असंयोगाल्लिट् कित्

1-2-5 असंयोगात् लिट् कित् अपित्

Sampurna sutra

Up

index: 1.2.5 sutra: असंयोगाल्लिट् कित्


असंयोगात् अपित् लिट् कित्

Neelesh Sanskrit Brief

Up

index: 1.2.5 sutra: असंयोगाल्लिट् कित्


संयोगभिन्नवर्णात् परस्य लिट्-लकारस्य अपित् प्रत्ययः कित्वत् भवति ।

Neelesh English Brief

Up

index: 1.2.5 sutra: असंयोगाल्लिट् कित्


For a verb root that does not end in a संयोग, the अपित् प्रत्यय of लिट्-लकार behaves like a कित् प्रत्यय.

Kashika

Up

index: 1.2.5 sutra: असंयोगाल्लिट् कित्


अपितिति वर्तते । असंयोगान्ताद् धातोः परो लिट् प्रत्ययः अपित् किद् भवति । बिधिदतुः, बिभिदुः ; चिच्छिदतुः, चिच्छिदुः ; ईजतुः, ईजुः । असंयोगादिति किम् ? संस्रसे, दध्वंसे । अपित् इत्येव - बिभेदिथ ॥

Siddhanta Kaumudi

Up

index: 1.2.5 sutra: असंयोगाल्लिट् कित्


असंयोगात्परोऽपिल्लिट्कित्स्यात् । क्ङिति च <{SK2217}> इति निषेधात् सार्वधातुकार्धातुकयोः <{SK2168}> इति गुणो न । द्वित्वात्परत्वाद्यणि प्राप्ते ॥

Laghu Siddhanta Kaumudi

Up

index: 1.2.5 sutra: असंयोगाल्लिट् कित्


असंयोगात्परोऽपिल्लिट् कित् स्यात्। सिषिधतुः। सिषिधुः। सिषेधिथ। सिषिधथुः। सिषिध। सिषेध। सिषिधिव। सिषिधिम। सेधिता। सेधिष्यति। सेधतु। असेधत्। सेधेत्। सिध्यात्। असेधीत्। असेधिष्यत्। एवम् - {$ {! 4 चिती !} संज्ञाने $}॥ {$ {! 5 शुच !} शोके $} {$ {! 6 गद !} व्यक्तायां वाचि $} ॥ गदति॥

Neelesh Sanskrit Detailed

Up

index: 1.2.5 sutra: असंयोगाल्लिट् कित्


यदि धातोः अन्ते संयोगः नास्ति, तर्हि तस्मात् अग्रे विद्यमानाः लिट्-लकारस्य अपित्-प्रत्ययाः कित्वत् भवन्ति ।

कित्वस्य प्रामुख्येन प्रयोजनत्रयम् -

  1. क्ङिति च 1.1.5 इत्यनेन गुणवृद्धिनिषेधः भवति ।

यथा, कृ-धातोः लिट्-लकारस्य आत्मनेपदस्य प्रथमपुरुष-एकवचनस्य रूपम् 'चक्रे' एतादृशम् सिद्ध्यति -

कृ + लिट् [परोक्षे लिट् 3.2.115 इति लिट्]

→ कृ + कृ + ल् [लिटि धातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]

→ कर् + कृ + ल् [उरतः 7.4.66 इति ऋकारस्य अकारादेशः । उरण् रपरः 1.1.51 इति सः रपरः]

→ क + कृ + ल् [हलादि शेषः 7.4.60 इति रेफस्य लोपः]

→ च + कृ + ल् [कुहोश्चुः 7.4.62 इति ककारस्य चकारः]

→ च + कृ + त [तिप्तस्.. 3.4.78 इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य 'त' प्रत्ययः]

→ च + कृ + एश् [लिटस्तझयोरेशिरेच् 3.4.81 इति त-प्रत्ययस्य एश्-आदेशः]

अत्र 'त' इति लिट्लकारस्य प्रत्ययः आर्धधातुकः अस्ति । अतः वस्तुतः सार्वधातुकार्धधातुकयोः 7.3.84 इत्यनेन अङ्गस्य ऋकारस्य अत्र गुणादेशः विधीयते । परन्तु, अत्र 'त' प्रत्ययः अपित्-अस्ति, अतः वर्तमानसूत्रेण सः कित्वत् भवति, अतः क्ङिति च 1.1.5 इत्यनेन गुणनिषेधः भवति । अतः अत्र केवलं यणादेशं कृत्वा रूपं सिद्ध्यति ।

→ चक्रे [इको यणचि 6.1.77 इति यणादेशः]

एवमेव वृत्-धातोः लिट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् ववृते, वृध्-धातोः लिट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् ववृधे - एतादृशानि रूपाणि अपि सिद्ध्यन्ति ।

