3-1-133 ण्वुल्तृचौ प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः
index: 3.1.133 sutra: ण्वुल्तृचौ
धातोः इति वर्तते। सर्वधातुभ्यो ण्वुल्तृचौ प्रत्ययौ भवतः। कारकः। कर्ता। हारकः। हर्ता। चकारः सामान्यग्रहणाविधातार्थः, तुश् छन्दसि 5.3.59, तुरिष्ठेमेयस्सु 6.4.154 इति।
index: 3.1.133 sutra: ण्वुल्तृचौ
॥ अथ पूर्वकृदन्तप्रकरणम् ॥
धातोरेतौ स्तः । कर्तरि कृत् <{SK2832}> इति कर्त्रर्थे । युवोरनाकौ <{SK1247}> । कारकः । कर्ता । वोढुमर्हो वोढा । कारिका । कर्त्री । गाङ्कुटा - <{SK2461}> इति ङित्त्वम् । कुटिता । अञ्णिदित्युक्तेर्न ङित्त्वम् । कोटकः । विज इट् <{SK2536}> । विजिता । हनस्तोऽचिण्णलोः <{SK2574}> । घातकः । आतो युक् <{SK2761}> । दायकः । नोदात्तोपदेशस्य <{SK2763}> इति न वृद्धिः । शमकः । दमकः । अनिटस्तु नियामकः । जनिवध्योश्च <{SK2512}> । जनकः । वध हिंसायाम् । वधकः । रधिजभोरचि <{SK2302}> । रन्धकः । जम्भकः । नेट्यलिटि रधेः <{SK2516}> । रधिता । रद्धा । मस्जिनशोः <{SK2517}> इति नुम् । मङ्क्ता । नंष्टा । नशिता । रभेरशब्लिटोः <{SK2581}> । रम्भकः । रब्धा । लभेश्च <{SK2582}> । लम्भकः । लब्धा । तीषसह-<{SK2340}> इति वेट् । एषिता । एष्टा । सहिता । सोढा । दरिद्रातेरालोपः । दरिद्रिता । ण्वुलि न । दरिद्रायकः । कृत्यल्युट <{SK2841}> इत्येव सूत्रमस्तु । यत्र विहितास्ततोऽन्यत्रापि स्युरित्यर्थात् । एवं च बहुलग्रहणं योगविभागेन कृन्मात्रस्यार्थव्यभिचारार्थम् । पादाभ्यां ह्रियते पादहारकः । कर्मणि ण्वुल् ।<!क्रमेः कर्तर्यात्मनेपदविषयात्कृत इण्निषेधो वाच्यः !> (वार्तिकम्) ॥ प्रक्रन्ता ॥ कर्तरीति किम् । प्रक्रमितव्यम् । आत्मनेपदेति किम् । संक्रमिता । अनन्यभावे विषयशब्दः । तेन अनुपसर्गाद्वा <{SK2716}> इति विकल्पार्हस्य न निषेधः । क्रमिता । तदर्हत्वमेव तद्विषयत्वम् । तेन क्रन्तेत्यपीति केचित् । गमेरिट्-<{SK2401}>इत्यत्र परस्मैपदग्रहणं तङानयोरभावं लक्षयति । संजिगमिषिता । एवं न वृद्भ्यश्चतुर्भ्यः <{SK2348}> । विवृत्सिता । यङन्तात् ण्वुल् । अल्लोपस्य स्थानिवत्त्वान्न वृद्धिः । पापचकः । यङ्लुगन्तात्तु पापाचकः ॥
index: 3.1.133 sutra: ण्वुल्तृचौ
धातोरेतौ स्तः। कर्तरि कृदिति कर्त्रर्थे॥
index: 3.1.133 sutra: ण्वुल्तृचौ
ण्वुल्तृचौ - अथ कृदन्तप्रकरणं । ण्वुल्तृचौ । अनयोर्वर्तमानकालादन्यत्र न प्रयोग इति भाष्यम् । वोढुमर्ह इति ।अर्हे कृत्यतृचश्चे॑त्युक्तेरिति भावः । वोढेति । वहेस्तृच्यनुदात्तत्वादिडभावे ढत्वधत्वष्टुत्वढलोपेषुसहिवहो॑रित्योत्त्वम् । कुटितेत्यत्र लघूपधगुणमाशङ्क्याह — गाङिति । तर्हि ण्वुलि कोटक इत्यत्रापि गुणो न स्यादित्यत आह — अञ्णिदित्युक्तेरिति । विजितेत्यत्र लघूपधगुणमाशङ्क्याह — विज इडिति ।इति ङित्त्व॑मिति शेषः । विजितेति । ङित्त्वान्न गुणः अनिट्स्त्विति । तस्यानुदात्तोपदेशत्वादिति भावः । 'जनक' इत्यत्रोपधावृद्धिमाशङ्क्य वृद्धिनिषेधं स्मारयत — जनिवध्योश्चेति । वध हिंसायामिति,- धात्वन्तरं भौवादिकं,भ्वादेराकृतिगणत्वात् । नत्वयं हन्तेर्वधादेशः । तथा सतिजनिवध्योश्चे॑ति वृद्धिनिषेधसूत्रे वधिग्रहणवैयथ्र्यात्, वधादेशस्याऽदन्ततया अल्लोपस्य स्थानिवत्त्वादेव वृद्ध्यभावसिद्धेः । वधक इति ।