1-1-59 द्विर्वचने अचि स्थानिवत् आदेशः
index: 1.1.59 sutra: द्विर्वचनेऽचि
अचः आदेशः परस्मिन् अचि द्विर्वचने पूर्वविधौ स्थानिवत्
index: 1.1.59 sutra: द्विर्वचनेऽचि
अच्-वर्णस्य स्थाने क्रियमाण: आदेशः अजादिनिमित्ते द्वित्वे कर्तव्ये स्थानिवद् भवति ।
index: 1.1.59 sutra: द्विर्वचनेऽचि
An आदेश done in place of an अच् letter acts like a स्थानी for the द्वित्वकार्य, provided that such a द्वित्वकार्य is caused by an अजादि षनिमित्त.
index: 1.1.59 sutra: द्विर्वचनेऽचि
द्विर्वचननिमित्तेऽचि अजादेशः स्थानिवद् भवति , द्विर्वचन एव कर्तव्ये । रूपातिदेशश्च अयं नियतकालः । तेन कृते द्विर्वचने पुनरादेश रूपम् एव अवतिष्ठते । आल्लोप-उपधालोप-णिलोप-यण्-अयवायावादेशाः प्रयोजनम् । आल्लोपः - पपतुः, पपुः । आतो लोप इटि च 6.4.64 इति आकारलोपे कृते तस्य स्थानिवद्भावाद् एकाचो द्वे प्रथमस्य 6.1.1 इति द्विर्वचनं भवति ।
उपधालोपः - जघ्नतुः, जघ्नुः । गमहनजनखनघसां लोपः क्ङित्यनङि6.4.98 इत्युपधालोपे कृते अनच्कत्वाद् द्विर्वचनं न स्यात्, अस्माद् वचनाद् भवति ।
णिलोपः - आटिटत् । अटतेः णिचि लुङि चङि णिलोपे कृते तस्य स्थानिवत्त्वाद् अजादेर्द्वितीयस्य 6.1.2 इति टिशब्दस्य द्विर्वचनम् भवति ।
यण् - चक्रतुः, चक्रुः । करोतेः अतुसि उसि च यणादेशे कृते अनच्कत्वाद् द्विर्वचनं न स्यात्, स्थानिवत्त्वाद् भवति ।
अयवायावादेशाः - निनय, निनाय ; लुलव, लुलाव । नयतेः लुनातेश्च उत्तमे णलि गुणे कृते वृद्धौ च अयवायावादेशाः, तेषां स्थानिवत्त्वान् ने नै लो लौ इति द्विर्वचनं भवति ।
द्विर्वचने कर्तव्ये इति किम् ? जग्ले, मम्ले । श्रवणमाकारस्य न भवति । द्विर्वचननिमित्ते इति किम् ? दुद्यूषति । ऊठि यणादेशो न स्थानिवद् भवति । अचि इति किम् ? जेघ्रीयते, देध्मीयते । ई घ्राध्मोः 7.4.31 यङि च 7.4.30 इति ईकारादेशः, तस्य स्थानिवद्भावादाकारस्य द्विर्वचनं स्यात्, अज्ग्रहणान् न भवति ॥
index: 1.1.59 sutra: द्विर्वचनेऽचि
द्वित्वनिमित्तेऽचिपरे अच आदेशो न स्याद्द्वित्वे कर्तव्ये ॥
index: 1.1.59 sutra: द्विर्वचनेऽचि
द्वित्वनिमित्तेऽचि अच आदेशो न द्वित्वे कर्तव्ये। गोपायाञ्चक्रतुः॥
index: 1.1.59 sutra: द्विर्वचनेऽचि
यत्र कस्यचन स्थानिनः कश्चन आदेशः विधीयते, तत्र —स्थानिनः गुणधर्माः आदेशे अपि अतिदिश्यन्ते वा ? — इति प्रश्ने जाते, अष्टाध्याय्याम् आहत्य चतुर्भिः सूत्रैः मिलित्वा अस्य उत्तरम् दीयते । स्थानिवदादेशोऽनल्विधौ 1.1.56 इत्यतः आरभ्य द्विर्वचनेऽचि 1.1.59 इति यावन्ति एतानि चत्वारि सूत्राणि
वस्तुतस्तु, इदम् सूत्रम् काशिकायाम् कौमुद्यां च भिन्नाभ्याम् प्रकाराभ्याम् उपस्थापितम् वर्तते । द्वयोः अपि प्रकारयोः अन्ते तु समानानि एव रूपाणि सन्ति, परन्तु प्रक्रियायां कश्चन भेदः जायते । उभयोः अपि पक्षयोः क्रमेण विवरणम् इत्थम् —
यदि प्रक्रियायाः कस्मिंश्चित् सोपाने - (1) अजादेशः, तथा च (2) अजादिनिमित्तकम् द्वित्वम् — एते द्वे कार्ये युगपत् प्राप्नुतः, तर्हि आदौ अजादेशं कृत्वा, ततः जायमानस्य द्वित्वकार्यस्य कृते अयम् अजादेशः स्थानिवद् भवति — इति अस्य सूत्रस्य काशिकाकारेण अर्थविधानम् क्रियते । काशिकाकारेण अत्र '
यथा,
पा (पाने, भ्वादिः, <{1.1074}>)
→ पा + लिट् [परोक्षे लिट् 3.2.115 इति लिट् । असंयोगाल्लिट् कित् 1.2.5 इत्यनेन अयम् किद्वत् भवति ।]
→ पा + अतुस् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इति प्रथमपुरुषद्विवचनस्य अतुस्-प्रत्ययः]
