Home
Prev 1.1.56
Next 1.1.58
अचः परस्मिन् पूर्वविधौ 1-1-57 अचः परस्मिन्पूर्वविधौ स्थानिवत् आदेशः
Sampurna sutra Up
अचः आदेशः परस्मिन् पूर्वविधौ स्थानिवत्
Neelesh Sanskrit Brief Up
अच् वर्णस्य स्थाने क्रियमाणस्य आदेशस्य निमित्तम् परः अस्ति चेत् स्थानिनः पूर्वपदार्थस्य एकवर्णाश्रितेषु कार्येषु अपि सः आदेशः स्थानीवद् भवति ।
Neelesh English Brief Up
An आदेश done in place of an अच् letter due to the परनिमित्त acts like the स्थानी even in the context of कार्याणि that are associated with a single letter; as long as the कार्याणि are on an entity prior to the location of the स्थानी.
Kashika Up
पूर्वेणानल्विधौ स्थानिवद्भाव उक्तः । अल्विध्यर्थमिदमारभ्यते। आदेशः स्थानिवद् इति वर्तते। अच इति स्थानिनिर्देशः। परस्मिन्निति निमित्तसप्तमी। पूर्वविधाविति विषयसप्तमी। अजादेशः परनिमित्तकः पूर्वविधौ कर्तव्ये स्थानिवद् भवति। पटयति। अवधीत्। ब॒हु॒ख॒ट्वकः॑। पटुमाचष्ट इति णिचि टिलोपे कृते तस्य स्थानिवद्भावाद् <<अत उपधायाः>> ७.२.११६ इति वृद्धिर्न भवति। अवधीत्। अतो लोपस्य स्थानिवद्भावाद् <<अतो हलादेर्लघोः>> ७.२.७ इति हलन्तलक्षणा वृद्धिर्न भवति। ब॒हु॒ख॒ट्वक॑ इति <<आपोऽन्यतरस्याम्>> ७.४.१५ इति ह्रस्वस्य स्थानिवद्भावाद् <<ह्रस्वान्तेऽन्त्यात्पूर्वम्>> ६.२.१७४ इति स्वरो न भवति। अच इति किम्? प्रश्नः। आक्राष्टाम्। आगत्य। प्रश्न इति प्रच्छेर्नङ्प्रत्यये <<च्छ्वोः शूडनुनासिके च>> ६.४.१९ इति छकारस्य शकारः परनिमित्तकस्तुकि न स्थानिवद् भवति। आक्राष्टामिति <<झलो झलि>> ८.२.२६ इति सिचो लोपः परनिमित्तकः कृषेः षकारस्य <<षढोः कः सि>> ८.२.४१ इति ककारे कर्तव्ये न स्थानिवद् भवति। आगत्येति <<वा ल्यपि>> ६.४.३८ इत्यनुनासिकलोपः परनिमित्तकस्तुकि कर्तव्ये न स्थानिवद् भवति। परस्मिन्निति किम् ? युवजानिः। वधूटीजानिः। वैयाघ्रपद्यः। आदीध्ये। युवजानिरिति <<जायाया निङ्>> ५.४.१३४ न परनिमित्तकस्तेन यलोपे न स्थानिवद् भवति। वैयाघ्रपद्य इति न परनिमित्तकः पादस्यान्तलोपः पद्भावं न प्रतिबध्नाति। आदीध्ये इति दीधीङ उत्तमपुरुषैकवचने टेरेत्वस्यापरनिमित्तकत्वाद् <<यीवर्णयोर्दीधीवेव्योः>> ७.४.५३ इति लोपो न भवति। पूर्वविधाविति किम् ? हे गौः। बाभ्रवीयाः। नैधेयः। हे गौरिति वृद्धिरजादेशः सम्बुद्धिलोपे कर्तव्ये न स्थानिवद् भवति। बाभ्रवीया इति बाभ्रव्यस्यामीच्छात्रा इति <<वृद्धाच्छः>> ४.२.११४ इति छः । <<हलस्तद्धितस्य>> ६.४.१५० इति यकारलोपे कर्तव्येऽवादेशो न स्थानिवद् भवति। नैधेयः। <<आतो लोप इटि च>> ६.४.६४ इत्याकारलोप <<इतश्चानिञः>> ४.१.१२२ इति द्व्यज्लक्षणे प्रत्ययविधौ न स्थानिवद् भवति॥
