बहुलं छन्दसि

2-4-39 बहुलं छन्दसि आर्धधातुके अदो घस्लृ

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

छन्दसि विषये बहुलमदो घस्लादेशो भवति। घस्तां॑ नू॒नम् (मा०सं० २१.४३)। सग्धि॑श्च मे॒ (मा०सं० १८.९)। न च भवति — आत्ता॑म॒द्य म॑ध्य॒तो मेद॒ उद्भृ॑तम् (मा०सं० २१.४३)। अन्यतरस्यांग्रहणमेव कस्माद् न क्रियते, तदेवोत्तरार्थमपि भविष्यति? कार्यान्तरार्थं बहुलग्रहणम्। घस्तामित्यत्रोपधालोपो न भवति॥

Siddhanta Kaumudi

Up

अदो घस्लादेशः स्यात् । घस्तान्नूनम् । लुङि मन्त्रे घस - <{SK3402}> इति च्लेर्लुक् । अडभावः । सग्धिश्च मे (सग्धि॑श्च मे) ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

बहुलं च्छन्दसि॥ घस्तामिति। लुङ्'मिन्त्रे घस' इत्यादिना चलेर्लुक्,'बहुलं च्छन्दस्यमाङ्योगे' पिऽ इत्यडभावः। सग्घिरिति।'घसिभसोः' इत्युपधालोपः,'झलो झलि' , समाना ग्धिरिति चठ्समानस्य च्छन्दसिऽ इति सभावः। अन्यतरस्यांग्रहणमेव कस्मान्न क्रियत इति, कः पुरनेवं सति गुण इत्याह - तदेवेति। प्रकृत्यन्तरस्य सद्भावादस्य प्रयोजनं प्रयोजनं मृग्यम्॥