→ प् + अतुस् [अजादौ किति-प्रत्यये परे आतो लोप इटि च 6.4.64 इति आकारलोपः विधीयते । नित्यत्वात् अयम् द्वित्वं बाधते ]
→ पा प् + अतुस् [आकारलोपे कृते अपि, अजादिप्रत्ययनिमित्तके (अतुस्-प्रत्ययनिमित्तके) द्वित्वे कर्तव्ये लुप्तः आकारः स्थानिवद् भवति । अतः अत्र एकाच्-प्रकृतेः द्वित्वं सम्भवति ।]
→ प प् + अतुस् [ह्रस्वः 7.4.59 इति अभ्यासस्य ह्रस्वः]
→ पपतुः [ससजुषो रुः 8.2.66, खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]
अनेन प्रकारेण काशिकाकारस्य पद्धत्या यदा प्रक्रिया लिख्यते, तदा आदौ अजादेशं कृत्वा, तस्य स्थानिवद्भावं स्वीकृत्य द्वित्वकार्यम् करणीयम् ।
यदि प्रक्रियायाः कस्मिंश्चित् सोपाने - (1) अजादेशः, तथा च (2) अजादिनिमित्तकम् द्वित्वम् — एते द्वे कार्ये युगपत् प्राप्नुतः, तर्हि आदौ द्वित्वकार्यं कृत्वा, ततः अजादेशः कर्तव्यः — इति अस्य सूत्रस्य कौमुदीकारेण अर्थविधानम् क्रियते । अत्र कौमुदीकारः वदति —
यथा,
पा (पाने, भ्वादिः, <{1.1074}>)
→ पा + लिट् [परोक्षे लिट् 3.2.115 इति लिट् । असंयोगाल्लिट् कित् 1.2.5 इत्यनेन अयम् किद्वत् भवति ।]
→ पा + अतुस् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इति प्रथमपुरुषद्विवचनस्य अतुस्-प्रत्ययः]
→ पा पा + अतुस् [द्वित्वे कर्तव्ये अजादेशः न क्रियते, अतः अत्र आदौ लिटि धातोरनभ्यासस्य 6.1.8 इत्यनेन द्वित्वं विधीयते ।]
→ पा प् + अतुस् [अजादौ किति-प्रत्यये परे आतो लोप इटि च 6.4.64 इति आकारलोपः जायते । द्वित्वे कृते अयम् अजादेशः अवश्यं प्रवर्तते । ]
→ प प् + अतुस् [ह्रस्वः 7.4.59 इति अभ्यासस्य ह्रस्वः]
→ पपतुः [ससजुषो रुः 8.2.66, खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]
अनेन प्रकारेण कौमुदीकारस्य पद्धत्या यदा प्रक्रिया लिख्यते, तदा आदौ द्वित्वं कृत्वा, ततः अजादेशः करणीयः ।
यद्यपि प्रकृतसूत्रेण अजादेशस्य अपेक्षया द्वित्वकार्यस्य प्राधान्यम् उक्तम् अस्ति (अथ वा, काशिकामतेन द्वित्वे कर्तव्ये अजादेशः स्थानिवत् स्वीकृतः अस्ति), तथापि बहुषु स्थलेषु प्रकृतसूत्रस्य प्रयोगं विना अपि इष्टरूपाणि सिद्ध्यन्ति । इत्युक्ते, एतेषु स्थलेषु द्वित्वकार्यम् आदौ कृत्वा ततः अजादेशः क्रियते चेत् तु साधुरूपम् सिद्ध्यति एव, परन्तु अजादेशं आदौ कृत्वा, तस्य स्थानिवद्भावं विना एव द्वित्वं क्रियते चेदपि साधुरूपम् एव सिद्ध्यति । यथा,
द्विर्वचनेऽचि 1.1.59 इति सूत्रम् अनुसृत्य आदौ द्वित्वे कृते प्रक्रिया —
हन् (हिंसागत्योः, अदादिः, <{2.2}>)
→ हन् + लिट् [परोक्षे लिट् 3.2.115 इति लिट् । असंयोगाल्लिट् कित् 1.2.5 इत्यनेन अयम् किद्वत् भवति ।]
→ हन् + णल् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इति प्रथमपुरुषैकवचनस्य णल्-प्रत्ययः]
→ हन् हन् + अ [लिटि धातोरनभ्यासस्य 6.1.8 इति द्वित्वम् । ]
→ हन् हान् + अ [अत उपधायाः 7.2.116 इति उपधावृद्धिः]
→ ह हान् + अ [हलादिः शेषः 7.4.60 इति अभ्यासस्य हलादिः अवशिष्यते ।]
→ ज हान् + अ [कुहोश्चुः 7.4.62 इति चुत्वम्]
→ ज घान् + अ [अभ्यासाच्च 7.3.55 इति अभ्यासात् उत्तरस्य हन्-धातोः हकारस्य कवर्गादेशः भवति ।]
→ जघान
द्विर्वचनेऽचि 1.1.59 इति सूत्रस्य साहाय्यं विना, आदौ अजादेशे कृते प्रक्रिया —
हन् (हिंसागत्योः, अदादिः, <{2.2}>)
→ हन् + लिट् [परोक्षे लिट् 3.2.115 इति लिट् । असंयोगाल्लिट् कित् 1.2.5 इत्यनेन अयम् किद्वत् भवति ।]
→ हन् + णल् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इति प्रथमपुरुषैकवचनस्य णल्-प्रत्ययः]