  1. वचिस्वपियजादीनां किति 6.1.15 इत्यनेन सम्प्रसारणम् विधीयते । यथा, वच्-धातोः लिट्-लकारस्य प्रथमपुरुषद्विवचनस्य रूपम् एतादृशम् सिद्ध्यति -

वच् + लिट् [परोक्षे लिट् 3.2.115 इति लिट्]

→ वच् वच् + लिट् [लिटि धातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]

→ व वच् + लिट् [हलादि शेषः 7.4.60 इति चकारस्य लोपः]

→ व वच् + तस् [तिप्तस्झि... 3.4.78 इति तस् -प्रत्ययः]

→ व वच् + अतुस् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इति तस्-इत्यस्य अतुस्-आदेशः ]

अत्र 'तस्' इति लिट्लकारस्य प्रत्ययः आर्धधातुकः अस्ति । अयम् प्रत्ययः अपित्-अस्ति, अतः वर्तमानसूत्रेण सः कित्वत् भवति, अतः वचिस्वपियजादीनां किति 6.1.15 इत्यनेन सम्प्रसारणम् विधीयते । 1.1.5 इत्यनेन गुणनिषेधः भवति । अतः अत्र केवलं यणादेशं कृत्वा रूपं सिद्ध्यति

→ उ उच् + अतुस् [ वचिस्वपियजादीनां किति 6.1.15 इत्यनेन सम्प्रसारणम्]

→ ऊचतुः [विसर्गनिर्माणम्]

एवमेव यज्-धातोः लिट्-लकारस्य प्रथमपुरुषस्य द्विवचनम् 'ईजतुः' तथा व्यध्-धातोः लिट्-लकारस्य प्रथमपुरुषस्य द्विवचनम् 'विविधतुः' एतादृशानि रूपाणि सिद्ध्यन्ति ।

  1. कित्-प्रत्यये परे अनिदितां हलः उपधायाः क्ङिति 6.4.24 इत्यनेन अनिदित्सु धातुषु नकारलोपः अपि भवति । परन्तु अनिदित्-धातूनां विषये अन्ते संयोगः विद्यते (यथा - मन्थ्, स्रन्स्, ध्वन्स् - आदयः), अतः एतेषां विषये वर्तमानसूत्रस्य प्रसक्तिः नास्ति (स्मर्तव्यम् - वर्तमानसूत्रे 'असंयोगात्' इति उक्तमस्ति) । अत्र एतेषां धातूनाम् विषये लिट्-लकारस्य प्रत्ययाः कित्वत् न भवन्ति । अतः अत्र अनिदितां हलः उपधायाः क्ङिति 6.4.24 इत्यनेन नकारलोपः अपि न विधीयते । यथा, स्रन्स्-धातोः लिट्-लकारस्य आत्मनेपदस्य प्रथमपुरुषैकवचनस्य रूपम् 'सस्रंसे' इति जायते । अत्र नकारलोपः न भवति ।

ज्ञातव्यम् -

  1. तिप्तस्.. 3.4.78 इत्यनेन ये अष्टादश तिङ्-प्रत्ययाः विधीयन्ते तेषु केवलं तिप्/सिप्/मिप्-एते त्रयः प्रत्ययाः पित्-प्रत्ययाः सन्ति । अतः अस्य सूत्रस्य प्रसक्ति एतेषां त्रयाणाम् विषये नास्ति । यथा, कृ-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् 'चकार' इत्यत्र अचो ञ्णिति 7.2.115 इत्यनेन अङ्गस्य वृद्धिं कृत्वा रूपं सिद्ध्यति ।

  2. यद्यपि अनिदित्-धातूनां विषये अस्य सूत्रस्य प्रसक्तिः नास्ति, तथापि ईन्धिभवतिभ्यां च 1.2.6 इत्यनेन ईन्ध्-धातोः विषये लिट्लकारस्य प्रत्ययाः कित्वत् भवन्ति । तथा च, <!अत्रैष्टिः श्रन्थिग्रन्थिदम्भिस्वञ्जीनामिति वक्तव्यम्!> अनेन वार्तिकेन श्रन्थ्, ग्रन्थ्, दम्भ्, स्वञ्ज् - एतेषां विषये अपि लिट्लकारस्य प्रत्ययाः कित्वत् भवन्ति ।

Balamanorama

Up

index: 1.2.5 sutra: असंयोगाल्लिट् कित्


असंयोगाल्लिट् कित् - असंयोगाल्लिट् । अपिदिति । 'सार्वधातुकमपित्' इत्यतस्तदनुवृत्तेरिति भावः । 'सार्वधातुकमपित्' इति ङित्त्वं तु नात्र प्रवर्तते, लिडादेशानामार्धधातुकत्वादिति बोध्यम् । कित्त्वस्य फलमाह — क्ङिति चेति । द्वित्वादिति । कृ ए स्थिते लिटि धातोरिति द्वित्वात्परत्वादिको बोध्यम् । कित्त्वस्य फलमाह — क्ङिति चेति । द्वित्वादिति । कृ ए इति स्थिते लिटि धातोरिति द्वित्वं न स्यादिति भावः ।

