झरो झरि सवर्णे

8-4-65 झरः झरि सवर्णे पूर्वत्र असिद्धम् संहितायाम् ययि परसवर्णः अन्यतरस्याम् हलः लोपः

Sampurna sutra

Up

हलः झरः सवर्णे झरि अन्यतरस्याम् लोपः

Neelesh Sanskrit Brief

Up

हलः परस्य झर्-वर्णस्य सवर्णे झर्-वर्णे परे विकल्पेन लोपः भवति ।

Neelesh English Brief

Up

A झर् letter coming after an हल् letter is optionally deleted if it is followed by a सवर्ण झर् letter.

Kashika

Up

हल इति वर्तते, अन्यतरस्यामिति च। हल उत्तरस्य झरो झरि सवर्णे परतो लोपो भवत्यन्यतरस्याम्। प्रत्तम् अवत्तमित्यत्र त्रयस्तकाराः, क्रमजश्चतुर्थः। तत्र मध्यमस्य मध्यमयोर्वा लोपो भवति। मरुत्त्त्त इत्यत्र चत्वारस्तकाराः, क्रमजः पञ्चमः। तत्र मध्यमस्य मध्यमयोर्मध्यमानां वा लोपो भवति। मरुच्छब्दस्य ह्युपसंख्यानसामर्थ्यात् (१.४.५९ वा०) <<अच उपसर्गात् तः>> ७.४.४७ इति तत्वं भवति। झर इति किम्? शार्ङ्गम्। झरीति किम्? प्रियपञ्च्ञा। अल्लोपस्य च <<पूर्वत्रासिद्धे न स्थानिवत्>> (महाभाष्य १.१५४) इति स्थानिवद्भावप्रतिषेधादत्र चकारस्य ञकारे लोपः स्यात्। सवर्ण इति किम् ? तर्प्ता । तर्प्तुम्। तर्प्तव्यम्। सवर्णग्रहणसामर्थ्यादिह संख्यातानुदेशो न भवति, सवर्णमात्रे लोपो विज्ञायते। तेन शिण्ढि पिण्ढि इति ढकारे डकारस्य लोपो भवति॥

Siddhanta Kaumudi

Up

हलः परस्य झरो लोपो वा स्यात्सवर्णे झरि । द्वित्वाभावे लोपे सत्येकधम् । असति लोपे द्वित्वलोपयोर्वा द्विधम् । सति द्वित्वे लोपे चासति त्रिधम् । कृष्णर्धिः । कृष्णर्द्धिः । कृष्णर्द्द्धिः । यण इति पञ्चमी मय इति षष्ठीति पक्षे ककारस्य द्वित्वम् । लस्य तु अनचि च <{SK48}> इति । तेन तवल्कार इत्यत्र रूपचतुष्टयम् ॥ द्वित्वं लस्यैव कस्यैव नोभयोरुभयोरपि । तवल्कारादिषु बुधैर्बोध्यं रूपचतुष्टयम् ॥