→ हान् + अ [अत उपधायाः 7.2.116 इति अजादेशः]
→ हान् हान् + अ [लिटि धातोरनभ्यासस्य 6.1.8 इति द्वित्वम् । ]
→ हा हान् + अ [हलादिः शेषः 7.4.60 इति अभ्यासस्य हलादिः अवशिष्यते ।]
→ ह हान् + अ [ह्रस्वः 7.4.59 इति अभ्यासस्य ह्रस्वः]
→ ज हान् + अ [कुहोश्चुः 7.4.62 इति चुत्वम्]
→ ज घान् + अ [अभ्यासाच्च 7.3.55 इति अभ्यासात् उत्तरस्य हन्-धातोः हकारस्य कवर्गादेशः भवति ।]
→ जघान
अत्र प्रकृतसूत्रं विना, आदौ नित्यत्वात् अजादेशे कृते स्थानिवद्भावं विना अपि इष्टरूपम् अवश्यम् सिद्ध्यति । अतः इष्टरूपसिद्ध्यर्थम् प्रकृतसूत्रस्य प्रयोगः कुत्र कुत्र आवश्यकः वर्तते? ' इति प्रश्नः अत्र उपतिष्ठति । भाष्यकारः अस्मिन् सन्दर्भे इत्थं स्पष्टी करोति — <!आल्लोपोपधालोपणिलोपयणयवायावादेशाः प्रयोजनम् !> । इत्युक्ते, भाष्यकारस्य मतेन प्रकृतसूत्रस्य प्रयोगः आहत्य पञ्चसु स्थलेषु आवश्यकः अस्ति — आकारलोपः, उपधालोपः, णिलोपः, यणादेशः, अयाद्यादेशः — इति । एतेषाम् पञ्चानाम् स्थलानाम् क्रमेण उदाहरणानि एतानि —
उपरिनिर्दिष्टायाम्
हन् (हिंसागत्योः, अदादिः, <{2.2}>)
→ हन् + लिट् [परोक्षे लिट् 3.2.115 इति लिट् । असंयोगाल्लिट् कित् 1.2.5 इत्यनेन अयम् किद्वत् भवति ।]
→ हन् + अतुस् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इति प्रथमपुरुषद्विवचनस्य अतुस्-प्रत्ययः]
→ हन् हन् + अतुस् [गमहनजनखनघसां लोपः क्ङित्यनङि 6.4.98 इति अत्र उपधा-अकारलोपः प्राप्नोति । तस्मिन्नेव समये लिटि धातोरनभ्यासस्य 6.1.8 इत्यनेन द्वित्वस्य अपि प्राप्तिः अस्ति । अत्र यद्यपि उपधा-अकारलोपः नित्यः अस्ति, तथापि द्वित्वे कर्तव्ये द्विर्वचनेऽचि 1.1.59 इति सूत्रेण इति सूत्रबलात् अयम् अजादेशः न प्रवर्तते । अत्र आदौ लिटि धातोरनभ्यासस्य 6.1.8 इत्यनेन द्वित्वं विधीयते । (अथ वा, काशिकामतेन अकारलोपे कृते अपि सः द्वित्वार्थम् स्थानिवद् भवति ।)]
→ हन् ह् न् + अतुस् [अजादौ किति-प्रत्यये परे गमहनजनखनघसां लोपः क्ङित्यनङि 6.4.98 इति उपधा-अकारलोपः विधीयते । द्वित्वे कृते अयम् अजादेशः अवश्यं प्रवर्तते । ]
→ ह ह् न् + अतुस् [हलादिः शेषः 7.4.59 इति अभ्यासस्य हलादिः शिष्यते]
→ घ घ् न् + अतुस् [कुहोश्चुः 7.4.62 इति अभ्यासस्य चुत्वम् । संवारनादघोषमहाप्राणवतः हकारस्य स्थाने तादृशः घकारः आदेशरूपेण विधीयते ।]
→ घ घ् न् + अतुः [<ससजुषो रुः 8.2.66, खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]
→ जघ्नतुः [अभ्यासे चर्च 8.4.54 इति अभ्यासस्य जश्त्वे जकारः]
अटँ (गतौ, भ्वादिः, <{1.332}>)
→ अट् + णिच् [हेतुमति च 3.1.26 इति णिच्-प्रत्ययः । ]
→ अटि [णिजन्तस्य सनाद्यन्ता धातवः 3.1.32 इति धातुसंज्ञा]
→ अटि + लुङ् [लुङ् 3.2.110 इति लुङ्लकारः]
→ आट् + अटि + लुङ् [आडजादीनाम् 6.4.72 इति आडागमः]
→ आ + अटि + च्लि + लुङ् [च्लि लुङि 3.1.43 इति च्लि-विकरणप्रत्ययः]
→ आ + अटि + चङ् + लुङ् [णिश्रिद्रुस्रुभ्यः कर्तरि चङ् 3.1.48 इति च्लेः चङ्-आदेशः]
→ आ + अटि + अ + तिप् [तिप्तस्झि... 3.4.78 इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]
→ आ + अटि + अ + त् [इतश्च 3.4.100 इति इकारलोपः]
