7-4-62 कुहोः चुः अभ्यासस्य
अभ्यासस्य कुहोः चुः ।
अभ्यासस्य कवर्गीयवर्णस्य हकारस्य च चवर्गीयवर्णादेशः भवति ।
The कवर्गीय letter and the हकार of an अभ्यास are converted to an appropriate चवर्गीय letter.
अभ्यासस्य कवर्गहकारयोः चवर्गादेशो भवति। चकार। चखान। जगाम। जघान। हकारस्य जहार। जिहीर्षति। जहौ।
अभ्यासकवर्गहकारयोश्चवर्गादेशः स्यात् । एधांचक्रे । एधांचक्राते । एधांचक्रिरे ॥
अभ्यासकवर्गहकारयोश्चवर्गादेशः॥
अभ्यासे यदि कवर्गीयः वर्णः अस्ति, उत हकारः अस्ति, तर्हि तस्य आन्तरतम्यः चवर्गीयवर्णादेशः भवति । कवर्गीयवर्णस्य विषये तु यथासङ्ख्यमादेशाः भवन्ति - ककारस्य चकारः, खकारस्य छकारः, गकारस्य जकारः, घकारस्य झकारः, ङकारस्य ञकारः । हकारस्य तु तादृशः ए संवार-नाद-घोष-महाप्राणः झकारः भवति । यथा - 1. कृ-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - कृ-धातोः लिट्-लकारस्य परस्मैपदस्य उत्तमपुरुषैकवचनस्य प्रक्रिया - कृ + लिट् [<<परोक्षे लिट्>> 3.2.115 इति लिट्] → कृ कृ + लिट् [<<लिटि धातोरनभ्यासस्य>> 6.1.8 इति द्वित्वम्] → कर् कृ + लिट् [<<उरत्>> 7.4.66 इति ऋकारान्त-अभ्यासस्य ऋकारस्य अकारः । <<उरण् रपरः>> 1.1.51 इति सः रपरः] → क कृ + लिट् [<<हलादि शेषः>> 7.4.60 इति रेफलोपः] → च कृ + लिट् [<<कुहोश्चुः>> 7.4.62 इति ककारस्य चकारः] → च कृ + मिप् [<<तिप्तस्झि...>> 3.4.78 इति मिप्-प्रत्ययः] → च कृ णल् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> 3.4.82 इति मिप्-इत्यस्य णल्-आदेशः] → च कार् अ / च कर् अ [<<णलुत्तमो वा>> 7.1.91 इति वैकल्पिकम् णित्वम् । णित्वे <<अचो ञ्णिति>> 7.2.116 इति ऋकारस्य वृद्धिः कारः । णित्वाभावे <<सार्वधातुकार्धधातुकयोः>> 7.3.85 इति ऋकारस्य गुणः अकारः । उभयत्र <<उरण् रपरः>> 1.1.51 इति रेफः] → चकार 2. जुहोत्यादिगणस्य 'हा' धातोः लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् हा + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्] → हा + तिप् [<<तिप्तस्..>> 3.4.78 इति तिप्] → हा + शप् + ति [<<कर्तरि शप्>> 3.1.68 इति शप्] → हा + ति [<<जुहोत्यादिभ्यः श्लुः>> 2.4.75 इति श्लुः] → हा हा + ति [<<श्लौ>> 6.4.10 इति द्वित्वम्] → ह हा + ति [<<ह्रस्वः>> 7.4.59 इति ह्रस्वः] → झ हा + ति [<<कुहोश्चुः>> 7.4.62 इत्यनेन संवार-नाद-घोष-महाप्राण-हकारस्य तादृशः एव चवर्गीयः झकारः] → जहाति [<<अभ्यासे चर्च्च>> 8.4.54 इति जश्त्वम्]
