6-4-134 अल् लोपः अनः असिद्धवत् अत्र आभात् भस्य
अनः भस्य अङ्गस्य अत्-लोपः
'अन्' यस्य अन्ते तादृशस्य भसंज्ञकस्य उपधा-अकारस्य लोपः भवति ।
If a भसंज्ञक अङ्ग ends in the word 'अन्' then the 'अ' of this 'अन्' is omitted.
अनित्येवमन्तस्य भस्याकारलोपो भवति। राज्ञः पश्य। राज्ञा। राज्ञे। तक्ष्णः पश्य। तक्ष्णा। तक्ष्णे। अनो नकारान्तस्यायं लोप इष्यते। इह न भवति — राजकीयमिति॥
अङ्गावयवोऽसर्वनामस्थानयजादिस्वादिपरो योऽन् तस्याऽकारस्य लोपः स्यात् ॥
अङ्गावयवोऽसर्वनामस्थानयजादिस्वादिपरो योऽन् तस्याकारस्य लोपः। दध्ना। दध्ने। दध्नः। दध्नः। दध्नोः। दध्नोः॥
यस्य भसंज्ञकस्य अङ्गस्य अन्ते 'अन्' इति विद्यते, तस्य अङ्गस्य उपधा-अकारस्य लोपः भवति । यथा - 1. राजन्-शब्दस्य तृतीयैकवचनम् राजन् + टा → राजन् आ [टकारस्य <<चुटू>> 1.3.7 इति इत्संज्ञा, लोपः । अङ्गस्य <<यचि भम्>> 1.4.18 इति भसंज्ञा] → राज् न् आ [<<अल्लोपोऽनः>> 6.4.134 इति जकारोत्तरस्य अकारस्य लोपः] → राज् ञ् आ [<<स्तोः श्चुना श्चुः>> 8.4.40 इत्यनेन श्चुत्वम्] → राज्ञा 2. अह्ना निर्वृत्तम् = अहन् + ठक् [<<तेन निर्वृत्तम्>> 5.1.79 → अहन् + इक [<<ठस्येकः>> 7.3.50 इति 'इक्' आदेशः] → आहन् + इक [<<किति च>> 7.2.118 इति आदिवृद्धिः] → आह् न् + इक [<<नस्तद्धिते>> 6.4.144 इत्यनेन टिलोपे प्राप्ते <<अह्नष्टखोरेव>> 6.4.145 इति ठक्-प्रत्यये परे टिलोपनिषेधः । अतः <<अल्लोपोऽनः>> 6.4.134 इति उपधा-अकारस्य लोपः] → आह्निक स्मर्तव्यम् - वस्तुतः अस्मिन् सूत्रे 'उपधा' इत्यस्य अनुवृत्तिः नास्ति । केवलम् 'अन्नन्तस्य अकारस्य लोपः भवति' इत्येव सूत्रे उच्यते । कुत्र अयमकारः विद्येत, इत्यस्य विषये अत्र अनियमः अस्ति, अतः अत्र <<अलोऽन्त्यस्य>> 1.1.52 अनया परिभाषया 'सर्वेषु अकारेषु अन्तिमः यः अकारः तस्य लोपः करणीयः' इति निर्णयः क्रियते ।
<<अल्लोपोऽनः>> - शसादावचि नुमभावात्प्र-अच् अस् इति स्थिते-अचः । अच इत्यन्चुधातोःअनिदिता॑मिति लुप्तनकारस्य षष्ठन्तम् । भस्येत्यधिकृतम् । 'अल्लोपो नः' इत्यतोऽल्लोप इत्यनुवर्तते । तदाह — लुप्तेति ।
अदिति पृथक् पदं लुप्तविभक्तिकम्, तेन आतो धातोः इत्यादौ केवलस्य लोपशब्दस्व सम्बन्धः । राजकीयमिति । गर्तोतरपदाच्छः इत्यधिकारे राज्ञः कचेति च्छः, ककारश्चान्तादेशः । अत्रैकदेशविकृतस्यानन्यत्वात्प्रसङ्गः ॥