6-4-100 घसि भसोः हलि च असिद्धवत् अत्र आभात् अचि उपधायाः लोपः क्ङिति छन्दसि
घसि भस इत्येतयोश्छन्दसि उपधाया लोपो भवति हलादावजादौ च क्ङिति प्रत्यये परतः। सग्धि॑श्च मे॒ सपी॑तिश्च मे (मा०सं० १८.९)। ब॒ब्धां ते॒ हरी॑ धा॒नाः (निरु० ५.१२)। सग्धिरित्यदेः क्ति नि <<बहुलं छन्दसि>> २.४.३९ इति घस्लादेश उपधाया लोपे च कृते <<झलो झलि>> ८.२.२६ इति सकारलोपः। धत्वं तकारस्य, जश्त्वं घकारस्य। ततः समाना ग्धिः सग्धिरिति समासे कृते समानस्य सभावः ६.३.८४। बब्धामिति भसेर्लोटि तामि श्लौ द्विर्वचने कृत उपधालोपसलोपधत्वजश्त्वानि कर्तव्यानि। द्विर्वचनात् परत्वाद् नित्यत्वात् चोपधालोपः प्राप्नोति, छान्दसत्वात् स तथा न क्रियते। अजादौ — बप्सति। क्ङितीत्येव — अं॒शून् ब॑भस्ति (शौ० सं० ६.४९.२)॥
सग्धिश्च मे (सग्धि॑श्च मे) । बब्धां ते हरी धानाः (ब॒ब्धां ते॒ हरी॑ धा॒नाः) । हुझलूभ्यो हेर्धिः <{SK2425}> ॥
सूत्रे चकारस्य पाठोऽनार्षः । तथा च वार्तिकम् - हल्ग्रहणमपरिभाष्यम्, अन्यत्रापि दर्शनात् इति । तथा न क्रियत इति । यदि क्रियेत, अनच्कत्वाद् द्विर्वचनं न स्यादिति भावः । पूर्वत्र अचीत्यधिकारादिह हलीत्युक्तम्, तदुपादानाद् - अचि न स्यादिति चकारेण समुच्चयः । यदि पूर्ववैवाचीत्यनुवर्तते, नैह इत्युच्येत, ततः हलि चेति शक्यमकर्तुम्, उतरार्थ तु तत्क्रतम् ॥