→ आ + अटि टि + अ + त् [अत्र चङि 6.1.11 इत्यनेन अङ्गस्य द्वित्वम् प्राप्नोति । तस्मिन्नेव समये णेरनिटि 6.4.51 इत्यनेन णिलोपः अपि प्राप्नोति । अत्र द्विर्वचनेऽचि 1.1.59 इत्यनेन णिलोपः द्वित्वस्य कृते स्थानिवद् भवति । इत्युक्ते, (कौमुदीमतेन) अत्र णिलोपात् पूर्वम् द्वित्वम् करणीयम् । एतादृशम् क्रियते चेदेव अजादेर्द्वितीयस्य 6.1.2 इत्यनेन द्वितीयस्य-एकाच्-अवयवस्य द्वित्वं सम्भवति । यदि णिलोपः आदौ भवेत्, तर्हि एकाच्कत्वात् एकाचो द्वे प्रथमस्य 6.1.1 इत्यनेन अट्-इत्यस्य द्वित्वं प्रसज्येत् ।]
→ आ + अटि ट् + अ + त् [द्वित्वे कृते णेरनिटि 6.4.51 इति णिलोपः क्रियते]
→ आटिटत् [आटश्च 6.1.90 इति वृद्ध्यैकादेशः]
डुकृञ् (करणे, तनादिः, <{8.1}>)
→ कृ + लिट् [परोक्षे लिट् 3.2.115 इति लिट् । असंयोगाल्लिट् कित् 1.2.5 इति अयम् किद्वत् भवति । ]
→ कृ + अतुस् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इति प्रथमपुरुषद्विवचनस्य अतुस्-प्रत्ययः]
→ कृ + कृ + अतुस् [सार्वधातुकार्धधातुकयोः 7.3.84 इत्यनेन अङ्गस्य गुणादेशे प्राप्ते क्ङिति च 1.1.5 इत्यनेन सः निषिध्यते । अतः अत्र इको यणचि 6.1.77 इत्यनेन यणादेशः प्राप्नोति । तस्मिन्नेव समये लिटि धातोरनभ्यासस्य 6.1.8 इति द्वित्वम् अपि विधीयते । अत्र द्विर्वचनेऽचि 1.1.59 इति सूत्रम् अनुसृत्य यणादेशस्य अपेक्षया द्वित्वम् आदौ क्रियते ।]
→ कृ + क् र् + अतुस् [इको यणचि 6.1.77 इति यणादेशः । द्वित्वात् अनन्तरम् अयम् अवश्यम् विधीयते ।]
→ कर् + क् र् + अतुस् [उरत् 7.4.66 इति अभ्यासस्य ऋकारस्य अकारादेशः । सः उरण् रपरः 1.1.51 इति रपरः]
→ क + क् र् + अतुस् [हलादिः शेषः 7.4.60 इति अभ्यासस्य हलादिः शिष्यते]
→ च + क् र् + अतुस् [कुहोश्चुः 7.4.62 इति अभ्यासस्य चुत्वम्]
→ चक्रतुः [ससजुषो रुः 8.2.66, खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]
णीञ् (प्रापणे, भ्वादिः, <{1.1049}>)
→ नी + लिट् [परोक्षे लिट् 3.2.115 इति लिट्]
→ नी + णल् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इति उत्तमपुरुषैकवचनस्य णल्-प्रत्ययः]
→ (ने / नै) + अ [णलुत्तमो वा 7.1.91 इति उत्तमपुरुषैकवचनस्य णल्-प्रत्ययः विकल्पेन णिद्वत् भवति । णित्वपक्षे अचो ञ्णिति 7.2.115 इति अङ्गस्य वृद्धिः विधीयते, णित्वाभावे सार्वधातुकार्धधातुकयोः 7.3.84 इत्यनेन अङ्गस्य गुणादेशः भवति ।]
→ (ने ने / नै नै) + अ [एचोऽयवायावः 6.1.78 इति अयादेशे / आयादेशे प्राप्ते, द्विर्वचनेऽचि 1.1.59 इति सूत्रेण तस्मात् पूर्वम् द्वित्वम् विधीयते । (अथ वा, काशिकामतेन अयादेशे / आयादेशे कृते अपि द्वित्वार्थम् आदेशः स्थानिवद् भवति ।)]
→ (ने नय् / नै नाय्) + अ [द्वित्वे कृते एचोऽयवायावः 6.1.78 इति अयादेशः / आयादेशः विधीयते ।]
→ (नि नय् / नि नाय्) + अ ह्रस्वः 7.4.59 इति अभ्यासस्य ह्रस्वः । एच इग्घ्रस्वादेशे 1.1.48 इति एकार-ऐकारयोः ह्रस्वः इकारः]
→ निनय / निनाय
एवमेव, पूञ् (पवने, क्र्यादिः, <{9.14}>) इत्यस्य प्रक्रियायाम् अवादेशात् / आवादेशात् पूर्वम् द्वित्वं भवति —
पूङ् (पवने, क्र्यादिः, <{9.14}>)
→ पू + लिट् [परोक्षे लिट् 3.2.115 इति लिट्]
→ पू + णल् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इति उत्तमपुरुषैकवचनस्य णल्-प्रत्ययः]
→ (पो / पौ) + अ [णलुत्तमो वा 7.1.91 इति उत्तमपुरुषैकवचनस्य णल्-प्रत्ययः विकल्पेन णिद्वत् भवति । णित्वपक्षे अचो ञ्णिति 7.2.115 इति अङ्गस्य वृद्धिः विधीयते, णित्वाभावे सार्वधातुकार्धधातुकयोः 7.3.84 इत्यनेन अङ्गस्य गुणादेशः भवति ।]
→ (पो पो / पौ पौ) + अ [एचोऽयवायावः 6.1.78 इति अवादेशे / आवादेशे प्राप्ते, द्विर्वचनेऽचि 1.1.59 इति सूत्रेण तस्मात् पूर्वम् द्वित्वम् विधीयते । (अथ वा, काशिकामतेन अवादेशे / आवादेशे कृते अपि द्वित्वार्थम् आदेशः स्थानिवद् भवति ।)]
