3-1-32 सनाद्यन्ताः धातवः प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः
index: 3.1.32 sutra: सनाद्यन्ता धातवः
सनाद्यन्ताः धातवः
index: 3.1.32 sutra: सनाद्यन्ता धातवः
सनादिप्रत्ययान्तशब्दाः धातुसंज्ञकाः भवन्ति ।
index: 3.1.32 sutra: सनाद्यन्ता धातवः
The words ending in a सनादि प्रत्यय are called 'धातु'.
index: 3.1.32 sutra: सनाद्यन्ता धातवः
सनादिर्येषां ते सनादयः। सनादयोऽन्ते येषं ते सनाद्यन्ताः। सनाद्यन्ताः समुदायाः धातुसंज्ञाः भवन्ति। प्रत्ययग्रहणपरिभाषा एव पदसंज्ञायामन्तवचनेन लिङ्गेन प्रतिषिद्धा सती पुनरिह अन्तवचनेन प्रतिप्रसूयते। चिकीर्षति। पुत्रीयति। पुत्रकाम्यति।
index: 3.1.32 sutra: सनाद्यन्ता धातवः
सनादयः कमेर्णिङन्ताः प्रत्यया अन्ते येषां ते धातुसंज्ञाः स्युः । धातुत्वाल्लडादयः । गोपायति ॥
index: 3.1.32 sutra: सनाद्यन्ता धातवः
सनादयः कमेर्णिङन्ताः प्रत्यया अन्ते येषां ते धातुसंज्ञकाः। धातुत्वाल्लडादयः। गोपायति॥
index: 3.1.32 sutra: सनाद्यन्ता धातवः
व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति धातु: इति संज्ञा । धातुपाठे परिगणितानां प्रायेण 2000 शब्दानां इयं संज्ञा भूवादयो धातवः 1.3.1 इत्यनेन सूत्रेण दीयते । परन्तु एतान् विहाय संस्कृते अन्ये अपि शब्दाः धातुरूपेण प्रयुक्ताः दृश्यन्ते । यथा, 'असूय', 'सत्याप', 'जुगुप्स' एत्येते भिन्नाः शब्दाः संस्कृते धातुसंज्ञकाः एव सन्ति । एते सर्वे शब्दाः भिन्नेभ्यः धातुभ्यः, प्रातिपदिकेभ्यः च 'सनादिः' इत्याख्यान् प्रत्ययान् योजयित्वा सिद्ध्यन्ति । एतादृशानाम् सर्वेषाम् शब्दानाम् परिगणनम् धातुपाठे नैव सम्भवति, अतः एतेषाम् धातुसंज्ञां विधातुम् पाणिनिना प्रकृतसूत्रम् निर्मितम् अस्ति । ये शब्दाः सनादि-प्रत्ययान्ताः सन्ति, तेषाम् धातुसंज्ञा भवति — इति प्रकृतसूत्रस्य अर्थः । एते एव धातवः आतिदेशिकधातवः नाम्ना अपि ज्ञायन्ते ।
सनादिप्रत्ययाः — अष्टाध्याय्याम् गुप्तिज्किद्भ्यः सन् 3.1.5 इत्यतः कमेर्णिङ् 3.1.30 इति यावद्भिः सूत्रेः आहत्य द्वादश प्रत्ययाः पाठ्यन्ते । एतेषु प्रत्ययेषु प्रथमः प्रत्ययः सन् इति अस्ति, अतः एतेषां सर्वेषाम् सनादिप्रत्ययाः इति अपि नाम दीयते । एतेभ्यः केचन प्रत्ययाः प्रातिपदिकेभ्यः विधीयन्ते, केचन अन्ये च धातुभ्यः विधीयन्ते । परन्तु एतेषाम् सर्वेषाम् योजनेन नित्यम् सनाद्यन्ता धातवः 3.1.32 इति प्रकृतसूत्रम् अनुसृत्य धातुनिर्माणम् एव भवति । एतेषाम् द्वादशानाम् प्रत्ययानाम् प्रत्येकम् एकम् उदाहरणम् अधः दीयते । सूत्राणाम् विस्तरः तु तत्तत्स्थले एव द्रष्टव्यः ।
सन्-प्रत्ययः गुप्तिज्किद्भ्यः सन् 3.1.5, मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य 3.1.6 तथा च धातोः कर्मणः समानकर्तृकादिच्छायां वा 3.1.7 इति त्रिभिः सूत्रैः पाठ्यते । अयं प्रत्ययः केवलम् धातुभ्यः एव विधीयते । अस्य योजनेन धातूनाम् एव निर्माणं भवति । यथा —
