इको यणचि

6-1-77 इकः यण् अचि संहितायाम्

Sampurna sutra

Up

index: 6.1.77 sutra: इको यणचि


इकः यण् अचि संहितायाम्

Neelesh Sanskrit Brief

Up

index: 6.1.77 sutra: इको यणचि


इक्-वर्णस्य स्थाने स्वरे परे संहितायाम् यण्-वर्णादेशः भवति ।

Neelesh English Brief

Up

index: 6.1.77 sutra: इको यणचि


An इक् letter which is followed by a स्वर is converted to a corresponding यण् letter in the context of संहिता.

Kashika

Up

index: 6.1.77 sutra: इको यणचि


अचि परतः इको यणादेशो भवति। दध्यत्र। मध्वत्र। कर्त्रर्थम्। लाकृतिः। इकः प्लुतपूर्वस्य सवर्नदीर्घबाधनार्थं यणादेशो वक्तव्यः। भो3इ इन्द्रम्। भो3यिन्द्रम्। अचि इति च अयमधिकारः संप्रसारणाच् च 6.1.108 इति यावत्।

Siddhanta Kaumudi

Up

index: 6.1.77 sutra: इको यणचि


॥ अथ अच्सन्धिप्रकरणम् ॥

इकः स्थाने यण् स्यादचि संहितायां विषये । सुधी उपास्यः इति स्थिते । स्थानत आन्तर्यादीकारस्य यकारः । सुध्य् उपास्य इति जाते ॥

Laghu Siddhanta Kaumudi

Up

index: 6.1.77 sutra: इको यणचि


इकः स्थाने यण् स्यादचि संहितायां विषये। सुधी उपास्य इति स्थिते॥

Neelesh Sanskrit Detailed

Up

index: 6.1.77 sutra: इको यणचि


इक् = इ, ई, उ, ऊ, ऋ, ॠ, ऌ ।

यण् = य्, व्, र्, ल् ।

अच् = अ, आ, इ, ई, उ, ऊ, ऋ, ॠ, ऌ, ए, ऐ, ओ, औ ।

इक्-वर्णानाम् स्थाने स्वरे परे संहितायाम् यण्-वर्णादेशाः भवन्ति । तत्र स्थानेऽन्तरतमः 1.1.50 इत्यनेन यथोचितम् आदेशाः विधीयन्ते । तद्यथा —

(1) इकार-ईकारयोः स्थाने इचुयशानां तालु इति उच्चारणस्थानसाधर्म्यात् यकारादेशः भवति ।