→ (पो पव् / पौ पाव्) + अ [द्वित्वे कृते एचोऽयवायावः 6.1.78 इति अवादेशः / आवादेशः विधीयते ।]
→ (पु पव् / पु पाव्) + अ ह्रस्वः 7.4.59 इति अभ्यासस्य ह्रस्वः । एच इग्घ्रस्वादेशे 1.1.48 इति ओकार-औकारयोः ह्रस्वः उकारः]
→ पुपव / पुपाव
एतेषु पञ्चसु स्थलेषु परनिमित्तकः अजादेशः आदौ क्रियते चेत् अनिष्टं रूपं सिद्ध्यति, अतः अत्र एतेषां विषये प्रकृतसूत्रम् उपयुज्य द्वित्वम् आदौ क्रियते । अन्येषु स्थलेषु परनिमित्तकः अजादेशः आदौ क्रियते चेदपि रूपसिद्धौ न कश्चन दोषः जायते; परन्तु तत्रापि प्रकृतसूत्रम् अनुसृत्य द्वित्वमेव आदौ करणीयम् ।
1. द्विर्वचने इति किमर्थम् ? अन्यकार्याणां कृते अजादेशः स्थानिवद् न भवति । यथा,
ग्लै (हर्षक्षये, भ्वादिः)
→ ग्ला [आदेच उपदेशेऽशिति 6.1.45 इति द्वित्वम्]
→ ग्ला + लिट् [परोक्षे लिट् 3.2.115 इति लिट्लकारः । अत्र धातोः अन्ते संयोगः नास्ति, अतः असंयोगाल्लिट् कित् 1.2.5 इत्यनेन अयम् किद्वत् भवति ]
→ ग्ला + त [भावकर्मणोः 1.3.13 इति आत्मनेपदम्, अतः प्रथमपुरुषैकवचनस्य विवक्षायाम् तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् 3.4.78 इत्यनेन त-प्रत्ययः]
→ ग्ला + ए [लिटस्तझयोरेशिरेच् 3.4.81 इति त-प्रत्ययस्य एश्-आदेशः ।अनेकाल्शित्सर्वस्य 1.1.55 इति सर्वादेशः]
→ ग्ला ग्ला + ए [आतो लोप इटि च 6.4.64 इत्यनेन आकारलोपे प्राप्ते; तस्मात् पूर्वम् द्वित्वम् क्रियते ।]
→ ग्ला ग्ल् + ए [अत्र आतो लोप इटि च 6.4.64 इत्यनेन आकारलोपः तथा च वृद्धिरेचि 6.1.88 इत्यनेन वृद्ध्यैकादेशः - एतौ युगपत् प्राप्नुतः अत्र परत्वात्, अङ्गकार्यत्वात् च आतो लोप इटि च 6.4.64 इत्येव कार्यम् आदौ क्रियते]
→ ग्ला ग्ले [आकारलोपे कृते वृद्धिरेचि 6.1.88 इत्यनेन वृद्ध्यैकादेशः नैव सम्भवति । वृद्धिकार्यार्थम् अत्र आकारलोपः स्थानिवद् न भवति ।
→ गा ग्ले [हलादिः शेषः 7.4.60]
→ ग ग्ले [ह्रस्वः 7.4.59]
→ जग्ले [कुहोश्चुः 7.4.62 इति चुत्वम्]
2. अचि इति किमर्थम् ? यत्र द्वित्वस्य निमित्तम् अजादिः नास्ति, तत्र प्रकृतसूत्रेण उक्तः स्थानिवद्भावः नैव प्रवर्तते । यथा,
घ्रा (गन्धोपादाने घ्राणे च, भ्वादिः, <{1.1075}>)
→ घ्रा + यङ् [धातोरेकाचो हलादेः क्रियासमभिहारे यङ् 3.1.22 इति यङ् ।
→ घ्री + य [ई घ्राध्मोः 7.4.31 इति अङ्गस्य ईकारादेशः । अत्र यङ्-प्रत्ययनिमित्तकम् द्वित्वम् अपि युगपत् प्राप्नोति, परन्तु नित्यत्वात् अत्र ईकारादेशः एव आदौ क्रियते । अस्मिन् आदेशे कृते प्रकृतसूत्रेण स्थानिवद्भावः नैव प्रवर्तते, यतः अत्र द्वित्वम् हलादिनिमित्तकम् अस्ति ।]
→ घ्री घ्री य [यङोऽचि च 2.4.74 इति द्वित्वम्]
→ घी घ्री य [हलादिः शेषः 7.4.60 इति हलादिः शिष्यते ।]
→ घि घ्री य [ह्रस्वः 7.4.59 इति अभ्यासस्य ह्रस्वः]
→ घे घ्री य [गुणो यङ्लुकोः 7.4.82 इति अभ्यासस्य गुणः]
→ जेघ्रीय [अभ्यासे चर्च 8.4.54 इति अभ्यासस्य जश्त्वम् । सनाद्यन्ता धातवः 3.1.32 इति धातुसंज्ञा । अस्मात् अग्रे यथायोग्यम् तिङ्/कृत्-प्रत्ययाः विधीयन्ते ।]
अस्मिन्नेव सन्दर्भे अन्यद् एकम् प्रत्युदाहरणम् इत्थम् —
दिवुँ (क्रीडादिषु, दिवादिः, <{4.1}>)
→ दिव् + सन् [धातोः कर्मणः समानकर्तृकादिच्छायां वा 3.1.7 इति सन्-प्रत्ययः]
→ दि ऊठ् + स [च्छ्वोः शूडनुनासिके च 6.4.19 इति ऊठ्]
→ द्यु + स [इको यणचि 6.1.77 इति यणादेशः । अयम् अन्तरङ्गात् द्वित्वं बाधते ]
