अनचि च
8-4-47 अनचि च पूर्वत्र असिद्धम् संहितायाम् यरः अचः द्वे
Sampurna sutra
Up
अचः यरः अनचि द्वे वा संहितायाम्
Neelesh Sanskrit Brief
Up
अच्-वर्णात् परः यः यर्-वर्णः, तस्मात् अनन्तरम् अच्-वर्णः नास्ति चेत् तस्य यर्-वर्णस्य विकल्पेन द्वित्वं भवति ।
Neelesh English Brief
Up
The यर् letter that follows an अच् letter but is not followed by an अच् letter is optionally duplicated.
Kashika
Up
अच इति वर्तते, यर इति च । अनच्परस्य अच उत्तरस्य यरो द्वे भवतः। दद्ध्यत्र। मद्ध्वत्र। अच इत्येव — स्मितम्। ध्मातम्॥ यणो मयो द्वे भवत इति वक्तव्यम्॥ केचिदत्र यण इति पञ्चमी मय इति षष्ठीति व्याचक्षते। तेषामुल्क्का, वल्म्मीक इत्युदाहरणम्। अपरे तु यण इति षष्ठी मय इति पञ्चमीति। तेषां दध्य्यत्र, मध्व्वत्रेत्युदाहरणम्॥ शरः खयो द्वे भवत इति वक्तव्यम्॥ अत्रापि यदि शर इति पञ्चमी खय इति षष्ठी, तदा स्त्थाली स्त्थातेत्युदाहरणम्। अथवा खय उत्तरस्य शरो द्वे भवतः। वत्स्सः। इक्ष्षुः। क्ष्षीरम्। अप्स्सराः॥ अवसाने च यरो द्वे भवत इति वक्तव्यम्॥ वाक्क्, वाक्। त्वक्क्, त्वक्। षट्ट्, षट्। तत्त्, तत्॥
Siddhanta Kaumudi
Up
अचः परस्य यरो द्वे वा स्तो न त्वचि । इति धकारस्य द्वित्वम् ॥
Laghu Siddhanta Kaumudi
Up
अचः परस्य यरो द्वे वा स्तो न त्वचि। इति धकारस्य द्वित्वेन सुध्ध्य् उपास्य इति जाते॥
Neelesh Sanskrit Detailed
Up
यर् = हकारं विहाय सर्वाणि व्यञ्जनानि ।
स्वरात् परस्य यर्-वर्णस्य विकल्पेन द्वित्वं भवति, परन्तु अग्रे पुनः स्वरः अस्ति चेत् न भवति — इति प्रकृतसूत्रस्य आशयः । यथा —
1) कृष्णः → कृष्ष्णः, कृष्णः । इत्यत्र ऋकारात् परः यर्-वर्णः षकारः अस्ति । तस्मात् परः स्वरः नास्ति, अतः षकारस्य प्रकृतसूत्रेण वैकल्पिकं द्वित्वं विधीयते ।
2) मत्यत्र → मत्त्यत्र, मत्यत्र । अकारात् परः तकारः, तस्मात् परः च अच्-वर्णः नास्ति । अतः तकारस्य प्रकृतसूत्रेण वैकल्पिकं द्वित्वं विधीयते ।
3) कृष्णस्य → कृष्ष्णस्स्य, कृष्ष्णस्य, कृष्णस्स्य, कृष्णस्य । अत्र षकारस्य तथा सकारस्य - उभयोः विकल्पेन द्वित्वं सम्भवति, अतः आहत्य चत्वारि रूपाणि सिद्ध्यन्ति ।
3) रामात् → रामात्त्, रामात् । आकारात् परः तकारः, तस्मात् परः अच्-वर्णः नास्ति । अतः तकारस्य प्रकृतसूत्रेण वैकल्पिकं द्वित्वं विधीयते ।
यद्यपि यर्-प्रत्याहारे रेफः अपि समाविष्टः अस्ति, तथापि <<अचो रहाभ्यां द्वे>> 8.4.46 इति सूत्रेण रेफात् परस्य यर्-वर्णस्य द्वित्वं भवति, अतः प्रकृतसूत्रेण रेफस्य द्वित्वं नैव सम्भवति । यथा, सूर्य इत्यत्र अच्-वर्णात् परः रेफः विद्यते, तस्मात् परः अच्-वर्णः अपि नास्ति, तथापि अत्र प्रकृतसूत्रस्य प्रयोगः न भवति, अपि तु <<अचो रहाभ्यां द्वे>> 8.4.46 इत्यनेन यकारस्यैव द्वित्वं कृत्वा सूर्य्य इति जायते ।
द्वित्वम् इत्युक्ते एकस्य वर्णस्य स्थाने तस्यैव द्विवारम् उच्चारणम् । एतादृशे द्वित्वे कृते तत्र मूलवर्णः कः / नूतनवर्णः कः — एतादृशम् नैव प्रष्टुं शक्यते । द्वित्व is a process where one letter is replaced by its two copies. Both the occurrences are considered identical in all respects, and it is not possible to treat one of these two as 'original' and other as a 'copy'.