गुपँ (निन्दायाम्, भ्वादिः, <{1.1125}>)
→ गुप् + सन् [गुप्तिज्किद्भ्यः सन् 3.1.5 इति स्वार्थे सन्-प्रत्ययः]
→ गुप् गुप् + स [सन्यङोः 6.1.9 इति द्वित्वम्]
→ गु गुप् + स [हलादिः शेषः 7.4.60 इति अभ्यासस्य हलादिः शिष्यते ।]
→ जुगुप्स [कुहोश्चुः 7.4.62 इति अभ्यासस्य चुत्वम् । सनाद्यन्ता धातवः 3.1.32 इति धातुसंज्ञा ।]
अनेन प्रकारेण
सुप आत्मनः क्यच् 3.1.8, उपमानादाचारे 3.1.10 तथा च नमोवरिवश्चित्रङः क्यच् 3.1.19 इत्येतैः त्रिभिः सूत्रैः क्यच्-प्रत्ययः विधीयते । अयं प्रत्ययः केवलम् प्रातिपदिकेभ्यः एव विधीयते । अस्य योजनेन धातूनाम् निर्माणं भवति । यथा —
आत्मनः पुत्रम् इच्छति
= पुत्र + क्यच् [सुप आत्मनः क्यच् 3.1.8 इति क्यच्]
→ पुत्री + य [क्यचि च 7.4.33 इति ईकारादेशः]
→ पुत्रीय [सनाद्यन्ता धातवः 3.1.32 इति धातुसंज्ञा ।]
अनेन प्रकारेण
काम्यच्च 3.1.9 इति सूत्रेण काम्यच्-प्रत्ययः विधीयते । अयं प्रत्ययः केवलम् प्रातिपदिकेभ्यः एव विधीयते । अस्य योजनेन धातूनाम् निर्माणं भवति । यथा —
आत्मनः पुत्रम् इच्छति
= पुत्र + काम्यच् [काम्यच्च 3.1.9 इति काम्यच्]
→ पुत्रकाम्य [सनाद्यन्ता धातवः 3.1.32 इति धातुसंज्ञा ।]
→ पुत्रीय
अनेन प्रकारेण
कर्तुः क्यङ् सलोपश्च 3.1.11, भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः 3.1.12, कष्टाय क्रमणे 3.1.14, कर्मणो रोमन्थतपोभ्यां वर्तिचरोः 3.1.15, बाष्पोष्मभ्यामुद्वमने 3.1.16, शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे 3.1.17 तथा च सुखादिभ्यः कर्तृवेदनायाम् 3.1.18 इत्येतैः सूत्रैः विधीयते । अयं प्रत्ययः केवलम् प्रातिपदिकेभ्यः एव विधीयते । अस्य योजनेन धातूनाम् निर्माणं भवति । उदाहरणम् एतादृशम् —
श्येनः इव आचरति
→ श्येन + क्यङ् [कर्तुः क्यङ् सलोपश्च 3.1.11 इति क्यङ्]
→ श्येना + य [अकृत्सार्वधातुकयोर्दीर्घः 7.4.25 इति दीर्घः]
→ श्येनाय [सनाद्यन्ता धातवः 3.1.32 इति धातुसंज्ञा ।]
अनेन प्रकारेण
लोहितादिडाज्भ्यः क्यष् 3.1.13 इत्यनेन विहितः क्यष्-प्रत्ययः विशिष्टेभ्यः प्रातिपदिकेभ्यः एव विधीयते । अस्य प्रयोगेण धातूनाम् निर्माणं भवति । उदाहरणम् एतादृशम् —
लोहितः भवति
→ लोहित + क्यष् [लोहितादिडाज्भ्यः क्यष् 3.1.13 इति क्यष्]
→ लोहिता + य [अकृत्सार्वधातुकयोर्दीर्घः 7.4.25 इति दीर्घः]
→ लोहिताय [सनाद्यन्ता धातवः 3.1.32 इति धातुसंज्ञा ।]
अनेन प्रकारेण
पुच्छभाण्डचीवराण्णिङ् 3.1.20 इत्यनेन त्रिभ्यः प्रातिपदिकेभ्यः णिङ्-प्रत्ययः भवति । कमेर्णिङ् 3.1.30 इत्यनेन
भाण्डानि समाचिनोति (राशीकरोति / एकत्रीकरोति इत्यर्थः)
→ भाण्ड + णिङ् [पुच्छभाण्डचीवराण्णिङ् 3.1.20 इति णिङ्-प्रत्ययः]
→ भाण्ड + इ [णकारङकारयोः इत्संज्ञा, लोपः]
→ भाण्ड् + इ [णेरनिटि 6.4.51 इति अकारलोपः]