→ द्यु द्यु + स [सन्यङोः 6.1.9 इति द्वित्वम् । इदं द्वित्वम् हलादिप्रत्ययनिमित्तकम् अस्ति । अतः अत्र अजादेशः (यणादेशे कृते प्राप्तः यकारः) स्थानिवद् न भवति । ]
→ दु द्यु + स [हलादिः शेषः 7.4.60]
→ दुद्युष [आदेशप्रत्यययोः 8.3.59 इति षत्वम् । सनाद्यन्ता धातवः 3.1.32 इति धातुसंज्ञा । अस्मात् अग्रे यथायोग्यम् तिङ्/कृत्-प्रत्ययाः विधीयन्ते ।]
index: 1.1.59 sutra: द्विर्वचनेऽचि
द्विर्वचनेऽचि - द्विर्वचनेऽचि । द्विरुच्यते येन परनिमित्तेन तद्द्वर्वचनं । द्वित्वनिमित्तमिति यावत् । अचीत्यस्य विशेषणमिदम् ।अचः परस्मिन्नित्यतोऽचेति, 'स्थानिवदादेश' इत्यत आदेश इति, न पदान्तेत्यतो नेति चानुवर्तते । द्विर्वचन इत्यावर्तते । एवं चद्वित्वे कर्तव्ये सती॑ त्यपि लभ्यते । तदाह — द्वित्वनिमित्तेऽचीत्यादिना ।द्वित्वे कर्तव्ये सती॑त्युक्तेः कृते द्वित्वे 'चक्रे' इत्यादौ यणादयो भवन्ति । अन्यता तु न स्युः, द्वित्वनिमित्तस्य अचः सत्त्वात् । द्वित्वनिमित्त इति किम् । दुद्यूषति । दिव्धातोः सनि द्वित्वात्परत्वादूठि कृते द्वित्वात्प्राग्यण् भवत्येव । तथा च 'द्यू' इत्यस्य द्वित्वे दुद्यूषतीति सिध्यति । द्वित्वे कर्तव्ये यणो निषेधे तु दिद्यूषतीत्यभ्यासे इकार एव श्रूयेत । न तूकारः । 'द्वित्वनिमित्ते' इत्युक्तौ तूठि परे द्वित्वात्प्राग्यण्यो न निषेधः, ऊठो द्वित्वनिमित्तत्वाऽभावात् । अचीति किम् । जेघ्रीयते । अत्र घ्राधातोर्यङि द्वित्वात्प्राकई घ्राध्मो॑रितीकारादेशो न निषिध्यते । ईत्वस्य द्वित्वनिमित्त यङ्निमित्तकत्वेऽपि द्वित्वनिमित्ताऽज्निमित्तकत्वाऽभावात् । अचः किम् । असूषुपत् । इह स्वापेश्चङि द्वित्वात्प्राक्स्वापेश्चङी॑तिवकारस्य सम्प्रसारणं न निषिध्यते, तस्याऽजादेशत्वाऽभावात् । ततश्च कृते सम्रसारणे सुप् इत्यस्य द्वित्वेऽब्यासे उकारस्य श्रवणं संभवति । संप्रसारणे निषिद्दे तु 'स्वप्' इत्यस्य द्वित्वेऽभ्यासे उकारो न श्रूयेत । एवं च प्रकृते यणादेशात्प्राग्लिटि धातो॑रिति द्वित्वे कृ कृ ए इति स्थिते — ।
index: 1.1.59 sutra: द्विर्वचनेऽचि
'अचः परस्मिन्' इत्यत्र 'योऽनादिष्टादचः पूर्वः' इति स्थितम् । साच्कस्य द्विर्वचनं न त्वचः पूर्वस्येत्यप्राप्तं स्थानिवत्वं विधीयते, रूपातिदेशार्थ च । अत्र षट् पक्षाः सम्भवन्ति । अचीत्यादेशोपलक्षणम्, द्विर्वचन इति विषयनिर्देशः, अचि योऽजादेशः स द्विर्वचने स्थानिवद्भवतीति प्रथमः पक्षः । अचीत्येतदपि स्थानिवद्भावेनैव सम्बध्यते, द्विर्वचन इति विषयनिर्देशाद्, द्विर्वचने कर्तव्येऽजादेशः स्थानिवद्भवत्यचि पर इति द्वितीयः । द्विर्वचननिमितत्वादजेव द्विर्वचनग्रहणेन विषेष्यते, द्विर्वचनमस्मिन्नस्तीत्यर्शाअद्यच्प्रत्ययान्तेन वा, अधिकरणसाधनेन वा, आदेशोपलक्षणम्, द्विर्वचननिमितेऽचि योऽजादेश- स स्थानिवदिति तृतीयः । एवं विशेषितं वाज्ग्रहणं स्थानिवद्भावस्य विशेषणम्, अजादेशः स्थानिवद्भवति द्विर्वचननिमितेऽचि परत इति चतुर्थः । द्विर्वचनग्रहणमा वर्तते, तत्रैकेनाज्विशेष्यते, परेण विषयी निर्दिश्यत इति स्थिते तद्विशेषितमज्ग्रहणं स्थानिवद्भावस्य विशेषतणम्, द्विर्वचने कर्तव्येऽजादेशः स्थानिवद्भवति द्विर्वचननिमितेऽचि परत इति पञ्चमः । एवमेव स्थितेऽज्ग्रहणमादेशोपलक्षणम्, द्विर्वचननिमितेऽचि योऽजादेशः स द्विर्वचने कर्तव्ये स्थानिवद्भवतीति षष्ठः । अत्राद्ये पक्षेऽचो द्विर्वचनेनाविशेषितत्वाद् द्विर्वचननिमितेऽप्यचि आदेशः स्यानिवत्स्यात्, ततश्चाचिकीर्तद् इत्यत्र णिचि 'उपधायाश्च' इतीत्वस्य 'चङ्' ईति द्विर्वचने स्थानिवद्भावादचकीर्तदिति