<<कुहोश्चुः>> - एवं च — कृ कृ ए इति स्थिते — कुहोश्चुः । कु ह् इत्यनयोद्र्वन्द्वात्षष्ठीद्विचवनम् ।अत्र लोपोऽभ्यासस्ये॑त्यतोऽभ्यासस्येत्यनुवर्तते । तदाह — अभ्यासेति । यद्यपि स्थानिनां कवर्गीयाणां हकारस्य च षट्त्वात्, चवर्गीयाणां पञ्चत्वान्न यथासङ्ख्यं, नापि स्थानत आन्तर्यं, कण्ठतालुस्थानभेदात् । आभ्यन्तरप्रयत्नसाम्यं तु कवर्गचवर्गयोरविशिष्टम् । हकारचवर्गयोस्तु नास्त्येव तत्, अतो बाह्रप्रयत्नत एवान्तर्यमिह व्यवस्थापकमाश्रयणीयम् । तत्र प्रथमस्य कवर्गीयस्य पर्थम एव चवर्गीयो भवति, अघोषआआसविवाराऽल्पप्राणप्रयत्नसाम्यात्, न तु द्वितीयः, महाप्राणत्वात् । नापि तृतीय पञ्चमौ, घोषसंवारनादप्रयत्नत्वात् । नापि चतुर्थः,घोषसंवारनादमहाप्राणप्रयत्नत्वात् । तथा द्वितीयस्य कवर्गीयस्य द्वितीय एव चवर्गीयो भवति, अघोषआआसविवाराऽप्रामप्रयत्नत्वात्, न तु प्रथमः, अल्पप्राणत्वात् । नापि तृतीयपञ्चमौ, घोषसंवारनादाल्पप्राणप्रयत्नत्वात् । नापि चतुर्थःष घोषसंवारनादप्रयत्नत्वात् । तथा तृतीयस्य कवर्गीयस्य तृतीय एव चवर्गीयो भवति । घोषसंवारनादाल्पप्राणप्रयत्नत्वात् । न तु प्रथमः, अघोषआआसविवारप्रयत्नत्वात् । अत एव न द्वितीयोऽपि, महाप्रामप्रयत्नत्वाच्च । नापि चतुर्थः महाप्राणत्वात् । नापि पञ्चमः, घोषसंवारनादाल्प्राणसाम्येऽपि अनुनासिकतया भेदात् । तथा चतुर्थस्य कवर्गीयस्य चतुर्थ एव चवर्गीयो भवति, घोषसंवारनादमहाप्राणप्रयत्नत्वात् । न तु प्रथमः, अघोषआआसविवाराल्पप्राणप्रयत्नत्वात् । नापि द्वितीयः, अघोषविवारआआसप्रयत्नत्वात् । नापि तृतीयपञ्चमौ, अल्पप्राणत्वात् । पञ्चमस्य तु कवर्गीयस्य अनुनासिकत्वाञ्ञकार एव । हकारस्य तु घोषसंवारनादमहाप्राणवतस्तादृशो वर्गचतुर्थ एव झकार इति विवेकः । प्रकृते तु क कृ ए इति स्थिते अभ्यासककारस्य चकारे ऋकारस्य यणि रेफः । तदाह — एधांचक्र इति । एककर्तृका भूतानद्यतनपरोक्षा वृद्धिरूपा कियेत्यर्थ- । एधांचक्राते इति । कृञो लिट आतामि टेरेत्वम् ।द्वर्वचनेऽची॑ति यणि निषिद्धे 'कृ' इत्यस्य द्वित्वे उरदत्वम् । हलादिः शेषः । चर्त्वम् । यण् । न च आतामित्यस्य द्वित्वनिमित्तत्वेऽपि आकारस्याऽचो द्वित्वनिमित्तत्वाऽभावात्कथमिहद्वर्वचनेऽची॑ति यण्निषेध इति वाच्यं, साक्षाद्वा, समुदायघटकतया वा द्वित्वप्रयोजकस्यैव द्वित्वनिमित्तशब्देन विवक्षितत्वादिति भावः । एधांचक्रिर इति । झस्य इरेच् । कृ इत्यस्य द्वित्वादि पूर्ववत् ।
चखानेति । खकारस्य च्छकारः, तस्य ठभ्यासे चर्च्चऽ इति चकारः । जघासेति । घकारस्य झकारः, तस्य जश्तवम् - जकारः । जिहीर्षतीति । ठिको झल्ऽ इति सनः कित्वम्, हकारस्यापि झकारः, तस्य जश्त्वम् ॥