→ भाण्डि [सनाद्यन्ता धातवः 3.1.32 इति धातुसंज्ञा ।]
अनेन प्रकारेण
मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच् 3.1.21, सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् 3.1.25, हेतुमति च 3.1.26 इत्येतैः त्रिभिः सूत्रैः, तथा च <!प्रातिपदिकात् धात्वर्थे बहुलमिष्ठवच्च!> इत्येतेन वार्त्तिकेन प्रायेण सर्वेभ्यः धातुभ्यः, प्रातिपदिकेभ्यः च णिच्-प्रत्ययः भवति । अस्य योजनेन नित्यम् धातूनाम् एव निर्माणं भवति । उदाहरणम् एतादृशम् —
पठँ (व्यक्तायां वाचि, भ्वादिः, <{1.381}>)
→ पठ् + णिच् [हेतुमति च 3.1.26 इति णिच्]
→ पठ् + इ [णकारचकारयोः इत्संज्ञा, लोपः]
→ पाठ् + इ [अत इञ् 4.1.95 इति उपधावृद्धिः]
→ पाठि [सनाद्यन्ता धातवः 3.1.32 इति धातुसंज्ञा ।]
अनेन प्रकारेण
धातोरेकाचो हलादेः क्रियासमभिहारे यङ् 3.1.22, नित्यं कौटिल्ये गतौ 3.1.23, तथा च लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम् 3.1.24 इत्येतैः त्रिभिः सूत्रैः भिन्नेभ्यः धातुभ्यः यङ्-प्रत्ययः भवति । अस्य योजनेन नित्यम् धातूनाम् एव निर्माणं भवति । उदाहरणम् एतादृशम् —
पुनः पुनः पचति
→ पच् + यङ् [धातोरेकाचो हलादेः क्रियासमभिहारे यङ् 3.1.22 इति यङ्]
→ पच् पच् + य [सन्यङोः 6.1.9 इति द्वित्वम्]
→ प पच् + य [हलादिः शेषः 7.4.60 इति अभ्यासस्य हलादिः शिष्यते]
→ पा पच् + य [दीर्घोऽकितः 7.4.83 इति अभ्यासस्य दीर्घः]
→ पापच्य [सनाद्यन्ता धातवः 3.1.32 इति धातुसंज्ञा ।]
अनेन प्रकारेण
कण्ड्वादिभ्यो यक् 3.1.27 इति सूत्रेण विशिष्टेभ्यः धातुभ्यः यङ्-प्रत्ययः भवति । अस्य योजनेन नित्यम् धातूनाम् एव निर्माणं भवति । उदाहरणम् एतादृशम् —
कण्डूञ् (गात्रविघर्षणे, कण्ड्वादिगणस्य धातुः, धातुपाठे नैव विद्यते ।)
→ कण्डू + यक् [कण्ड्वादिभ्यो यक् 3.1.27 इति स्वार्थे यक्]
→ कण्डूय [सनाद्यन्ता धातवः 3.1.32 इति धातुसंज्ञा ।]
अनेन प्रकारेण
गुपूधूपविच्छिपणिपनिभ्य आयः 3.1.28 इति सूत्रेण विशिष्टेभ्यः धातुभ्यः स्वार्थे आय-प्रत्ययः भवति । अस्य योजनेन नूतनधातूनाम् निर्माणं भवति । उदाहरणम् एतादृशम् —
गुपूँ (रक्षणे, भ्वादिः, <{1.461}>)
→ गुप् + आय [गुपूधूपविच्छिपणिपनिभ्य आयः 3.1.28]
→ गोप् + आय [सार्वधातुकार्धधातुकयोः 7.3.84 इति गुणः]
→ गोपाय [सनाद्यन्ता धातवः 3.1.32 इति धातुसंज्ञा ।]
अनेन प्रकारेण
ऋतेरीयङ् 3.1.29 इति सूत्रेण
ऋति (जुगुप्सायां कृपायां च । <{1.1166}> इत्यत्र निर्दिष्टः अयं धातुः वस्तुतः सौत्रः अस्ति, यतः पाणिनेः मूलधातुपाठे अयं न दृश्यते ।)
→ ऋत् + ईयङ् [ऋतेरीयङ् 3.1.29 इति ईयङ्-प्रत्ययः]
→ ऋतीय [सनाद्यन्ता धातवः 3.1.32 इति धातुसंज्ञा ।]
अनेन प्रकारेण
<!सर्वप्रातिपदिकेभ्यो क्विब्वा वक्तव्यः!> इति वार्तिकेन क्विप्-प्रत्ययः सर्वेभ्यः प्रातिपदिकेभ्यः विधीयते । अस्य योजनेन नित्यम् धातूनाम् एव निर्माणं भवति । उदाहरणम् इत्थम् —