Siddhanta Kaumudi Up
अल्विध्यर्थमिदम् । परनिमित्तोऽजादेशः स्थानिवत्स्यात्स्थानिभूतादचः पूर्वत्वेन दृष्टस्य विधौ कर्तव्ये । इति यणः स्थानिवद्भावे प्राप्ते ॥
Laghu Siddhanta Kaumudi Up
परनिमित्तोऽजादेशः स्थानिवत् स्थानिभूतादचः पूर्वत्वेन दृष्टस्य विधौ कर्तव्ये। इत्यल्लोपस्य स्थानिवत्वान्न वृद्धिः। अवधीत् । अहनिष्यत् ॥ {$ {! 3 यु !} मिश्रणामिश्रणयोः $} (धातुपाठे <{02.0027}>) ॥
Neelesh Sanskrit Detailed Up
यत्र कस्यचन स्थानिनः कश्चन आदेशः विधीयते, तत्र —स्थानिनः गुणधर्माः आदेशे अपि अतिदिश्यन्ते वा ? — इति प्रश्ने जाते, अष्टाध्याय्याम् आहत्य चतुर्भिः सूत्रैः मिलित्वा अस्य उत्तरम् दीयते । <<स्थानिवदादेशोऽनल्विधौ>> 1.1.56 इत्यतः आरभ्य <<द्विर्वचनेऽचि>> 1.1.59 इति यावन्ति एतानि चत्वारि सूत्राणि स्थानिवद्भावप्रकरणम् नाम्ना ज्ञायन्ते । अस्य प्रकरणस्य इदं द्वितीयम् सूत्रम् ।
<<स्थानिवदादेशोऽनल्विधौ>> 1.1.56 इति सूत्रेण अनल्-आश्रितानाम् गुणधर्माणाम् आदेशे अतिदेशः विधीयते । परन्तु प्रक्रियासु कुत्रचित् अल्-आश्रितस्य गुणधर्मस्य अपि आदेशे अतिदेशः इष्यते; तदर्थम् आचार्येण प्रकृतसूत्रम् रचितम् अस्ति । परनिमित्तिकः अजादेशः पूर्वस्मिन् विधौ कर्तव्ये स्थानिवद् भवति इति अस्य विवरणम् व्याख्यानेषु दीयते । अस्य अर्थः अयम् — यत्र परनिमित्तस्य आधारेण अच्-वर्णस्य स्थाने कश्चन आदेशः (लोपः वा) कृतः अस्ति, तत्र स्थानिनः पूर्वम् विद्यमानस्य पदार्थस्य कार्ये कर्तव्ये स्थानिनः अल्-गुणधर्मः आदेशे अपि अतिदिश्यते ।
अस्मिन् सन्दर्भे द्वे उदाहरणे एतादृशे —
1 . <<सत्यापपाश...>> 3.1.25 इति सूत्रेण कथ -धातोः स्वार्थे णिच् -प्रत्ययः विधीयते । कथ + णिच् अस्यां स्थितौ <<अतो लोपः>> 6.4.48 इत्यनेन थकारोत्तर-अकारस्य लोपे कृते कथ् + णिच् इति सिद्ध्यति । अत्र णित्-प्रत्यये परे <<अत उपधायाः>> 7.2.116 इत्यनेन कथ् इत्यस्य उपधाभूतस्य अकारस्य वृद्ध्यादेशः प्राप्नोति । अस्य वृद्ध्यादेशस्य प्रसङ्गे प्रकृतसूत्रस्य प्रयोगं कृत्वा लुप्तः अकारः स्थानिवद्भावेन तत्र उपतिष्ठते । तदित्थम् —
i) <<अतो लोपः>> 6.4.48 इत्यनेन सूत्रेण अच्-वर्णस्य आदेशः कृतः अस्ति, यतः अत्र अकारस्य स्थाने लोपः आदेशरूपेण विधीयते ।
