हलादिः शेषः

7-4-60 हलादिः शेषः अभ्यासस्य

Sampurna sutra

Up

अभ्यासस्य आदिः हल् शेषः

Neelesh Sanskrit Brief

Up

अभ्यासस्य केवलं प्रथमस्थाने विद्यमानः हल्-वर्णः अवशिष्यते, अन्यानि हल्-वर्णानि लुप्यन्ते ।

Neelesh English Brief

Up

Only the first हल् letter from अभ्यास is retained, rest all हल् letters are removed.

Kashika

Up

अभ्यासस्य हलादिः शिष्यते, अनादिर्लुप्यते। जग्लौ। मम्लौ। पपाच। पपाठ। आट, आटतुः, आटुः। आदिशेषनिमित्तोऽयमनादेर्लोपो विधीयते, तत्र अभ्यासजातेः आश्रयणात् क्वचिदपि वर्तमानो हलादिः अनदेः सर्वत्र निवृत्तिं करोति। अपरे तु ब्रुवते, शेषशब्दोऽयं निवृत्त्या विशिष्टमवस्थानमाह। तदवस्थानमुक्तितो यद्यपि प्रधानम्, अविधेयत्वात् तु तदप्रधानम्। निवृत्तिरेव तु विधेयत्वात् प्रधानम्। तत्र अयमर्थोऽस्य जायते, अभ्यासस्य अनादेर्हलो निवृत्तिः भवतीति। सा किम् इति आदेरविधेयां सतीमनिवृत्तिमपेक्षिष्यते इति।

Siddhanta Kaumudi

Up

अभ्यासस्यादिर्हल् शिष्यते अन्ये हलो लुप्यन्ते । इति वलोपः ॥

Laghu Siddhanta Kaumudi

Up

अभ्यासस्यादिर्हल् शिष्यते अन्ये हलो लुप्यन्ते। इति वलोपः॥

Neelesh Sanskrit Detailed

Up

द्वित्वप्रकरणे द्वित्वे कृते द्वयोः यः प्रथमः तस्य <<पूर्वोभ्यासः>> 6.1.4 इत्यनेन 'अभ्यास' संज्ञा भवति । अस्य अभ्यासस्य केवलं प्रथम-स्थाने विद्यमानम् व्यञ्जनम् अवशिष्यते, अन्यानि सर्वाणि व्यञ्जनानि लुप्यन्ते - इति अनेन सूत्रेण स्पष्टीभवति । अनेन सूत्रेण अच्-वर्णस्य लोपः न भवतीति स्मर्तव्यम् । केवलं हल्-वर्णस्यैव लोपः भवति । तत्रापि प्रथमस्थाने स्थितस्य हल्-वर्णस्य लोपः न भवति । (यदि अभ्यासस्य प्रथमस्थाने अच्-वर्णः अस्ति तर्हि अभ्यासस्य सर्वेषाम् हल्-वर्णानाम् लोपः भवति )। यथा, पच्-धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रियायाम् - पच् + लिट् [<<परोक्षे लिट्>> 3.2.115 इति लिट्] → पच् पच् + लिट् [<<लिटि धातोरनभ्यासस्य>> 6.1.8 इति द्वित्वम् । द्वित्वे कृते प्रथमः यः 'पच्' शब्दः, तस्य अभ्याससंज्ञा भवति ।] → प पच् + लिट् [<<हलादि शेषः>> 7.4.60 इत्यनेन केवलं पकारः अवशिष्यते । चकारस्य लोपः भवति ।] → प पच् + तिप् [<<तिप्तस्झि...>> 3.4.78 इति तिप्-प्रत्ययः] → प पच् णल् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> 3.4.82 इति तिप्-इत्यस्य णल्-आदेशः] → प पाच् + अ [<<अत उपधायाः>> 7.2.116 इति अङ्गस्य उपधा-अकारस्य वृद्धिः आकारः] → पपाच एतत् स्मर्तव्यम् यत् यदि धातोः प्रथमवर्णः व्यञ्जनम् नास्ति, तर्हि तस्यापि लोपः भवति । यथा, 'अद्' धातोः द्वित्वे कृते 'अद् अद्' इति स्थिते वर्तमानसूत्रेण 'अ अद्' इत्येव अवशिष्यते । अत्र दकारस्य लोपः भवति, यतः दकारः प्रथमस्थाने विद्यमानः नास्ति । अन्यानि कानिचन उदाहरणानि - 1. 'वन्द्' इत्यस्य द्वित्वे कृते 'वन्द् वन्द्' इति प्राप्ते <<हलादि शेषः>> 7.4.60 इत्यनेन अभ्यासस्य केवलं प्रथमः हल्-वर्णः अवशिष्यते, अतः 'व वन्द्' इति जायते । अच्-वर्णाः तु सर्वे अवशिष्यन्ते इति स्मर्तव्यम् । 2. 'ध्यै' धातोः <<आदेच उपदेशेऽशिति>> 6.4.145 इति आकारादेशं कृत्वा 'ध्या' इति प्राप्ते, तस्य द्वित्वे कृते, 'ध्या ध्या' इति जाते, वर्तमानसूत्रेण अभ्यासस्य केवलं प्रथमम् व्यञ्जनम् (धकारः) अवशिष्यते, अतः 'धा ध्या' इति जायते । 3. 'क्षाल्' इत्यस्य द्वित्वे 'क्षाल् क्षाल्' इत्यत्र वर्तमानसूत्रेण अभ्यासस्य केवलं प्रथमम् व्यञ्जनम् (ककारः) अवशिष्यते, अतः 'का क्षाल्' इति जायते ।

Balamanorama

Up

<<हलादिः शेषः>> - हलादिः शेषः ।अत्र लोपोऽभ्यासस्ये॑त्यस्मादभ्यासस्येत्यनुवर्तते । शिष्यत इति शेषः, कर्मणि घञ् । शिषधातुरितरनिवृत्तिपूर्वकाविस्थितौ । तदाह — अभ्यासस्येत्यादिना । इति वलोप इति । भूव् भूव् इत्यत्र अभ्यासवकारस्य लोप इत्यर्थः ।

Padamanjari

Up