क्लीबः इव आचरति
→ क्लीब + क्विप्
→ क्लीब + व् [ककारपकारयोः इत्संज्ञा, लोपः । वकारोत्तरः अकारः उच्चारणार्थः, तस्य अपि लोपः भवति ।]
→ क्लीब [वेरपृक्तस्य 6.1.67 इति अपृक्त-वकारस्य लोपः ।सनाद्यन्ता धातवः 3.1.32 इति धातुसंज्ञा ।]
अनेन प्रकारेण
यदि अस्मिन् सूत्रे
index: 3.1.32 sutra: सनाद्यन्ता धातवः
सनाद्यन्ता धातवः - नन्वायप्रत्ययान्तस्य भ्वादिषु पाठाऽभावेन धातुत्वाऽभावात् कथमस्माल्लडादय इत्यत आह — सनाद्यन्ताः ।गुप्तिज्किद्भ्यः स॑नित्यारभ्यकमेर्णि॑ङित्यन्तैः सूत्रैः सनादिप्रत्ययान्विधाय सूत्रमिदं पठितम् । सन् आदिर्येषां ते सनादयो णिङ्प्रत्ययपर्यन्ताः, ते अन्ते येषां ते सनाद्यन्ता इति विग्रहः । तदाह -सनादयः इति ।सन्क्यच्काम्यच्क्यङ्क्यषोऽथाचारक्विब्णिज्यङौ तथा । यगाय ईयङ् णिङ् चेति द्वादशाऽमी सनादयः॑ इति । सङग्रहः । संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणप्रतिषेधादिह तदन्तग्रहणम् । धातुत्वादिति । आयप्रत्यान्तस्येत्यर्थः । गोपायतीति । शपि 'अतो गणे' इति पररूपम् ।
index: 3.1.32 sutra: सनाद्यन्ता धातवः
सनाद्यन्ता धातवः॥ सनादयोऽन्ते येषामिति। अन्तशब्दः समीपवचनः, वैयधिकरण्येऽपि गमकत्वाद्वहुव्रीहिः। अथ वा - वृतावर्थमात्रं दर्शितम्, सूत्रे त्ववयववाचिनोऽन्तशब्दस्य समानाधिकरणस्यैव बहुव्रीहिः। सनादयोऽन्तावयवा येषां समुदायानामित्यनेन तद्गुणसंविज्ञानो बहुव्रीहिरिति दर्शयति। धातुसंज्ञा इति। धातुशब्दोऽत्र स्वरूपपदार्थः, न भूवादिपदार्थकः; तावतीनां संज्ञानां विधाने प्रयोजनाभावात्।'सुप्तिङ्न्तम्' इत्यत्रान्तग्रहणज्ञापिता संज्ञाविधौ प्रत्ययग्रहणे प्रत्ययग्रहणपरिभाषा न प्रवर्तत इति, ततश्चासत्यन्तग्रहणे तदन्तविधिर्न स्यादित्यत्रान्तग्रहणं कृतम्। एवं स्थिते यद्यपूर्व एवानेन तदन्तविधिः क्रियते, ततो देवदतश्चिकीर्षतीत्यत्र देवदतादेः समुदायस्य संज्ञा प्रसज्येतेति मत्वाह - प्रत्ययग्रहणपरिभाषैवेत्यादि। अपूर्वविधौ गौरवम्, प्रतिप्रसवे तु यत्नस्य लाघवं भवतीति भावः।'भूवादयः' इत्यस्यानन्तरं सनाद्यान्ताश्चेत्युच्यमाने सनादीनामियतापरिच्छेदो न स्यात्। एवं तर्हि'सङ्न्ताश्च' इत्युच्यताम्, सङिति प्रत्याहारः सनः सशब्दारभ्या णिङे ङ्कारात्। एवमपि सन्देहस्स्यात्, चङदिष्वपि ङ्कारस्य भावात्। एवं तर्हि'सनाद्यन्ताः' इत्यस्यानन्तरम्'भूवादयश्च' इति वक्तव्यम्। स्यादेतत् - एवमुच्यमाने सनाद्यन्तशब्दवद् भूवादिशब्दोऽपि प्रकृतापेक्षः स्याततश्चानुक्रान्तानां गुपादीनामेव स्यादिति? एवमपि भूवादिग्रहणमनर्थकं गुपादयश्चेति वक्तव्यम्। नानर्थकम्; भुवो वादयो भूवादय इत्येवमर्थमेव स्याद्। भूवादिपाठ इदानीं किमर्थः स्याद् ? अन्तर्गणकार्यार्थः, अनुबन्धासञ्जनार्थश्च। येषां तर्हि तदुभयं न संभवति भूरणिप्रभृतीनां तेषां पाठः किमर्थः? अलमतिनिर्बन्धेन॥