Laghu Siddhanta Kaumudi

Up

हलः परस्य झरो वा लोपः सवर्णे झरि॥

Neelesh Sanskrit Detailed

Up

हल् = सर्वाणि व्यञ्जनानि । झर् = वर्गप्रथमाः, वर्गद्वितीयाः, वर्गतृतीयाः, वर्गचतुर्थाः, शकारः, षकारः, सकारः । हल्-वर्णात् परस्य झर्-वर्णस्य सवर्णे झर्-वर्णे परे प्रकृतसूत्रेण विकल्पेन लोपः भवति । कानिचन उदाहरणानि एतानि — 1. प्र-उपसर्गपूर्वकस्य दा-धातोः क्त-प्रत्यये कृते प्रत्त इति रूपम् इत्थं सिद्ध्यति — डुदाञ् (दाने, जुहोत्यादिः, <{3.10}>) → प्र + दा + क्त [प्र-उपसर्गपूर्वकात् दा-धातोः <<निष्ठा>> 3.2.102 इति सूत्रेण क्त-प्रत्ययः] → प्र + द् त् + त [<<अच उपसर्गात्तः>> 7.4.47 इत्यनेन दा-धातोः आकारस्य तकारः] → प्र + त् त् + त [<<खरि च>> 8.4.55 इति दकारस्य चर्त्वे तकारः] → प्र + त् + त [हल्-वर्णात् (तकारात्) परस्य झर्-वर्णस्य (तकारस्य) सवर्णे झर्-वर्णे परे (तकारे परे) <<झरो झरि सवर्णे>> 8.4.65 विकल्पेन लोपः भवति ] → प्रत्त 2. पिष्-धातोः लोट्लकारस्य मध्यमपुरुषैकवचनस्य पिण्ढि इति रूपस्य सिद्धौ प्रकृतसूत्रेण डकारस्य लोपः भवति — पिषॢँ (सञ्चूर्णने, हिंसायां च, रुधादिः, <{7.15}>) → पिष् + लोट् [<<लोट् च>> 3.3.162 इति लोट्-लकारः] → पिष् + सिप् [मध्यमपुरुषैकवचनस्य विवक्षायाम् <<तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्>> 3.4.78 इत्यनेन सिप्-प्रत्ययः] → पिष् + हि [<<सेर्ह्यपिच्च>> 3.4.87 इति अपित् हि-आदेशः। अपित्त्वात् <<सार्वधातुकमपित्>> 1.2.4 इत्यनेन अयं ङिद्वद् भवति ।] → पिष् + धि [<<हुझल्भ्यो हेर्धिः>> 6.4.101 इति हि-प्रत्ययस्य धि-आदेशः] → पि श्नम् ष् + धि [<<रुधादिभ्यः श्नम्>> 3.1.78 इति श्नम्-विकरणम् → पि न ष् + धि [शकारमकारयोः इत्संज्ञा, लोपः] → पि न् ष् + धि [<<श्नसोरल्लोपः>> 6.4.111 इत्यनेन सार्वधातुके ङित्-प्रत्यये परे नकारोत्तरस्य अकारस्य लोपः] → पिं ष् + धि [<<नश्चापदान्तस्य झलि>> 8.3.24 इति नकारस्य अनुस्वारः] → पिं ष् + ढि [<<ष्टुना ष्टुः>> 8.4.41 इति धकारस्य ष्टुत्वे ढकारः] → पिं ड् + ढि [<<झलां जश् झशि>> 8.4.53 इति षकारस्य डकारः] → पिण्ड् + ढि [<<अनुस्वारस्य ययि परसवर्णः>> 8.4.58 इति अनुस्वारस्य परसवर्णः णकारः] → पिण्ढि [<<झरो झरि सवर्णे>> 8.4.65 इति डकारस्य सवर्णे ढकारे परे विकल्पेन लोपः] 3. कृत्तिका-शब्दात् अण्-प्रत्यये कृते कार्तिक इति रूपस्य सिद्धौ प्रकृतसूत्रेण तकारस्य लोपः भवति — कृत्तिकया युक्तः कालः [तद्धितवृत्तिः] → कृत्तिका + अण् [<<नक्षत्रेण युक्तः कालः>> 4.2.3 इत्यस्मिन् अर्थे <<प्राग्दीव्यतोऽण्>> 4.1.83 इति अण्-प्रत्ययः] → कृत्तिका + अ [णकारस्य इत्संज्ञा, लोपः] → कार्त्तिका + अ [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → कार्त्तिक् + अ [<<यस्येति च>> 6.4.148 इति आकारलोपः] → कार्तिक् + अ [<<झरो झरि सवर्णे>> 8.4.65 इति प्रथमतकारस्य विकल्पेन लोपः] → कार्तिक 4. कृष्ण + ऋद्धि → कृष्णर्धि इत्यत्र दकारस्य लोपः प्रकृतसूत्रेण भवति — कृष्णस्य ऋद्धिः [<<षष्ठी>> 2.2.8 इति षष्ठीतत्पुरुषः] → कृष्ण ऋद्धि [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुँलोपः] → कृष्णर्द्धि [<<आद्गुणः>> 6.1.87 इति अकार-ऋकारयोः गुणैकादेशः अकारः, सः च <<उरण् रपरः>> 1.1.51 इति रपरः ] → कृष्णर्धि [रेफात् परस्य दकारस्य धकारे परे <<झरो झरि सवर्णे>> 8.4.65 इति विकल्पेन लोपः] 5. उद् + स्तम्भनम् → उत्तम्भनम् इत्यत्र थकारस्य प्रकृतसूत्रेण लोपः भवति — उद् + स्तम्भनम् → उत् + स्तम्भनम् [<<खरि च>> 8.4.55 इति चर्त्वम्] → उत् + थ्तम्भनम् [<<उदः स्थास्तम्भोः पूर्वस्य>> 8.4.61 इति सकारस्य थकारः] → उत्तम्भनम् [<<झरो झरि सवर्णे>> 8.4.65 इत्यनेन थकारस्य विकल्पेन लोपः]