जनिवध्योश्चे॑ति वृद्धिनिषेधः । रन्धकः जम्भक इत्यत्र इदित्त्वाऽभावादप्राप्ते नुमि तद्विधिं स्मारयति — रधिजभोरचीति । रधितेत्यत्ररधिजभो॑रिति नुममाशङ्क्याह — नेटलिटीति । रधिता रद्धेति ।रधादिभ्यश्चे॑ति वेट् । मस्ज् तृ इति स्थिते आह — मस्जिनशोरिति । नुम्विधिरयम् । मङ्क्तेति । मस्ज् तृ इति स्थितेमस्जेरन्त्यात् पूर्वो नुम् वाच्यः॑ इतिसकारादुपरि जकारात् प्राङ्नुम् । मस्न्ज् तृ इति स्थितेस्को॑रिति सलोपः, जस्य कुत्वेन गः, तस्य चर्त्वेन कः, अनुस्वारः, परसवर्णेन ङ इति भावः । नंष्टा नशितेति । रधादित्वाद्वेट् । इडभावपक्षेमस्जिनशो॑रिति नुमि, नन्श् तृ इति स्थितेव्रश्चे॑ति शस्य षः । नस्याऽनुस्वारः । ष्टुत्वम् । रमेरशब्लिटोरिति नुम्विधिरयम् । लब्धेति ।झषस्तथो॑रिति तस्य धः, जश्त्वेन भस्य बः । तीषसहेति । इड्विकल्पोऽयम् । सोढेति । ढत्वधत्वष्टुत्वढलोपाः ।सहिवहो॑रित्योत्त्वम् । दरिद्रातेरालोप इति ।दरिद्रातेरालोपो वक्तव्यः॑ इत्यनेनेति भावः । ण्वुलि नेति । दरिद्रातेर्ण्वुलि आलोपो नेत्यर्थः । 'न दरिद्रायके लोपः' इति वार्तिकादिति भावः । दरिद्रायक इति ।अतो यु॑गिति युगिति भावः । पादाभ्यां ह्यियते पादहारक इत्यत्र कर्मणि ण्वुलं साधयितुमाह — कृत्यल्युट इत्येवेति । 'कृत्यल्युटः' त्येतावतैव पुनर्वचबालद्येष्वर्थेषु ते कृत्यल्युटो विहितास्ततोऽन्यष्वप्यर्थेषु भवन्तीत्यर्थलाभाद्बहुलग्रहणं योगविभागार्थं — कृत्प्रत्यया येष्वर्थेषु विहितास्ततोऽन्यत्रापि क्वचिद्भवन्ती॑ति । एवं च कर्मण्यपि ण्वुल् सिध्यतीत्यर्थः ।कृतो बहुल॑मिति वार्तिकं तु एतद्योगविभागसिद्धकथनपरमिति भावः । क्रमेरिति । आत्मनेपदविषयात्क्रमेः परस्य कर्तरि कृतो नेडित्यर्थः ।स्नुक्रमो॑रिति सूत्रस्थमिदं वार्तिकम् । प्रक्रन्तेति ।प्रोपाभ्यां समर्थाभ्या॑मित्यात्मनेपदविषयोऽयम् । नन्वेवं सति क्रमितेत्यत्र कथमिडित्यत आह — अनन्यभावे विषयशब्द इति । 'वर्तते' इति शेषः । आत्मनेपदाऽविनाभाव इति यावत् ।क्रमेः कर्तर्यात्मनेपदिन॑ इत्येतावतैव सिद्धे विषयपदोपादानादयमर्थो लभ्यते इति भावः । तथा च नित्यमात्मनेपदिन इति फलितम् । तेनेति ।क्रमिते॑त्यत्र क्रमेः 'अनुपसर्गाद्वे' त्यात्मनेपदविकल्पविधानान्नित्यमात्मनेपदित्वाऽभावादिण्निषेधो नेत्यर्थः । मतान्तरमाह — तदर्हत्वमेवेति । आत्मनेपदार्हत्वमेवात्मनेपदविषयत्वम् । ततश्च आत्मनेपदपक्षे इण्निषेधे सति कर्न्तेति रूपम्, आत्मनेपदाऽभावपक्षे तु क्रमं इटि क्रमितेति रूपमिति केचिदाहुरित्यर्थः । अत्र पक्षे विषयपदस्य न प्रयोजनमित्यस्वरसः । ननु संजिगमिषितेत्यत्र सनः कथमिट्, कगमेरनिट्सु पाठात्, सनः परस्मैपदपरत्वाऽभावेनगमेरिट् परस्मैपदेषु॑ इत्यस्याऽप्रवृत्तेरित्यत आह — गमेरिडित्यत्रेति । एवमिति ।न वृद्ध्यश्चतुभ्र्यः॑ इत्यत्रापि परस्मैपदग्रहणमनुवृत्तं तङानयोरभावं लक्षयतीत्यर्थः । विवृत्सितेति । वृतेः सनि रूपम् ।हलन्ताच्चे॑ति कित्त्वान्न गुणः । यङन्तादिति । पचिधातोर्यङन्तात् पापच्येत्यस्माण्ण्वुलित्यर्थः । तस्य अकादेशे 'यस्य हलः' इति यकारलोपे अतो लोपे पापच् अक इति स्थिते उपधावृद्धिमाशङ्क्याह — स्थानिवत्त्वान्न वृद्धिरिति । यङ्लुगन्तात्त्विति । यङः सङ्घातस्य लुकोऽजादेशत्वाऽभावेन स्थानिवत्त्वाऽसंभवादुपधावृद्धिर्निर्बाधा । 'न धातुलोपे' इति निषेधस्तु न, यङ्लुकोऽनैमित्तिकत्वादुपधावृद्धेरिग्लक्षणत्वाऽभावाच्च ।