लोट् च

3-3-162 लोट् च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु

Sampurna sutra

Up

विधि-निमन्त्रण-आमन्त्रण-अधीष्ट-सम्प्रश्न-प्रार्थनेषु लोट् च

Neelesh Sanskrit Brief

Up

विधिः, निमन्त्रणम्, आमन्त्रणम्, अधीष्टम्, सम्प्रश्नः, प्रार्थना - एतेषु अर्थेषु धातोः परः आद्युदात्तः लोट् -प्रत्ययः भवति ।

Neelesh English Brief

Up

लोट्लकार can be used to indicate विधि (= order) , निमन्त्रण ( = an invitation that cannot be rejected), आमन्त्रण (= an invitation that can be rejected), अधीष्ट (= Ask something with respect, often in exchange of money or something else), सम्प्रश्न (= A question about doing or not doing something) and प्रार्थना (= request).

Kashika

Up

लोट् प्रत्ययो भवति धातोर्विध्यादिष्वर्थेषु। योगविभाग उत्तरार्थः। विधौ तावत् — कटं तावद् भवान् करोतु। ग्रामं भवानागच्छतु। निमन्त्रणे — अमुत्र भवानास्ताम्। अमुत्र भवान् भुङ्क्ताम्। आमन्त्रणे — इह भवान् भुङ्क्ताम्। अधीष्टे — अधीच्छामो भवन्तम्, माणवकं भवानध्यापयतु, माणवकं भवानुपनयताम्। संप्रश्ने — किं नु खलु भो व्याकरणमध्ययै। प्रार्थने — भवति मे प्रार्थना व्याकरणमध्ययै। छन्दोऽध्ययै॥

Siddhanta Kaumudi

Up

विध्यादिष्वर्थेषु धातोर्लोट् स्यात् ॥

Laghu Siddhanta Kaumudi

Up

विध्याद्यर्थेषु धातोर्लोट् ॥

Neelesh Sanskrit Detailed

Up

अनेन सूत्रेण लोट्लकारस्य विधानम् क्रियते । लोट्लकारस्य प्रयोगः सामान्यरूपेण 'प्रवर्तनायाम्' क्रियते । 'प्रवर्तना' इत्युक्ते 'केनापि कथं कार्यं क्रियेत - अस्मिन् विषये कृतम् बोधनम्' । एतत् बोधनमनेन सूत्रेण षट्सु अवस्थासु विभाजितमस्ति - विधिः, निमन्त्रणम्, आमन्त्रणम्, अधीष्टम्, सम्प्रश्नः, तथा प्रार्थना । क्रमेण पश्यामः - 1. विधिः इत्युक्ते 'प्रेरणा / आज्ञा' । सामान्यरूपेण भृत्यम् / सेवकं प्रति यादृशः व्यवहारः क्रियते, तादृशं व्यवहारम् दर्शयितुम् लिङ्लकारः प्रयुज्यते । यथा - 'राजा सेवकं ब्रूते - वस्त्रं क्षालय'। 2. निमन्त्रणम् इत्युक्ते, श्राद्धभोजनादिषु दौहित्रादेः प्रवर्तनम् । यथा - 'इह श्राद्धे भवान् भुङ्क्ताम्' । निमन्त्रणस्य स्वीकारः एव कर्तव्यः, तस्य अस्वीकारं न कर्तुं शक्यते । 3. आमन्त्रणम् इत्युक्ते कामचारानुज्ञा । यथा - 'यथेच्छम् इह भवान् भुङ्क्ताम्' । आमन्त्रणस्य स्वीकारः अपि कर्तुं शक्यते, अस्वीकारः अपि कर्तुं शक्यते, अत 'यथेच्छम्' इति प्रयुक्तमस्ति । 4. अधीष्टम् इत्युक्ते सत्कारपूर्वकः (धनमादि दत्त्वा) व्यापारः । यथा - 'मम पुत्रमध्यापयतु भवान्!' । 5. सम्प्रश्नः इत्युक्ते कर्तव्य-अकर्तव्यविषयकः प्रश्नः । यथा - 'किम् सः व्याकरणम् पठतु?' 6. प्रार्थना इत्युक्ते याचना । यथा - 'भवान् मे अन्नं ददातु' । एतेषु षट्सु अर्थेषु लोट्लकारस्य प्रयोगः अनेन सूत्रेण दीयते । ज्ञातव्यम् - <<विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्>> 3.3.161 इत्यनेन लिङ्लकारस्य प्रयोगः अपि एतेषु सर्वेषु अर्थेषु एव क्रियते । अतः एतेषु अर्थेषु लोट्-लकारः तथा विधिलिङ्-लकारः समानार्थिनौ स्तः ।

Balamanorama

Up

Padamanjari

Up

योगविभाग उतरार्थ इति । उतरत्र लोट एवानुवृत्तिर्यथा स्याल्लिङे मा भूदिति । अध्ययै इति । इट्, उतमैकवचनम्, टेरेत्वम्, ठेत ऐऽ, ठाहुतमस्य पिच्चऽ इत्याडागमः, ठाटश्चऽ इति वृद्धिः, प्रकृतेर्गुणायादेशौ ॥