यर्ति - <{SK2384}> इति नित्यमिट् । आदिथ । अत्ता । अत्स्यति ॥

Laghu Siddhanta Kaumudi

Up

अदो घस्लृ वा स्याल्लिटि। जघास। उपधालोपः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<लिट्यन्यतरस्याम्>> - लिटन्यतरस्याम् । 'अदो जग्धि' रित्यतोऽद इति, 'लुङ्सनोर्घस्लृ' इत्यतो घस्लृ इति चानुवर्तते । तदाह — अद इति । आदेशे ऌकार इत् । घसादेशोऽत्राऽनिट् । जघासेति । अकित्त्वात्गमहने॑त्युपधालोपो नेति भावः । जघस् अतुसिति स्थिते आह — गमहनेत्युपधालोप इति ।असंयोगा॑दिति कित्त्वादिति भावः । जघ्स् अतुसिति स्थिते घकारस्य चर्त्वं वक्ष्यन्नुपधालोपस्य स्थानिवत्त्वमाशङ्क्याह — तस्येति । उपधालोपस्येत्यर्थः । जघ्स् अतुसिति स्थिते सकारस्य आदेशप्रत्ययावयवत्वाऽभावादाह — शासीति । थलितु क्रादिनियमान्नित्यमिट् । 'उपदेशेऽत्वतः' इति निषेधस्य तासौ नित्याऽनिड्विषयत्वात् । रघस् तु तासौ न विद्यत एव, कुतस्तस्य तासावनिट्कत्वम् ।यस्तासावस्ति अनिट् चे॑ति हि भाष्यम् । तदाह — घसेस्तासाविति । जघसिथेति । जक्षयुः जक्ष । जघासजघस जक्षिव जक्षिम । घसादेशाऽभावपक्षे त्वाह — आदेति । थलि भारद्वाजनियमादिड्विकल्पे प्राप्ते इडत्त्यर्तीति । आदिथेति । आदथुः आद । आद आदिव आदिम । अत्ता । अत्स्यतीति । अनिट् । दस्य तः । अत्तु अत्तात् अत्तामदन्तु । अद् — हि इति स्थितेझयो होऽन्यतरस्या॑मिति हकारस्य पूर्वसवर्णविकल्पेन धकारविकल्पे प्राप्ते —

Padamanjari

Up

लिट।ल्न्यतरस्याम्॥ प्रकृत्यन्तरस्यासर्वविषयत्वज्ञापनार्थमिदम्। तेन यत्र लिङ्गं वचनं वा नास्ति, तत्र तस्य प्रयोगो न भवति। तत्र लृदित्करणं लुङ् प्रियोगस्य लिङ्गम्, घसिश्च सान्तेष्वित्यनुदातपाठो वलादावार्द्धधातुक,'सृघस्यदः क्मरच्' इति वचनं क्मरचि। भूवादौ परस्मपदिषु पाठात्परस्मैपदे प्रयोगः॥