स्यात् । दुद्यौउषति - ऊठि यणादेशः स्थानिवत्स्यात् । भवनमिच्छति, भवनीयतेः सन्, बिभवनीयिषति-ल्युटि कृतयोर्गुणावादेशायोः स्थानिवत्वे बुभवनीयिषतीत्यनिष्ट्ंअ रूपं प्राप्नोति । द्वितीये तु अचिकीर्तदित्यत्र न दोषः, इत्वस्य तकारेण व्यवहितत्वात् स्थानिवद्भावभाजो ह्यादेशस्य स्थानिवत्वविधानवेलायामच्यचनन्तरे स्थानिवत्वेन भवितव्यम् । एवं ह्यचि परतः स्थानिवद्भावः कृतो भवति । दुद्यौउषतीत्यादौ तु स्यादेव । ययावित्यत्र 'आत औ णलः' इत्यौकारेण वृद्धौ कृतायां संप्रत्यादेशात्परोऽज्नास्तीति स्थानिवत्वं न स्यात् । जग्मतुरित्यादौ च 'गमहन' इत्युपधालोपस्य व्यवहितत्वान्न स्यात् । तृतीये तु कालावधारणं कर्तव्यम्, अन्यथा द्विर्वचनादुतरकालमपि स्थानिरूपमेवावतिष्ठेत । चतुर्थे तु ययौ, जग्मतुरित्यादौ पूर्वोक्तन्यायेन स्थानिवद्भावो न प्राप्नोति, कालावधारणं च कर्तव्यम् । पञ्चमेऽपि ययौ, जग्मतुरित्यादौ न स्यात्, अत एतेषु पक्षेष्वेवं दोषसम्भवात् षष्ठ्ंअ पक्षमाश्रित्याह-द्विर्वचननिमितेःऽचीत्यादि । अत्र हि पक्षे द्विर्वचनेनाचो विशेषणादचिकीर्तत्, दुद्यौउषति, बिभवनीयिषतीत्यादौ न दोषः । आदेशोपलक्षणत्वाच्च ययावित्यादावपि न दोषः पुनश्च द्विर्वचनग्रहणात् कालावधारणमपि लभ्यते । ननु 'द्विर्वचननिमितेऽचि योऽजादेशः' इत्युच्यमाने नुनावयिषति, चक्षावयिषति, पुस्फारयिषतीत्यादौ णेरद्विर्वचननिमितत्वातन्निमितावादेशः, आकारश्च न स्थानिवत्स्यात्; ततश्चाभ्यास उकारो न श्रूयेत, नैष दोषः;'पुयण्जि' इति ज्ञापकाद् द्वित्वनिमितेऽपि णौ स्थानिवत्वापायात् । तथा हि- न हि णौ कृतस्य स्थानिवद्भावमन्तरेण ओः पराः पुयण्ज्योऽवर्णपराः सम्भवन्ति; पिपविषति, यियविषति-इत्यत्र सम्भव इति चेत्, किमेतावता पुग्रहणं प्रत्याहारग्रहणं जग्रहणं चार्थवद्भवतीति ? ज्ञापकमुक्तार्थस्य यद्येवम्; अचिकीर्तदित्यत्रेत्वस्य स्थानिवत्वादचकीर्तदिति स्यात्, नैष दोषः; ज्ञापकस्य तुल्यजातीयापेक्षत्वात् यत्रोतरभागस्याद्योऽवर्णपरो भावस्तत्रैव स्थानिवत्वज्ञापनात् । नन्वेवमपि 'ओः पुयण्' इत्यत्र णेरित्यश्रवणात्सामान्येन द्वित्वनिमितं स्थानित्वं विज्ञायेत, ततश्च विभवनीयिषतीत्यत्रापि स्यात्, न ह्यत्राजमात्रं द्विर्वचननिमितम्, क्व तर्हि स्यात् ? चकार, चक्रे इत्यादौ ह्यज्मात्रं प्रत्ययः । स्यादेतत्-परस्मिन्नित्यनुव-तमचीत्यनेन विशेष्यते, तत्र यस्मिन्विधिस्तदादावल्ग्रहणमिति तदादिविधिर्भवति । अजादौ परस्मिन्निति द्विर्वचननिमितत्वेनापि अजाद्येव विशेष्यत इति । एवमपि चक्रतुरित्यत्र स्यात्, यद् द्विर्वचननिमितमजादि न तदादेशस्य निमितम्; अच्येव यणो विधानात् । यच्चादेशस्य निमितं न तद् द्विर्वचनस्य निमितम्; पपतः चख्नतुरित्यादावेन तु स्यात् । किञ्च 'यस्मिन्विधिः' इति वचनाद्यत्र किञ्चिद्विधीयते तत्रैव तदादिविधिः, इह तु अचि योऽजादेश इत्यनुवादत्वातदादिविधेरेवासम्भवस्तस्यमादजेव गृह्यते, न तदादिः, उच्यते; चक्रतुरित्यादावतुसोद्विर्वचनं प्रति निमितत्वेनाश्रयणेऽप्यचि परत्रावस्थिते द्विर्वचनं दृष्टमित्येतावताजेव द्विर्वचननिमितमित्युच्यते । समुदायेऽप्ययं द्विर्वचनशब्द उपचारेण प्रवर्तते । एवमपि पपतुरित्यत्र न स्यात्, आल्लोपस्याजादिनिमितं नाज्मात्रम्, नैष दोषः; 'अचि योऽजादेशः' इति कोऽर्थः ? अचि यो दृष्ट इत्यर्थः । यश्चाचि विधीयते, यश्चाजादौ-द्वावपि अचि दृष्टावेवेति सर्वत्र सिध्यति । अथ वा-अजादावाल्लोपो न हलादौ, तत्र प्राप्ताप्राप्तविवेकेनाच एव मिमितत्वम् । द्विर्वचन एव कर्तव्य इति एवकारेणैतद्दर्शयति - द्विर्वचनग्रहणमचं विशिनष्टि,कालं चावधारयतीति । एकस्योभयसम्बन्धे हि भवति एवकारः-देवदतो ग्रामं गच्छतु स एव गामानयत्विति । यद्यत्रापि पूर्ववत्कार्यातिदेशः स्यात्; चक्रतुरित्यादावनच्कत्वादप्राप्तं द्विर्वचनं स्थानिवद्भावाद् भवदपि यणाद्यादेशयुक्तस्यैव स्यादित्यभयासे स्थानिरूपं न श्रूयेत, तदर्थमाह-रूपातिदेशश्चायमिति । 