  • दधि + अत्र → दध् य् + अत्र → दध्यत्र ।
  • नदी + ऊर्ध्वम् → नद् य् + ऊर्ध्वम् → नद्यूर्ध्वम् ।
    (2) उकार-उकारयोः स्थाने _उपूपध्मानीयानाम् ओष्ठौ_ तथा च _वकारस्य दन्तोष्ठम्_ इत्यनयोः 'ओष्ठम्' इति उच्चारणस्थानसाधर्म्यात् यकारादेशः भवति ।
  • मधु + इति → मध् व् + इति → मध्विति ।
  • वधू + आदेश → वध् व् + आदेश → वध्वादेश ।
    (3) ऋकार-ॠकारयोः स्थाने _ऋटुरषाणां मूर्धा_ इति उच्चारणस्थानसाधर्म्यात् रेफादेशः भवति ।
  • पितृ + इच्छा → पित् र् + इच्छा → पित्रिच्छा ।
  • ॠ + अस्य → र् + अस्य → रस्य ।
    (4) ऌकारस्य स्थाने _ऌतुलसानां दन्ताः_ इति उच्चारणस्थानसाधर्म्यात् लकारादेशः भवति ।
  • ऌ + आकृतिः → ऌ + आकृतिः → ल् आकृतिः → लाकृतिः । बाध्यबाधकभावः प्रकृतसूत्रस्य द्वे अपवादसूत्रे स्तः — 1. इक्-वर्णात् परः सवर्णः अच्-वर्णः विद्यते चेत् प्रकृतसूत्रेण उक्तं यणादेशं बाधित्वा _अकः सवर्णे दीर्घः_ 6.1.101 इत्यनेन सवर्णदीर्घादेशः भवति । यथा, नदी + इयम् → नदीयम् इति । 2. यदिः (दीर्घः) ईकारः ऊकारः वा द्विवचनस्य रूपस्य अन्ते विद्यते, तर्हि प्रकृतसूत्रेण उक्तं यणादेशं बाधित्वा _प्लुतप्रगृह्या अचि नित्यम्_ 6.1.125 इत्यनेन प्रकृतिभावः भवति (इत्युक्ते, सन्धिः न भवति) । यथा, वधू + इमे → वधू इमे इति । सवर्णग्रहणम् अस्मिन् सूत्रे 'इक्' तथा 'अच्' एतौ अविधीयमानौ स्तः, अतः एतयोः प्रत्याहारयोः विद्यमानैः वर्णैः सवर्णस्यापि ग्रहणं भवति । इत्युक्ते —
  • 'इक्' इत्यत्र विद्यमानेन इकार-उकार-ऋकारैः दीर्घभेदस्यापि ग्रहणं सम्भवति । अत्र प्लुतस्य अपि ग्रहणं सम्भवति, परन्तु _प्लुतप्रगृह्या अचि नित्यम्_ 6.1.125 इति सूत्रेण प्लुत-वर्णस्य अच्-वर्णे परे प्रकृतिभावः भवति, अतः तत्र सन्धिः नैव सम्भवति ।
  • एवमेव अच्-प्रत्याहारे विद्यमानैः वर्णैः अपि दीर्घभेदस्य ग्रहणं क्रियते । अत्र सवर्णग्रहणेन प्लुतभेदस्यापि ग्रहणं सम्भवति, परन्तु प्लुतसंज्ञा त्रिपादीसूत्रैः एव सिद्ध्यति, अतः _इको यणचि_ 6.1.77 सूत्रेण असिद्धत्वात् तत्र मूलः ह्रस्वस्वरः/दीर्घस्वरः एव दृश्यते । यथासङ्ख्यत्वेन आदेशनिर्णयः अत्र इक् तथा यण् इत्यत्र उभयत्र चत्वारः वर्णाः सन्ति, अतः अत्र _यथासंख्यमनुदेशः समानाम्_ 1.3.10 इत्यनेन अपि आदेशनिर्णयः सम्भवति । अतएव न्यासे पदमञ्जर्यां च — इकां यणां च साम्याद् यथासङ्ख्यं भवति — इति निर्देशः कृतः अस्ति । ##Balamanorama --- index: 6.1.77 sutra: इको यणचि --- _इको यणचि_ - इको यणचि । 'इक' इति षष्ठी । अतःषष्ठी स्थानेयोगे॑ति परिभाषया स्थान इति लभ्यते । स्थानं प्रसङ्ग इत्युक्तम् । वर्णानां वर्णान्तराधिकरणत्वाऽसम्भवात्, अचीति सतिसप्तमी ।