दलकृत्यम्
1. यरः इति किमर्थम् ? हकारस्य अनेन सूत्रेण द्वित्वं न भवति । यथा, ब्रह्मा इत्यत्र विद्यमानस्य हकारस्य प्रकृतसूत्रेण द्वित्वं न सम्भवति ।
2. अचः इति किमर्थम् ?यः यर्-वर्णः अच्-वर्णात् परः नास्ति, तस्य अनेन सूत्रेण द्वित्वं न सम्भवति । यथा, स्मितम् इत्यत्र सकारः अच्-वर्णात् परः नास्ति, अतः प्रकृतसूत्रेण तस्य द्वित्वं न भवति । एवमेव वाग्ग्म्यत्रअस्मिन् शब्दे मकारस्य द्वित्वं न भवति ।
3. अनचि इति किमर्थम् ? अच्-वर्णे परे यर्-वर्णस्य प्रकृतसूत्रेण द्वित्वं न भवति । यथा, देव इति शब्दे एकारात् परस्य वकारस्य द्वित्वं न भवति यतः अत्रे अकारः (अच्-वर्णः) विद्यते ।
'अनचि' इति प्रसज्यप्रतिषेधः
प्रकृतसूत्रे प्रयुक्ते अनचि इति शब्दे विद्यमानः निषेधः प्रसज्यप्रतिषेधः अस्ति, न हि पर्युदासः । इत्युक्ते, अत्र नकारस्य अन्वयः क्रियया सह भवति, न हि अचि शब्देन सह । इत्युक्ते, अचः परस्य यरः द्वे स्तः, अचि न स्तः इति अत्र अर्थविधानं क्रियते । इत्यक्ते, यर्-वर्णात् परः कोऽपि वर्णः नास्ति चेदपि प्रकृतसूत्रेण द्वित्वम् अवश्यम् सम्भवति । अतएव रामात् इत्यत्र तकारात् परस्य अच्-वर्णस्य अभावात् प्रकृतसूत्रेण अत्र अवश्यं द्वित्वं विधीयते, येन रामात्त् इति अपि रूपं सिद्ध्यति ।
वार्त्तिकानि
द्वित्वस्य सन्दर्भे काशिकायाम् अत्र त्रीणि वार्त्तिकानि पाठितानि सन्ति । तेषाम् विवरणम् एतादृशम् —
1) <!यणो मयो द्वे वाच्ये!> ।
यण् = य्, व्, र्, ल् । मय् = ञकारं विहाय सर्वाणि वर्गीयव्यञ्जनानि । आहत्य 24 वर्णाः ।
अस्य वार्त्तिकस्य द्वयोः प्रकारयोः अर्थविधानं क्रियते —
अ) यणः इति पञ्चमी, मयः इति षष्ठी इति स्वीकृत्य - यण्-वर्णात् परस्य मय्-वर्णस्य विकल्पेन द्वित्वं भवति । यथा, वाल्मीकि → वाल्म्मीकि, वाल्मीकि । अत्र यकारात् (यण्-वर्णात्) परस्य मकारस्य (मय्-वर्णस्य) विकल्पेन द्वित्वम् भवति ।
आ) यणः इति षष्ठी , मयः इति पञ्चमी इति स्वीकृत्य - मय्-वर्णात् परस्य यण्-वर्णस्य विकल्पेन द्वित्वं भवति । यथा - दध्यत्र → दध्य्यत्र, दध्यत्र । अत्र धकारात् (मय्-वर्णात्) परस्य यकारस्य (यण्-वर्णस्य) विकल्पेन द्वित्वम् भवति ।
2) <!शरः खयो द्वे वाच्ये!> ।
शर् = श् ष् स् । खय् = वर्गप्रथमाः + वर्गद्वितीयाः । आहत्य 10 वर्णाः ।
अस्य वार्त्तिकस्य अपि द्वयोः प्रकारयोः अर्थविधानं क्रियते —
अ) शरः इति पञ्चमी, खयः इति षष्ठी इति स्वीकृत्य - शर्-वर्णात् परस्य खय्-वर्णस्य विकल्पेन द्वित्वं भवति । यथा - स्थाता → स्थ्थाता, स्थाता । अत्र सकारात् (शर्-वर्णात्) परस्य थकारस्य (खय्-वर्णस्य) विकल्पेन द्वित्वम् भवति ।
आ) शरः इति षष्ठी , खयः इति पञ्चमी इति स्वीकृत्य - खय्-वर्णात् परस्य शर्-वर्णस्य विकल्पेन द्वित्वं भवति । यथा - अप्सरा → अप्स्सरा, अप्सरा । अत्र पकारात् (खय्-वर्णात्) परस्य सकारस्य (शर्-वर्णस्य) विकल्पेन द्वित्वम् भवति ।