Padamanjari

Up

index: 1.2.5 sutra: असंयोगाल्लिट् कित्


लिटाऽऽक्षिप्तो धातुरसंयोगग्रहणेन विशेष्यत इत्याह असंयोगान्ताद्धातोरिति । ननु चात्र पर्युदासत्वमुक्तं प्रतीयते, ततश्च संयोगान्तसदृशाद् हलन्तदेव स्याद्-बिभिदतुः,बिभिदुरित्यादौ; निन्यतुरित्यादौ तु न स्यात् ? ज्ञापकात् सिद्धम्, यदयम् ऽऋतश्च संयोगादेर्गुणःऽ इति सस्मरतुरित्यादौ गुणं विधते, तज्ज्ञापयति-नात्र नञिवयुक्तन्यायो धातुमात्रस्यैव ग्रहणमिति । ङ्त्वे प्रिकृते कित्वातिदेशस्य प्रयोजनम् - ईजनम्, ईजत्ः, ईजुः, यजादीनां कितीति सम्प्रसारणं यथा स्यात्; जजागरतुः, जजागरुः-ऽजाग्रोविचिण्णल्ङ्त्सुऽ ईति गुणो यथा स्यात् । यदि पुनर्गाङ्कुटादिभ्योऽपि कित्वमेवातिदिश्येत ? नैवं शक्यम्; इह हि दोषः स्याद् - ऽणु स्तुतौऽऽधू विधूननेऽ तृच्, नुविदा धुविदा - ऽर्श्युकः कितिऽ इतीट्प्रतिषेधः प्राप्नोति, यथा-लूत्वा, लूनः ? नैष दोषः; पूर्वस्य कार्यतिदेशोऽयमित्युक्तम् । इह तर्हि कुटित्वा, पुटित्वा - ऽन क्त्वा सेट्ऽ इत्यातिदेशिकस्यापि कित्वस्य प्रतिषेधो नातिदेशिकस्य भवतीति, सत्यम्; असति क्त्वाग्रहणे, सति तु तस्मिन् सनः ऽन क्त्वा सेट्ऽ इति निषेधो न लभ्यते इत्यज्ञापकं वक्ष्यते-ऽन क्त्वा सेट्ऽ इति निषेधो नातिदएशिकस्य भवतीति, सत्यम्; असति कत्वाग्रहणे, सति तु तस्मिन् सनः ऽन क्त्वा सेट्ऽ इति निषेधो न लभ्यते इत्यज्ञापकं तत्र ढल्ग्रहणम् । तथा ऽसार्वधातुकमपिद्ऽ इति कित्वातिदेशे जागृतः, जाग्रतीति गुणः स्याद्, ङ्त्वाइतिदेशे त्वविचिण्णल्ङ्त्स्विति पिर्युदासो भवति । ऽऋदुपधेभ्यो लिटः कित्वं गुणात् पूर्वविप्रतिषेधेनऽ । कित्वस्यावकाशः-ऋजतुः, ऋजुः न ह्यत्र विध्यन्तरस्य कस्यचित्प्रसङ्गः; गुणस्यावकाशः - वर्तित्वा,वर्धित्वा; ववृते, ववृधुरित्यत्रोभयप्रसङ्गे कित्वं भवति पूर्वविप्रतिषेधेन । इह तु बिबिदतुः बिभिदुः, नित्यत्वादेव कित्वं सिद्धम्; तद्धि कृतेऽपि गुणे प्राप्नोत्यकृतेऽपि, गुणस्तु कित्वे सति न प्राप्नोति । ववृते इत्यत्र तु गुणे कृते संयोगान्तत्वात् कित्वं न प्राप्नोतीत्युभयमनित्यमिति पूर्वविप्रतिषेध उच्यते । स चायं कार्यातिदेशपक्षे स्फुटमेव वक्तव्यः । तथा हि-अनेनैव कित्कार्यातिदेश ईजतुरित्यादौ यत्र विध्यन्तरस्याप्रसङ्गस्तत्र सम्प्रसारणमितदिश्य चरितार्थमतिदेशं परत्वाद् गुणो बाधेत । शास्त्रातिदेशे वा ऽक्ङिति चऽ इत्येतच्छास्त्रमतिदिश्यते, तच्च यद्यपि गुणस्यापवादभूतम्, तथाप्यन्यत्र चरितार्थत्वाद् दुर्बलेनातिदेशेनातिदिष्टः ऽक्ङिति चऽ इति प्रतिषेधो दुर्बल इति तं बाधित्वा गुणः स्यादेव ॥