तस्मिन्निति निर्दिष्टे पूर्वस्ये॑ति परिभाषाया वर्णान्तराव्यवहितोच्चारितेऽचि सति पूर्वस्येति लभ्यते । एवं चाऽचि परत इत्यर्थलभ्यम् । संहितायामित्यधिकृतम् । ततश्चार्धमात्राधिककालव्यवधानाऽभावो लभ्यते । एवं च फलितमाह-इकः स्थान इत्यादिना । इदं च सूत्राक्षरानुसारिप्राचीनमतानसारेण ।संहिताया॑मिति सूत्रभाष्ये तु सामीपिकात्मकौपश्लेषिकाधिकरणे अचीति सप्तमीं तस्मिन्नित्यनेनाश्रित्य संहिताधिकारः प्रत्याख्यातः । इत्थं हि तत्र भाष्यम् -अयं योगः शक्योऽवक्तुम् । कथम् । अधिकरणं नाम त्रिप्रकारं व्यापकमौपश्लेषिकं वैषयिकमिति । शब्दस्य तु शब्देन कोऽन्योऽभिसंबन्धो भवितुमर्हत्यन्यदत उपश्लेषात् । इको यणचि अच्युपश्लिष्टस्येति । तत्रान्तरेण संहिताग्रहणं संहितायामेव भविष्यती॑ति । उप=समीपे श्लेषः=संबन्धः-उपश्लेषः, तत्कृतमधिकरणमौवश्लेषिकं सामीपिकमिति यावत् । एवं चाऽच्समीपवर्तिन इक इति फलति । सामीप्यं च कालतो वर्णतश्च व्यवधानाऽभावः । एवं चाऽसंहितायामुक्तसामीप्याऽभावादेव यणभावसिद्धेः संहिताधिकारो न कर्तव्य इति भाष्यार्थः । एवं च तुस्यन्यायात्तस्मिन्निति निर्दिष्टे पूर्वस्येत्यत्राप्यौपश्लेषिकाधिकरणे सप्तमी । ततश्चाऽचीत्यादिसप्तम्यन्तार्थेऽकारादावुच्चारिते सामीप्यसम्बन्धेन विद्यमानस्य पूर्वस्य कार्यं स्यादित्यर्थः । फलति । नत्वव्यवहितोच्चारिते इत्यव्यवहितत्वविशेषणमुच्चारिते देयम्, सामीपिकाधिकरणसप्तम्यैव तल्लाभात् । सामीप्यस्य च तत्र कालतो वर्णतश्च व्यवधानाऽभावात्मकत्वात् । एवं च तत्र नैरन्तर्यार्थं निग्र्रहणं न कर्तव्यम् । इदं चस्नुक्रमो॑रिति सूत्रे, 'तत्र च दीयते' इति सूत्रे च कैयटे सपष्टम् । अधिकरणत्रैविध्यं तु कारकाधिकारेआधारोऽधिकरण॑मित्यत्र स्पष्टीकरिष्यते । सुधी इति । ध्यै चिन्तायामिति धातोध्र्यायतेः सम्प्रसारणं चेति क्विपि यकारस्य सम्प्रसारणे इकारे पूर्वरूपे हलश्चेति दीर्घे च धीशब्दः । सुष्ठु ध्यायन्तीति सुधियः । सु=शोभना धीर्येषामिति वा सुधियः । सुधीभि रूपास्य इति विग्रहः ।कर्तृकरणे कृता बहुल॑मिति समासः ।सुपो धातुप्रातिपदिकयो॑रिति भिसो लुक् ।सुधी उपास्य इति स्थिते ईकारस्य यकार इत्यन्वयः । प्रत्याह#आरेषु तद्वाच्यवाच्येषु लक्षणा नाज्झलाविति सूत्रे प्रपञ्चिता । तत्स्फोरणाय ईकार उदाहृतः । ननु ईकारस्य वरलाः कुतो न स्युः, यण्त्वाऽविशेषांदित्यत आह-स्थानत आन्तर्यादिति । तालुस्थानकत्वसाम्यादीकारस्य स्थाने स्थानेऽन्तरतम इति यकार एव भवति; न तु वरलाः, भिन्नस्थानकत्वादित्यर्थः । अत एवयथासंख्यमनुदेशः समाना॑मिति सूत्रे भाष्यं-किमिहोदाहरणम् । इको यणचि । दध्यत्र । मध्वत्र । नैतदस्ति । स्थानेऽन्तरतमेनाप्येतत्सिद्ध॑मिति । 