ii) अस्य आदेशस्य (लोपस्य) निमित्तम् तस्मात् अनन्तरम् विद्यमानः आर्धधातुकप्रत्ययः (णिच्-प्रत्ययः) अस्ति, अतः अत्र अत्र परनिमित्तम् अपि विद्यते ।
iii) ककारोत्तरस्य अकारस्य उपधात्वं दृष्ट्वा तत्र <<अत उपधायाः>> 7.2.116 इत्यनेन वृद्ध्यादेशः प्राप्नोति । अयम् आदेशः लुप्त-अच्-वर्णात् पूर्वं विद्यमानस्य वर्णस्य विषये प्राप्नोति, अतः अत्र पूर्वविधिः अपि विद्यते ।
अस्यां स्थितौ लुप्त-अकारस्य अच्त्वम् स्थानिवद्भानेन आदेशे (लोपे) अपि अतिदिश्यते — इति प्रकृतसूत्रस्य आशयः । लोपस्य अच्त्वे प्राप्ते ककारोत्तस्य अकारस्य उपधात्वं विनश्यति, येन उपधावृद्धिः अपि नैव सम्भवति । प्रक्रिया इयम् —
कथ (वाक्यप्रबन्धे, चुरादिः, <{10.389}>)
→ कथ + णिच् [<<सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्>> 3.1.25 इति स्वार्थे णिच्]
→ कथ + इ [णकारचकारयोः इत्संज्ञा, लोपः]
→ कथ् + इ [<<अतो लोपः >> 6.4.48 इति अकारलोपः । अस्मिन् लोपे कृते <<अत उपधायाः>> 7.2.116 इत्यनेन उपधा-अकारस्य वृद्धिः प्राप्नोति । परन्तु अत्र कृतः अचः लोपः परनिमित्तकः अस्ति, तथा अस्मात् लुप्त-अकारात् पूर्वम् विद्यमाने वर्णे वृद्धिः प्राप्नोति, अतः अत्र <<अचः परस्मिन् पूर्वविधौ>> 1.1.57 इति सूत्रेण लुप्तः अकारः वृद्धिकार्यार्थम् स्थानिवद् भवति । अतः अत्र लोपस्य अच्त्वे प्राप्ते, ककारोत्तस्य अकारस्य उपधात्वं विनश्यति, अतश्च ककारोत्तरः अकारस्य वृद्धिः अपि नैव सम्भवति ।
→ कथि [<<सनाद्यन्ता धातवः>> 3.1.32 इति धातुसंज्ञा । अस्मात् अग्रे यथायोग्यम् कृत्/तिङ्प्रत्ययः विधीयते ।]
2. हन् -धातोः लुङ्-लकारस्य एकवचनस्य प्रक्रियायाम् <<लुङि च>> 2.4.43 इत्यनेन हन्-धातोः वध -इति आदेशः भवति । अयम् अकारान्तः आदेशः अस्ति, अतः आर्धधातुकप्रत्यये परे अस्य अकारस्य <<अतो लोपः>> 6.4.48 इत्यनेन लोपः क्रियते । एतादृशे लोपे कृते वकारोत्तरस्य अकारस्य <<अतो हलादेर्लघोः>> 7.2.7 इत्यनेन विकल्पेन वृद्ध्यादेशः (आकारादेशः) प्राप्नोति । परन्तु अत्रापि <<अचः परस्मिन् पूर्वविधौ>> 1.1.57 इत्यनेन लुप्तः अकारः स्थानिवद् स्वीक्रियते, येन अकारस्य वृद्धिः नैव सम्भवति । प्रक्रिया इयम् —
हनँ (हिंसागत्योः, अदादिः, 2.2)
→ हन् + लुङ् [<<लुङ्>> 3.2.110 इति लुङ्]
→ वध + लुङ् [<<लुङि च>> 2.4.43 इति हन्-इत्यस्य वध-आदेशः]
→ वध + च्लि + लुङ् [<<च्लि लुङि>> 3.1.43 इति च्लि-विकरणम्]
→ वध + सिच् + लुङ् [<<च्लेः सिच्>> 3.1.44 इति च्लि-इत्यस्य सिच्-आदेशः]