3) <! अवसाने च !> - अवसाने परे हल्-वर्णस्य विकल्पेन द्वित्वम् भवति । यथा - रामात्, रामात्त् । वस्तुतस्तु इदं वार्त्तिकम् नैव आवश्यकम्, यतः प्रकृतसूत्रे अनचि इत्यत्र विद्यमानः निषेधः प्रसज्यप्रतिषेधरूपेण स्वीक्रियते ।
लक्ष्ये लक्षणम् सकृदेव प्रवर्तते
कृष्णः-इति शब्दे प्रकृतसूत्रेण द्वित्वे कृते कृष्ष्णः इति सिद्धे, ततः पुनः षकारस्य प्रकृतसूत्रेण द्वित्वं क्रियते चेत्, पुनः पुनः द्वित्वम् एव भवेत् इति दोषः उद्भवति । अस्य परिहारार्थम् <<लक्ष्ये लक्षणम् सकृदेव प्रवर्तते>> अस्याः परिभाषायाः प्रयोगः क्रियते । लक्ष्यम् इत्युक्ते सूत्रप्रयोगस्य स्थानम् । लक्षणम् इत्युक्ते सूत्रम् । सकृतम् इत्युक्ते एकवारम् । अतः अनया परिभाषया एतत् ज्ञायते, यत् एकस्मिन् स्थले कस्यचन सूत्रस्य एकवारमेव प्रयोगः भवितुम् अर्हति । अतः <<अनचि च>> 8.4.46 इत्यनेन एकवारं द्वित्वं क्रियते चेत् तस्मिन् एव स्थाने अनेन सूत्रेण पुनः द्वित्वं न भवति । अतः कृष्ष्णः-इत्यत्र पुनः षकारस्य द्वित्वं नैव करणीयम् । परन्तु प्रकृतसूत्रेण अपरस्मिन् स्थाने तु अवश्यं द्वित्वम् भवितुम् अर्हति । अतएव कृष्णस्य इति शब्दे षकारस्य द्वित्वे कृते, पुनः सकारस्य अपि द्वित्वम् अवश्यम् सम्भवति ।
Balamanorama
Up
<<खरि च>> - केनेत्यत आह — खरि च ।झलाञ्जश्झशी॑त्यतो झलामिति ,अभ्यासे चर्चे॑त्यतश्चरिति चानुवर्तते । तदाह — खरि पर इत्यादिना । इति जकारस्येति । स्थानत आन्तंक्यादिति भावः । ततः छत्वं नतु प्रागुत्यपि बोध्यम् । छत्वस्य चुत्वचर्त्वे प्रत्यसिद्धत्वात् । हलो यमामिति सूत्रस्थभाष्यसंमतसूत्रक्रमे तु चुत्वेन जकारे कृते शस्य छत्वं ततो जकारस्य चर्त्वम् । नतु छत्वात् प्राक् चर्त्वम्, चर्त्वं प्रतिछत्वस्याऽसिद्धत्वात् । तच्छिव इति । स चासौ शिवश्चेति, तस्य शिव इति वा विग्रहः ।चोः कृ॑रिति कुत्वं तु न, श्चुत्वस्याऽसिद्धत्वात् । छत्वममीति ।शश्छोऽटी॑ति सूत्रेऽटीति विहाय अमीति वक्तव्यमित्यर्थः ।शश्छोऽमी॑ति सूत्रं पठनीयमिति यावत् । तच् श्लोकेनेति । स चासौ श्लोकश्च,तस्य श्लोक इति वा विग्रहः । लकारस्य अड्बहिर्भूतत्वात्तत्परकस्य शकारस्य सूत्रपाठतः छत्वे अप्राप्ते वार्तिकमिदम् । वाक्श्च्योततीति । अत्र तु कुत्वं भवत्येव, चकारस्य स्वाभाविकतया श्चुत्वनिष्पन्नत्वाऽभावेन असिद्धत्वाभावात् । अत्र चकारस्य अम्बर्हिर्भूतत्वात्तत्परकशकारस्यात्र न छत्वम् ।
Padamanjari
Up
अनच्परस्येति । अचोऽन्योऽनच्, स परो यस्मात्सोऽनच्परः । अनेन पर्युदासो दशितः, किं प्रयोजनम् ? न किञ्चित्, प्रत्युत दोष एव, अवसाने न सिध्यति - वाक्क, अच्सदृशस्य वर्णान्तरस्याभावात्, प्रतिपतिगौरवप्रसङ्गात्पर्युदास आश्रितः । पक्षान्तरे हि विशेषप्रतिषेधात् सामान्येन विधिरनुमेयः स्यादिति गौरवम् । उल्क्का, वल्म्मीक इति । लकारो यण्, ककारमकारौ यमौ । स्त्थालीति सकारः शर, थकारः खय् । वत्स्सादिषु तकारककारपकाराः खयः, सकारषकारौ शरौ । अवसाने इति । पर्युदासाश्रयणादिदमारब्धम् । प्रसज्यप्रतिषेधे तु परस्य निमितस्यानाश्रयणाद्'वा' इत्यधिकारात्सिद्धम् ॥