6-4-111 श्न असोः अट् लोपः असिद्धवत् अत्र आभात् क्ङिति सार्वधातुके
श्नसोः सार्वधातुके क्ङिति अल्लोपः
श्नम्-विकरणस्य, 'अस्' धातोः च अङ्गस्य अकारस्य सार्वधातुके कित् / ङित् प्रत्यये परे लोपः भवति ।
The अकार of the 'श्नम्' विकरण and of the verb root 'अस्' is removed when followed by a सार्वधातुक किति / ङित् प्रत्यय.
श्नस्यास्तेश्चाकारस्य लोपो भवति सार्वधातुके क्ङिति परतः। रुन्धः, रुन्धन्ति। भिन्तः, भिन्दन्ति। अस्तेः — स्तः, सन्ति। क्ङितीत्येव — भिनत्ति। अस्ति। श्नसोरित्यकारस्य पररूपत्वं <<शकन्ध्वादिषु०>> (६.१.९४ वा०) द्रष्टव्यम्॥
श्नस्यास्तेश्चाकारस्य लोपः स्यात्सार्वधातुके क्ङिति । स्तः । सन्ति । तासस्त्योः-<{SK2191}> इति सलोपः । असि । स्थः । स्थ । अस्मि । स्वः । स्मः । आर्धधातुके <{SK2432}> इत्यधिकृत्य ॥
श्नस्यास्तेश्चातो लोपः सार्वधातुके क्ङिति। स्तः। सन्ति। असि। स्थः। स्थ। अस्मि। स्वः। स्मः॥
रुधादिगणस्य विकरणप्रत्ययः 'श्नम्', तथा अदादिगणस्य धातुः 'अस्' (भुवि) इत्येययोः अवर्णस्य सार्वधातुके कित्/ङित्-प्रत्यये परे लोपः भवति । यथा - 1. रुध्-धातोः लट्लकारस्य प्रथमपुरुष-द्विवचनस्य प्रक्रिया इयम् - रुध् + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्] → रुध् + तस् [<<तिप्तस्..>> 3.4.78 इति तस्-प्रत्ययः । <<सार्वधातुकमपित्>> 1.2.4 इति तस्-प्रत्ययस्य ङित्-भावः] → रु श्नम् ध् + तस् [<<रुधादिभ्यः श्नम्>> 3.1.78 इति श्नम्] → रु न ध् + तस् [इत्संज्ञालोपः] → रु न् ध् + तस् [<<श्नसोरल्लोपः>> 6.4.111 इति नकारात् परस्य अकारस्य लोपः] → रु न् ध् + धस् [<<झषस्तथोर्धोऽधः>> 8.2.40 इति तकारस्य धकारः] → रु न् ध् + धरुँ [<<ससजुषोः रुँः>> 8.2.66 इति रुँत्वम्] → रु न् ध् + धः [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः] → रुं ध् + धः [<<नश्चापदान्तस्य झलि>> 8.3.24 इति अनुस्वारः] → रुं द् + धः [<<झलां जश् झशि>> 8.4.53 इति धकारस्य दकारः] → रुन् द् + धः [<<अनुस्वारस्य ययि परसवर्णः>> 8.4.58 इति अनुस्वारस्य परसवर्णः नकारः ] → रुन्द्धः, रुन्धः [<<झरो झरि सवर्णे>> 8.4.65 इति वैकल्पिकः दकारलोपः] 2. अस्-धातोः लट्-लकारस्य प्रथमपुरुष-बहुवचनस्य प्रक्रिया इयम् - अस् + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्] → अस् + झि [<<तिप्तस्..>> 3.4.78 इति झि-प्रत्ययः । <<सार्वधातुकमपित्>> 1.2.4 इति झि-प्रत्ययस्य ङित्-भावः] → अस् + शप् + झि [<<कर्तरि शप्>> 3.1.68 इति शप्] → अस् + झि [<<अदिप्रभृतिभ्यः शपः>> 2.4.72 इति शपः लुक्] → स् + झि [<<श्नसोरल्लोपः>> 6.4.111 इति अस्-इत्यस्य अकारस्य सार्वधातुके क्ङिति परे लोपः] → स् + अन्ति [<<झोऽन्तः>> 7.1.3 इति अन्तादेशः] → सन्ति ज्ञातव्यम् - 1. अस्मिन् सूत्रे प्रयुक्तः 'श्नस्' अयम् शब्दः 'श्न + अस्' एवं निर्मितः अस्ति । अत्र <<अकः सवर्णे दीर्घः>> 6.1.101 इत्यनेन वस्तुतः सवर्णदीर्घः विधीयते, परन्तु आचार्येण अत्र पररूपम् कृतमस्ति । अस्य स्पष्टीकरणार्थम् काशिकाकारः वदति - 'श्नसोः इति आकारस्य पररूपत्वं शकन्ध्वादिषु द्रष्टव्यम्' । इत्युक्ते, 'शकन्वाधिगणे अस्य शब्दस्य समावेशः करणीयः, येन इत्यनेन अ + अ = अ इति पररूपम् भवेत् । (<!शकन्ध्वादिषु पररूपं वाच्यम्!> एतत् वार्तिकम् <<एङि पररूपम्>> 6.1.94 अस्मिन् सूत्रे पाठितमस्ति ।) 2. यद्यपि अस्मिन् सूत्रे 'सार्वधातुके' इति अनुवृत्तिः क्रियते, तथापि तस्य आवश्यकता न, यतः आर्धधातुके प्रत्यये परे श्नम्-विकरणमेव न आगच्छति । तथा च, अस्-धातोः आर्धधातुके प्रत्यये परे <<अस्तेर्भूः>> 2.4.52 इत्यनेन भू-आदेशः भवति । अतः आर्धधातुकस्य विषये अस्य सूत्रस्य प्रयोगस्य अवकाशः एव न विद्यते । 3. अत्र 'अत्' इत्यत्र तकारः उच्चारणार्थः अस्ति ।
<<श्नसोरल्लोपः>> - श्नसोरल्लोपः ।अ॑दिति लुप्तष्ठीकं पदम् । श्न अस् अनयोद्र्वन्द्वात्षष्ठीद्विवचनम् । शकन्ध्वादित्वात् पररूपम् । श्नेति श्नम्प्रत्ययैकदेशनिर्देशः । 'अत उत्सार्वधातुके' इत्यतः सार्वधातुके इत्यनुवर्तते,गगमहने॑त्यतः क्ङितीति । तदाह — श्नस्येत्यादिना ।
तपरकरणं किमाटो मा भूत् - आस्ताम्, आसन्, असिद्ध आट् । एवं तर्ह्याभीभीयस्यासिद्धत्वमनित्यमिति ज्ञापनार्थं तपरकरणम् । अथात्र सार्वधातुकाधिकारस्योपयोगः नेत्याह । श्नः सार्वधातुक एव, अस्तेरप्यार्द्धधातुके भूभावेन भाव्यम् । नन्वनुप्रयोगे भूभावो नास्ति - ईहामासुः सत्यम् तत्र द्विर्वचने हलादिशेषे च कृते येननाप्राप्तिन्यायेन अतो गुणे इति पररुपं बाधित्वा अत आदेः इति दीर्घत्वे कृते परस्याकारस्य सण्पि लोपे सिद्धमिष्टम् ॥