→ अट् + वध + स् + लुङ् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> 6.4.71 इति अडागमः]
→ अ + वध + स् + तिप् [<<तिप्तस्झि...>> 3.4.78 इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]
→ अ + वध + इट् + स् + ति <<आर्धधातुकस्य इड् वलादेः>> 7.2.35 इति इडागमः]
→ अ + वध् + इ + स् + ति [ <<अतो लोपः>> 6.4.48 इत्यनेन अङ्गस्य अन्तिम-अकारस्य लोपः । अत्र अकारलोपे कृते वध्-इत्यस्य हलन्त-अङ्गस्य अकारस्य <<वदव्रजहलन्तस्याचः>> 7.2.3 इत्यनेन नित्यं प्राप्ता वृद्धिः <<अतो हलादेर्लघोः>> 7.2.7 इति सूत्रेण विकल्प्यते, अतः अत्र अकारस्य पाक्षिकः वृद्ध्यादेशः अवश्यं सम्भवति । परन्तु इदं वृद्धिकार्यम् लुप्त-अच्-वर्णात् पूर्वस्य पदार्थस्य विषये उच्यते, अतः अत्र <<अचः परस्मिन् पूर्वविधौ>> 1.1.57 इत्यनेन लुप्तः अकारः स्थानिवद् भवति, येन अङ्गस्य हलन्तत्वम् विनश्यति, अतश्च <<वदव्रजहलन्तस्याचः>> 7.2.3 इत्यनेन वृद्धिः एव न सम्भवति, अतश्च <<अतो हलादेर्लघोः>> 7.2.7 इति सूत्रेण तस्याः पाक्षिकः निषेधः अपि न क्रियते ।]
→ अ + वध् + इ + स् + त् [<<इतश्च>> 3.4.100 इति इकारलोपः]
→ अ + वध् + इ + स् + ईट् + त् [<<अस्तिसिचोऽपृक्ते>> 7.3.96 इति ईट्-आगमः]
→ अ + वध् + इ + ई + त् [<<इट ईटि>> 8.2.28 इत्यनेन सकारलोपः]
→ अवधीत् [एकादेशे कर्तव्ये <!सिज्लोप एकादेशे सिद्धो वाच्यः!> अनेन वार्तिकेन सिज्लोपः सिद्धः अस्ति । अतः अत्र <<अकः सवर्णे दीर्घः>> 6.1.101 इत्यनेन सवर्ण-दीर्घ-एकादेशं कृत्वा रूपं सिद्ध्यति ।]
दलकृत्यम्
1. अचः इति किमर्थम् ? हल्-वर्णस्य स्थाने कृतः आदेशः परनिमित्तकः अस्ति चेदपि पूर्वविधौ स्थानिवद् न भवति । यथा,
आ + गम् इत्यस्मात्
ल्यप् -प्रत्यये कृते <<वा ल्यपि>>
6.4.38 इत्यनेन मकारस्य कृतः लोपः तुगागमार्थः स्थानिवद् न भवति । प्रक्रिया इयम् —
गमॢँ (गतौ, भ्वादिः, <{1.1137}>)
→ आ + गम् + क्त्वा [<<समानकर्तृकयोः पूर्वकाले>> 3.4.21 इति क्त्वा]
→ आ + गम् + ल्यप् [<<समासेऽनञ्पूर्वे क्त्वो ल्यप्>> 7.1.27 इत्यनेन क्त्वा-इत्यस्य ल्यप्-आदेशः]
→ आ + ग + य [<<वा ल्यपि>> 6.4.38 इति मकारस्य वैकल्पिकः लोपः ।]
→ आ + ग + तुक् + य [<<ह्रस्वस्य पिति कृति तुक्>> 6.1.71 इति तुगागमः । अत्र अयम् लुप्त-मकारस्य अपेक्षया पूर्वविधिः अस्ति, परन्तु अत्र लुप्त-मकारः स्थानिवद् न भवति, अतः अत्र अवश्यम् तुगागमः भवितुम् अर्हति ।]
→ आगत्य