'च' शब्दोऽवधारणे । कथं पुनरवगम्यते रूपातिदेशोऽयमिति ? अज्ग्रहणात् । तद्धिजेघ्रीयत इत्यत्र 'ई घ्राध्मोः' इति हलादौ विहितस्येत्वस्य स्थानिवत्वं मा भूदित्येवमर्थं क्रियते । यदि च रूपं स्थानिवत्, ततोऽसत्यज्ग्रहणे घ्राय्घ्रीय्ध्माय्ध्मीय् इति द्विर्वचनं स्यादिति तन्नवृतयेऽजग्रहणमर्थवद् भवति । अथ हि - कार्यं स्थानिवद् भवति, तस्य सत्यपि स्थानिवत्वे ईकारयुक्तस्यैव द्विर्वचनमिति नार्थोऽज्ग्रहणेन । भसेस्तु क्वसौ 'घसिभसोर्हलि' इत्युपधालोपे कृते सत्यसति वा द्विर्वचनेभ्स्वानिति श्रुतौ विशेषाभावः । छान्दसच क्वसुः, च्छन्दसिदृष्टानुविधानमतो ज्ञापकमेवाज्ग्रहणम् । तत्र यद्यपि स्थान्येव स्वरूपमापद्यते, तथाप्यातिदेशिकानातिदेशिकरूपभेदाश्रयस्तु वतिर्द्विर्वचन एव कर्तव्य इत्येतदेव स्पष्टयति । नियतकाल इति । कृते द्विर्वचने इत्यादिना नियतकालत्वमेव दर्शयति । यदि कृते द्विर्वचने पुनरादेशरूपमेवावतिष्ठते, यथा - चक्रतुरित्यादौ द्विर्वचनादूर्ध्वं पूर्वं कृतो यणादेश एव श्रूयते तथा निन्यतुरित्यादावपि द्विर्वचनात्पूर्वमेकाच्त्वादि, यङदेशे कृते स्थानिवद्भावाद् द्विर्वचनेऽपि पूर्वप्रवृत इयणेóव स्यात् । अस्तुः तस्य 'असिद्धवदत्राभात्' इत्यसिद्धत्वाद् 'एरनेकाचः' इति यणि सति श्रवणं न भविष्यति । यद्वा-पूर्वप्रवृतोऽपीयङ् द्विर्वचनकालेऽपहृत इति पुनः प्रवर्तयितव्यः, तस्यां च दशायाम नेकाच्त्वाद्यणा बाध्यते । यद्येवम्, इयेष उवोषेति इषेरुषेश्च लिटि तिपि णलि प्रवृत्त्स्यापि गुणस्य द्विर्वचनकालेऽपहृतत्वात्कृते द्विर्वचने पुनः प्रवृत्तिः, ततश्चानादिष्टादचः पूर्वत्वेनाभ्यासो दृष्ट इति तस्याभ्यासस्य उवङ् किर्तव्ये गुणस्य स्थानिवद्भावादसवर्णं इति प्रतिषेधः स्यात् । असवर्णग्रहणसामर्थ्यात्स्थानिवत्वं न भविष्यति । अस्त विचनस्यावकाशः-इयर्ति, इयृतः । ह्यएकमुदाहरणमसवर्णेग्रहणं प्रयोजयति । यद्येतावत्प्रयोजनं स्यात्, अर्तावित्येव ब्रूयात् । कि तर्ह्युच्यते - द्विर्वचने पुनरादेशरूपमेवावतिष्ठत इति, अत्र हि 'पुनः' शब्दाद्, 'अवतिष्ठते' इति वचनाच्च पूर्वकृतस्यैवादेशस्योन्मज्जनमेवोक्तं प्रतीयत इति ? नायमर्थः; अपि तु कृते द्विर्वचने स्थानिरूपं नावतिष्ठते यत्प्राप्तं तद्भवतीत्येवंपरमेतत् । अल्लोपेत्यादि । उपलक्षणमेतत् । ततुरिः, पपुरिरित्यदौ 'आञ्त ईद्धातोः' 'उदोष्ठ।ल्पूर्वस्य' 'बहुलं च्छन्दसि' इति इत्वोत्वयरपि स्थानिवत्वं भवति । आटिटदिति । अटतेर्ण्यन्ताल्लुङ् चिङ् 'इजादेर्द्वितीयस्य' इति टिशब्दस्य द्विर्वचनम्, 'आडजादीनाम्' । निनायेत्यादि । 'णलुतमो वा' इति यदा णित्वं नास्ति तदा गुणः, णित्वपक्षे वृद्धिः । नेनैलोलाइति द्विर्वचनमिति । गृणवृद्ध्योस्तु स्थानिवद्भावे विशेषाभावान्नोक्तः । जग्ले, मम्ल इति । भावे लिट्, अनैमितिकमात्वम्, शिति तु प्रतिषेध इत्यात्वस्य स्थानिवत्वं न भवति । श्रवणमित्यादि । यदि कालो नावधार्येत, तदोतरकालमपि स्थानिरूपं प्रसज्येत, ततश्चाकारस्य श्रवणे सति परेण सह 'वृद्धिरेचि' इति वृद्धिः स्यात् । इहाधिजगे इति 'गाङ्लिटि' इति द्विलकारनिर्देशेन लकारादौ लिटि गाङदेशविधानादज्निमितत्वाभावात् स्थानिवत्वाभावः ॥