Balamanorama

Up

<<झरो झरि सवर्णे>> - झरो झरि सवर्णे ।झयोहोऽन्यतरस्या॑मित्यतोऽन्यतरस्यामित्यनुवर्तते ।हलो यमा॑मित्यतो 'हल' इति, 'लोप' इति चानुवर्तते । तदाह — हलः परस्येत्यादिना । तदिह रूपत्रयं संपन्नमित्याह-द्वित्वाभाव इत्यादिना । रेफात्परस्य ऋधिति धात्वन्तस्य धकारस्यअचो रहाभ्या॑मिति द्वित्वाऽभावे सतिझरो झरी॑ति लोपे च सति एकधकारं रूपमित्यर्थः । असतीति । 'द्वित्वाऽभावे' इत्यनुकृष्यते । तस्यैव ऋधेर्धकारस्य द्वित्वाऽभावे लोपे चा.ञसति द्विधकारं रूपम् । तथा तस्यैव ऋधेर्धकारस्य द्वित्वे लोपे च सति द्विधकारमेव रूपमित्यर्थः । सतीति । तस्यैव ऋधेर्धकारस्य द्वित्वे सति लोपे च असति त्रिधकारं रूपमित्यर्थः । यद्यपि द्विधपक्षे प्रथमधकारस्य त्रिधपक्षे मध्यमधकारस्य चझलाञ्जश् झशी॑ति जश्त्वेन दकारो भवति । तथापि प्रक्रियाभिप्रायेण भूतपूर्वगत्या वा द्विधत्वं त्रिधत्वं चेति न दोषः । अथ तवल्कार इत्यत्राह यण इति । यणः परस्य मयो द्वित्वमिति व्याख्याने ककारस्य द्वित्वं, लकारस्य त्वनचि चेति द्वित्वमित्यर्थः । तेनेति लकारककारयोर्द्वित्वविकल्पेनेत्यर्थः । द्वित्वं लस्यैवेति । लकारस्य द्वित्वे ककारस्य द्वित्वाऽभावे च सति द्विलकारमेकककारं च प्रथमं रूपमित्यर्थः । नोभयोरिति । लकारककारयोरुभयोरपि द्वित्वाऽभावे एकलकारमेकककारं तृतीयं रूपमित्यर्थः । उभयोरपीति । लककारयोरुभयोरपि द्वित्वे द्विलकारं द्विककारं चतुर्थं रूपमित्यर्थः । तवल्कारादिष्विति । आदिना ममल्कारादिङ्ग्रहः ।

Padamanjari

Up

त्रयस्तकारा इति । ठच उपसर्गातःऽ इत्याकारस्य तकारः, तकारस्यापि चर्त्वं तकारः; एकः प्रत्ययसम्बन्धी, ठनचि चऽ इति द्विर्वचने क्रमजश्चतुर्थः । चत्वारस्तकारा इति । पूर्वोक्तास्त्रयः, चतुर्थो रुच्छब्दसम्बन्धी, पञ्चमो द्विर्वचनेन सम्पादितः । मरुच्छब्दस्योपसंख्यानसामर्थ्यादिति । एतच्च'मरुच्छब्दस्योपसंख्यानम्' इत्यत्रैव प्रतिपादितम् । शार्ङ्गिन्निति । भवत्ययं ङ्कारो हलः परः झरि सवर्णे परतः, न त्वयं झरिति न लुप्यते । प्रिययञ्च्ञेति । प्रियाः पञ्चास्येति बहुव्रीहिः,'वा प्रियस्य' इति प्रियशब्दपूर्वनिपातस्तृतीयैकवचनम्, अल्लोपः, नकारस्य श्चुत्वम् - ञकारः । भवत्ययं चकारो हलः परः स्वयं च झर् सवर्णे च परतः, न तु ञकारो झरिति न लुप्यते । ननु चाल्लोपस्य स्थानिवत्वादनन्तरो न भवति सवर्णः, तत्किमेतन्निवृत्यर्थेन'झरि' इत्यनेन ? इत्यत आह - अल्लोपस्येति । तर्प्तेति ।'तृप प्रीणने' , पकारस्य तकारः स्थानेभेदात्सवर्णो न भवति । ननु च निमितानां कायिणां च संख्यासामान्यादिह संख्यातानुदेशे सति नैव तप्तेत्यत्र लोपः प्राप्नोति, तत्किमेतन्निवृत्यर्थेन सवर्णग्रहणेन ? अत आह - सवर्णग्रहणसामर्थ्यादिति । न हि यथासंख्येऽसवर्णे झरस्ति, यद्व्यावृत्यर्थं सवर्णग्रहणं स्यात् । शिण्ढि, पिण्ढैइति ।'शिष्लृ विशेषणे' ,'पिष्लृ सञ्चूर्णने' - रुधादी, लोट्, सेर्हिः,'श्नसोरल्लोपः' , हेर्धिः,'झलां जश् झशि' इति षकारस्य डकारः,'नश्चापदान्तस्य झलि' इत्यनुस्वारः, तस्य परसवर्णो णकारः, धकारस्य ष्टुअत्वम् - ढकारः, अनेन डकारस्य ढकारे लोपः ॥