2. परस्मिन् इति किमर्थम् ? यत्र अच्-वर्णस्य आदेशः परनिमित्तकः नास्ति, तत्र अच्-वर्णः स्थानिवद् न भवति । यथा,
दीधीङ् -धातोः लट्-लकारस्य उत्तमपुरुषैकवचनस्य प्रक्रियायाम् प्रत्ययस्थ-इकारस्य स्वनिमित्तेन कृतः एकारादेशः पूर्वविधौ स्थानिवद् न भवति । प्रक्रिया इयम् —
दीधीङ् (दीप्तिदेवनयोः, अदादिः, <{2.71}>)
→ दीधी + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्]
→ दीधी + इट् [<<तिप्तस्झि..>> 3.4.78 इति उत्तमपुरुषैकवचनस्य इट्-प्रत्ययः]
→ दीधी + शप् + इ [<<कर्तरि शप्>> 3.1.68 इति शप् ]
→ दीधी + इ [<<अदिप्रभृतिभ्यः शपः>> 2.4.72 इति शपः लुक्]
→ दीधी + ए [<<टित आत्मनेपदानां टेरे>> 3.4.79 इति प्रत्यय-इकारस्य एकारादेशः । अयम् एकारादेशः स्वनिमित्तकः अस्ति, अतः अयम् अजादिः सन् अपि पूर्वविधौ स्थानिवद् न भवति । यदि तथा अभविष्यत्, तर्हि एकारे इकारत्वस्य अतिदेशेन <<यीवर्णयोर्दीधीवेव्योः>> 7.4.53 इत्यनेन इकारे परे दीधी-इत्यस्य ईकारस्य लोपः अभविष्यत् ।]
→ दीध्ये [<<इको यणचि>> 6.1.77 इति यणादेशः]
3. पूर्वविधौ इति किमर्थम्? अजादेशः परविध्यर्थम् स्वविध्यर्थम् वा स्थानिवद् न भवति । यथा,
गो -शब्दस्य सम्बोधनैकवचनस्य प्रक्रियायाम् ओकारस्य <<अचो ञ्णिति>>
7.2.115 इति वृद्धिं कृत्वा औकारः विधीयते । अस्मात् अनन्तरम् विद्यमानस्य सुँ-प्रत्ययस्य लोपार्थम् अस्मिन् औकारे ओकारः स्थानिवद् न भवति, यतः अत्र सुँलोपः परविधिः अस्ति, न हि पूर्वविधिः । प्रक्रिया इयम् —
गो + सुँ [सम्बोधनैकवचनस्य सुँ-प्रत्ययः]
→ गौ + सुँ [<<गोतो णित्>> 7.1.90 इति सुँ-प्रत्ययस्य णिद्वद्भावः । अतः <<अचो ञ्णिति>> 7.2.115 इति णित्-प्रत्यये परे अजन्तस्य अङ्गस्य वृद्धिः । ओकारस्य वृद्धिः औकारः । अयम् अजादेशः <<एङ्ह्रस्वात् सम्बुद्धेः>> 6.1.69 इत्यनेन सम्बुद्धिलोपार्थम् स्थानिवद् न भवति, यतः अत्र क्रियमाणः सम्बुद्धिलोपः पूर्वविधिः नास्ति ]
→ गौः [रुत्वविसर्गौ ]
Balamanorama Up
<<अचः परस्मिन् पूर्वविधौ>> - ननु सुध् य् इत्यत्र मास्तु स्थानिवदिति सूत्रेण स्थानिवद्भावः । तद्गुत्तरसूत्रेण तु स्थानिवत्त्वं स्यादेवेति शङ्कामुद्भावयिष्यंस्तथाविधमुत्तरसूत्रमाह-अचः परस्मिन् । स्थानिवत्सूत्रेणैव सिद्धे किमर्थमिदं सूत्रमित्यत आह-अल्विध्यर्थमिति । अलाश्रयविधावपि स्थानिवद्भावार्थमित्यर्थः । तेन वव्रश्चेति सिध्यति ।ओ व्रश्चू च्छेदने॑ । लिटि तिपि णलि द्वित्वम् ।