'स्थानेऽन्तरतम' इति सूत्रभाष्ये तुकिमिहोदाहरणम् । इको यणचि । दध्यत्र नैतदस्ति । संख्यातानुदेशेनाप्येतत्सिद्ध॑मित्युक्तम् । यथासंख्यसूत्रेणेत्यर्थः । नन्विह यण्शब्देन निरनुनासिका यवला रेफश्चेति चत्वारो गृह्यन्ते, यणो भाव्यमानतया तेन सवर्णानां ग्रहणाऽभावात् । गुणानामभेदकत्वेऽपि यवलाः षट् रेफश्चेति सप्त गृह्यन्ते । इक्शब्देन तु षट्षष्टिर्गृह्रत इति विषमसंख्याकत्वात्कथमिह यथासंख्यसूत्रप्रवृत्तिरिति चेन्न, इक्त्वयण्त्वादिनाऽनुगतीकृतानां समत्वात् । ननु ऋलवर्णाभ्यां प्रत्येकं तिंरशदुपस्थितौ लृवर्णानां रेफादेशस्य ऋवर्णानां लादेशस्य च प्रसङ्ग इति न यथासंख्यसूत्रेण निर्वाह इति चेत्, शृणु-ऋत्वावच्छिन्नस्य रेफो भवति, लृत्त्वावच्छिन्नस्य लकारो भवतीति यथासंख्यसूत्राल्लभ्यते । ऋत्वजातिश्च न लृवर्णेषु । लृत्वजातिश्च न ऋवर्णेषु । ऋलृवर्णयोः सावण्र्यविधिबलात्तु ऋत्वम् लृकारे, लृत्वमृकारे च आरोप्यते कार्यार्थम् । एवं च वास्तवमृत्वं लृत्वं च आदायात्र यथासंख्यप्रवृत्तिर्निर्बाधेत्यास्तां तावत् । ##Padamanjari --- index: 6.1.77 sutra: इको यणचि --- इको यणादेशो भवतीति। इकां यणां च साम्याद्यथासंख्यं भवति, आन्तर्यतो वा व्यवस्था। इक इति किम्? व्यञ्जनस्य मा भूत् -वाग्रत्र। कुत्वजश्तवयोरसिद्धत्वाच्छकारस्य यकारः प्राप्नोति। यत्र च कुत्वादेरप्रसङ्गोऽपदान्ते पचतीति, तत्रापि प्रसङ्गः? नैष दोषः;'दीर्घात्' इति वर्तेते, तच्च तत्रैव पञ्चमीनिर्द्देशेऽपि स्थानिबूतमिहापि तथैवानुवर्तते। यदि दीर्घस्य यण् भवति, कथं दध्यत्र मध्वत्रेति,'ह्रस्वस्य' इत्येतदप्यनुवर्तते, तदेवं ह्रस्वदीर्घयोर्यण्विधानान्न व्यञ्जनस्य प्रसङ्ग ? प्लुतस्य च प्रकृतिभावेन भवितव्यम्, चयनम्, चायक इत्यादावेचामयादयोऽपवादाः, नाप्राप्ते तस्मिंस्तदारम्भात् ? देवेन्द्रः, खट्वौदनमित्यादौ गुणवृद्धी बाधिके भविष्यतः, यथा -सत्यपीग्ग्रहणे दधीन्द्रादौ सवर्ण दीर्घत्वम्, अतो नार्थ हग्ग्रहणेन ? इदं तर्हि प्रयोजनम् -इको यणेवाचि यथा स्याद्, यद्यदन्यत्प्राप्नोति तन्मा भूदिति। किञ्चान्यत् प्राप्नोति ? शाकल्म्। न च तस्याप्यत्यन्तबाधः; आरम्भसामर्थ्यात्। एवं सति सिन्नित्यसमासयोः शाकलप्रतिषेध इति यत्पूर्वाचार्यैः स्मर्यते तदनेनेग्ग्रहणेन सम्पाद्यते। इकः प्लुतपूर्वस्येति। प्लुतः पूर्वो यस्मात्स तथोक्तः, प्लुतात्परस्येत्यर्थः। भो 3 इ इन्द्रेति। भो अ इ अ इन्द्र इति स्थिते भोशब्दस्य गीतिवशात् प्लुतः, इकारः स्वरादिपाठान्निपात प्रगृह्यसंज्ञकः, तस्य प्रकृतिभावे प्राप्ते यण्विधीयते, सवर्णदीर्घबाधनार्थमित्येतत्वाद्यप्राप्त्यभिप्रायेणोक्तम्। प्लुतपूर्वस्येति। प्लुतग्रहणमपि मात्रिकद्विमात्रिकव्यतिरिक्ताच्परिग्रहार्थम्, तेन चतुर्मात्रादावपि भवति, तथा च च्छन्दोगा गायन्ति, सामन्येव चायमिष्यते, भोयिन्द्रं गायतीत्येतदपि सामगस्यानुकरणम्। एवं तावद्भाष्ये स्थितम्, वृतावप्येवमेव द्रष्टव्यम् ॥