5-4-154 शेषात् विभाषा प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ कप्
index: 5.4.154 sutra: शेषाद्विभाषा
यस्माद् बहुव्रीहेः समासान्तो न विहितः स शेषः तस्माद् विभाषा कप् प्रत्ययो भवति। बह्व्यः खट्वाः अस्मिन् बहुखट्वकः। बहुमालकः। बहुवीणकः। बहुखट्वाकः। बहुमालाकः। बहुवीणाकः। बहुखट्वः। बहुमालः। बहुवीणः। कथमनृक्कं साम, बह्वृक्कं सूक्तम् इति, यावता विहितोऽत्र सामान्येन समासान्तः ऋष्पूः इति। न एतदस्ति। विशेषे स इष्यते, अनृचो माणदको ज्ञेयो बह्वृचश्चरणाख्यायाम् इति। शेषातिति किम्? प्रियपथः। प्रियधुरः।
index: 5.4.154 sutra: शेषाद्विभाषा
अनुक्तसमासान्ताच्छेषाधिकारस्थाद्बहुव्रीहेः कप् वा स्यात् । महायशस्कः । महायशाः । अनुक्तेत्यादि किम् । व्याघ्रपात् । सुगन्धिः । प्रियपथः । शेषाधिकारस्थात् किम् । उपबहवः । उत्तरपूर्वा । सुपुत्रः । तन्त्रादिना शेषशब्दोऽर्थद्वयपरः ॥
index: 5.4.154 sutra: शेषाद्विभाषा
अनुक्तसमासान्ताद्बहुव्रीहेः कब्वा । महायशस्कः, महायशाः ॥ इति बहुव्रीहिः ॥ ४ ॥
index: 5.4.154 sutra: शेषाद्विभाषा
शेषाद्विभाषा - शेषाद्विभाषा । इतः पूर्वं येब्यः समासान्ता विहितास्तेभ्योऽन्यः शेषः । तदाह — अनुक्तसमासान्तादिति । शेषाधिकारस्थादिति ।शेषा॑दित्यनेन शेषाधिकारस्थादित्यपि विवक्षितमिति भावः । महयशस्क इति । महत् यशः यस्येति विग्रहः 'आन्महतः' इत्यात्त्वे, कपि, 'सोऽपदादौ' इति सत्वम् । महायशा इति । कबभावेअत्वसन्तस्ये॑ति दीर्घः । व्याघ्रपादिति ।पादस्य लोपोऽहस्त्यादिभ्यः॑ इत्युक्तसमासान्तोऽयम् स्थानिद्वारा लोपस्यापि समासान्तत्वात् । सुगन्धिरिति ।गन्धस्येदुत्पूती॑ति कृतसमासान्तोऽयम् । प्रियपथ इति ।ऋक्पू॑रिति कृतसमासान्तोऽयम् । उपबहव इति । सङ्ख्ययाव्यये॑ति बहुव्रीहिरयं, न शेषाधिकारस्थः । उत्तरपूर्वेति । अयमपिदिङ्नामान्यन्तराले॑ इति बहुव्रीहिः न सेषाधिकारस्थः । सपुत्र इति । 'तेन सह' इत्ययमपि बहुव्रीहिः न शेषाधिकारस्थः । ननु सकृदुच्चारिताच्छेषशब्दात् कथमर्थद्वयलाभ इत्यत आह — तन्त्रादिनेति । आदिना आवृत्तिसंग्रहः । एकमनेकोपयोगि तन्त्रम् । उच्चारयित्रा तन्त्रेणोच्चारिताच्छब्दादावृत्त्या बोध इति बोध्यम् ।ओतो धावती॑त्यादौ सकृदुच्चारणेऽपिआआ इतो धावति, ओत गुणको धावती॑त्येवमनेकार्थबोधदर्शनादिति भावः ।
index: 5.4.154 sutra: शेषाद्विभाषा
यस्माद्बहुव्रीहेरिति। कर्मणि ल्यब्लोपे एषा पञ्चमी, बहुव्रीहिमाश्रितयेत्यर्थः, तेन यत्राप्यादेशः समासान्तः - व्याघ्रपात्, सुगन्धिः, कुण्डोध्नीति; असावपि शेषो न भवति। प्रत्ययप्रायत्वाद्वा समासान्तस्य'यस्मात्' इत्युक्तम्। इह शेषः कबपेक्षो वा स्याद्, अनन्तरो यो बहुव्रीह्यधिकारस्तदपेक्षो वा, समासान्तमाक्षत्रापेक्षो वा-इति त्रयः पक्षाः सम्भवन्ति। तत्राद्ये पक्षे-व्याघ्रपात्, सुगन्धिः, द्विदशाः, अनृचः, विधुर इत्यादौ नित्यकब्विषयवर्जं सर्वत्र प्रसज्येत। शेषग्रहणं चानर्थकम्, न हि नित्यकब्विषये विकल्पप्रसङ्गः; नित्यकविधेरानर्थक्यप्रसङ्गात्। द्वितीयेऽपि द्विद्शा इत्यादौ स्यादेव प्रसङ्ग इति मन्यमानस्तृतीयं पक्षमाश्रयति - समासान्तो न विहित इति। बहुखट्वक इत्यादौ ठापोऽन्यतरस्याम्ऽ इति ह्रस्वः, बहुखट्व इत्यादौ'गोस्त्रियोरुपसर्जनस्य' इति। कथमित्यादि। यदि समासान्तापेक्षः शेष इति प्रश्नः। विशेषे स इष्यत इति। ततश्च विषयान्तरे सूक्ते सामनि च बहुव्रीहेः समासान्तापेक्षं शेषत्वमस्त्येवेति भावः। किमर्थं पुनः शेषग्रहणम्, यावता यत्र समासान्ता विहितास्तत्र त एव बाधका भविष्यन्ति, अनवकाशा विधयो बाधका भवन्ति, सावकाशाश्च ते, कोऽवकाशः ? विभाषा कप्, यदा न कप् सोऽवकाशः - कपोऽप्यन्याः प्रकृतयः; विशेषप्रकृतिभ्य उभयप्रसङ्गे परत्वात्कप् स्यात्। तस्माच्छेषग्रहणम् ॥