लिठभ्यासस्ये॑ति अभ्यचासे रेफस्य सम्प्रसारणम् । ऋकारः । पूर्वरूपम् । उरदत्वम् । रपरत्वम् । हलादिश्शेषः । तत्राभ्यासे वकारस्य पुनः सम्प्रसारणं न, ञकारस्थानिकस्य उरदत्वस्य स्थानिवद्भावेन सम्प्रसारणतयान सम्प्रसारणे सम्प्रसारणम् इति निषेधात् । पूर्वसूत्रेण त्वत्र स्थानिवद्भावो न सम्भवति — सम्प्रसारणनिषेधस्य स्थान्यलाश्रयत्वादिति भावः । पूर्वसूत्रादिह स्थानिवदादेश इत्यनुवर्तते । अच इत्येतदादेश इत्यनेनान्वेति-अच आदेश इति । परहस्मिन्निति सति सप्तमी । ततश्च परनिमित्तक इति लभ्यते । तच्चादेशविशेषणम् । तदाह — परनिमित्तोऽजादेशैति । विधीयत इति बिधिः=कार्यम् । पूर्वस्य विधिः पूर्वविधिः । पूर्वत्वं च यद्यपि सावधिकम्, त्रयं चात्र संनिहितं-स्थानी आदेशः परनिमित्तं चेति । तत्र स्थानी तावन्नावधिर्भवितुमर्हति, तस्यादेशेनापहारात् । नाप्यादेशः, नापि परनिमित्तम्, वैयाकरण इत्यत्र इकारस्थानिकयणादेशात्तत्परनिमित्तादाकाराच्च पूर्वस्य न य्वाभ्यामित्यैकारस्य आयटादेशे कर्तव्ये यणादेशस्य स्थानिवद्भावेनाऽच्त्वापत्तेः । तथापि स्थान्यपेक्षयैवाऽत्र पूर्वत्वं विवक्षितं, स्थानिन आदेशे नापह्मतत्वेऽपि भूतपूर्वगत्या तत्पूर्वत्वस्य सम्भवात् । तदेतदाह — स्थानिभूतादचः पूर्वत्वेनेत्यादि । अत्र स्थानिनि सति यद्भवति तदादेशे ।ञपि भवति, यन्न भवति तदादेसेऽपि न भवतीत्येवमशास्त्रीयस्यापि कार्याऽभावस्य अतिदेशो भवति । तत्राद्ये वव्रश्चेत्युदाहृतमेव, तत्रन सम्प्रसारणे सम्प्रसारण॑मिति निषेधकार्यस्य शास्त्रीयत्वात् । द्वितीये तु गणयतीत्युदाहरणम् । गण संख्यान इति चुरादौ अदन्तधातुः । तस्माण्णिच् । अतो लोपः । तिप् शप् णेर्गुणः, अयादेशः । गणयतीति रूपम् । अत्र णिचि परत उपधाभूतस्य गकारादकारस्य 'अत उपधायाः' इति न भवति, प्रकृतसूत्रेणाऽल्लोपस्य स्थानिवद्भावात् । अकारे स्थानिनि सति गकारादकारस्य उपधात्वभङ्गादुपधावृद्धिर्न प्रवृत्तिमर्हति । वृद्ध्यभावस्याशास्त्रीयत्वेऽपि अल्लोपे अतिदेशात् । न चात्र गकारादकारस्य उपधात्वभङ्गादुपधावृद्धिर्न प्रवृत्तिमर्हति । वृद्ध्य भावस्याशास्त्रीयत्वेऽपि अल्लोपे अतिदेशात् । न चात्र गकारादकारस्य स्थान्यकारान्न पूर्वत्वम्, णकारेण व्यवधानादिति वाच्यम्, पूर्वत्वं ह्यत्र व्यवहिताऽव्यवहितसाधारणम्, उत्तरसूत्रे स्वरे निषेधाल्लिङ्गात् । तच्च तत्रैव स्पष्टीभविष्यतीत्यलम् । इति यण इति । अनेन सूत्रेण सुध् य् इत्यत्र धकारस्य द्वित्वनिषेधे कर्तव्ये ईकारस्थानिकस्य यकारस्य स्थानिद्भावे प्राप्ते तत्प्रतिषेधसूत्रमारभ्यत इत्यर्थः ।
Padamanjari Up