लिटि धातोरनभ्यासस्य

6-1-8 लिटि धातोः अनभ्यासस्य एकाचः द्वे प्रथमस्य अजादेः द्वितीयस्य

Sampurna sutra

Up

लिटि धातोः अनभ्यासस्य एकाचः प्रथमस्य, अजादेः द्वितीयस्य द्वे

Neelesh Sanskrit Brief

Up

लिट्-लकारे परे यस्य धातोः द्वित्वम् न कृतमस्ति तस्य द्वित्वं भवति ।

Neelesh English Brief

Up

When followed by a प्रत्यय of लिट् लकार, a verb root that have not yet undergone द्वित्वम् undergoes द्वित्वम्.

Kashika

Up

लिटि परतोऽनभ्यासस्य धातोरवयवस्य प्रथमस्यैकाचो द्वितीयस्य वा यथायोगं द्वे भवतः। पपाच। पपाठ प्रोर्णुनाव। <<वाच्य ऊर्णोर्णुवद्भावः०>> (का० ३.१.३६) इति वचनाद् ऊर्णोतेः <<इजादेः०>> ३.१.३६ इत्याम् न भवति। लिटीति किम् ? कर्ता। हर्ता। धातोरिति किम् ? सस॒वांसो॒ विशृ॑ण्विरे (ऋ० ४.८.६)। इ॒म इन्द्रा॑य सुन्विरे॒ (ऋ० ७.३२.४)। अनभ्यासस्येति किम् ? कृ॒ष्णो नो॑नाव वृष॒भो यदी॒दम् (ऋ० १.७९.२)। नोनूयतेर्नोनाव। समा॒न्या म॒रुतः॒ संमि॑मिक्षुः (ऋ० १.१६५.१)। लिटि उसन्तः॥ द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यम्॥ यो जा॒गार॒ तमृचः॑ कामयन्ते॒ (ऋ० ५.४४.१४)। दाति॑ प्रि॒याणि॑ (ऋ० ४.८.३) इति॥

Siddhanta Kaumudi

Up

लिटि परेऽनभ्यासधात्ववयवस्यैकाचः प्रथमस्य द्वे स्त आदिभूतादचः परस्य तु द्वितीयस्य । भूव् भूव् अ इति स्थिते ॥

Laghu Siddhanta Kaumudi

Up

लिटि परेऽनभ्यासधात्ववयस्यैकाचः प्रथमस्य द्वे स्त आदिभूतादचः परस्य तु द्वितीयस्य। भूव् भूव् अ इति स्थिते -

Neelesh Sanskrit Detailed

Up

अस्मिन् सूत्रे 'अनभ्यासः धातुः' इति उक्तमस्ति । अस्य अर्थः - सः धातुः यः अभ्यासेन सह न आगच्छति । <<पूर्वोभ्यासः>> 6.1.4 इत्यनेन द्वित्वे कृते द्वयोः यः पूर्वः (प्रथमः), तस्य अभ्याससंज्ञा भवति । अतः यस्य धातोः द्वित्वं कृतं नास्ति, तादृशः धातुः अनभ्यासः धातुः इत्युच्यते । अस्य धातोः लिट्-लकारस्य प्रत्यये परे द्वित्वं भवति । यथा - पच्-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - पच् + लिट् [<<परोक्षे लिट्>> 3.2.115 इति लिट्] → पच् + तिप् [<<तिप्तस्झि...>> 3.4.78 इति तिप्-प्रत्ययः] → पच् + णल् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> 3.4.82 इति तिप्-इत्यस्य णल्-आदेशः] → पच् + अ [इत्संज्ञालोपः] → पच् पच् + अ [अत्र पच्-धातोः द्वित्वम् कृतम् नास्ति, अतः लिट्-लकारस्य उपस्थितौ अस्य धातोः यः प्रथमः एकाच्-अवयवः 'पच्' तस्य <<लिटि धातोरनभ्यासस्य>> 6.1.8 इति द्वित्वम् भवति ] → प पच् + अ [<<हलादि शेषः>> 7.4.60 इति चकारलोपः] → प पाच् + अ [<<अतः उपधायाः>> 7.2.116 इति अङ्गस्य उपधा-अकारस्य वृद्धिः आकारः] → पपाच ज्ञातव्यम् - अनेन सूत्रेण निर्दिष्टम् द्वित्वम् <<एकाचो द्वे प्रथमस्य>> 6.1.1 अस्मिन् अधिकारे यथा निर्दिष्टमस्ति तथैव भवति ।

Balamanorama

Up

<<लिटि धातोरनभ्यासस्य>> - लिटि धातोः ।एकाचो द्वे प्रथमस्ये॑त्यधिकृतं । धातोरित्यवयवषष्ठी । तदाह -धात्ववयवस्येति । 'एकाच' इतिप्रथमस्ये॑ति च धात्ववयवस्य विशेषणम् । एकोऽच् यस्येति तद्गुणसंविज्ञानो बहुव्रीहिः । तथा च लिटि परेऽभ्यासभिन्नस्यैकाऽच्कस्य प्रथमस्य धात्वयवस्य द्वे उच्चारणे स्त इत्यर्थः ।एकाच॑इत्यत्र कर्मधारयाश्रयणे तु पपाचेत्यादि न सिध्येदिति भाष्ये स्पष्टम् ।अजादेर्द्वितीयस्ये॑त्यप्यधिकृतम् । तत्राऽच्चासावादिश्च अजादिः, तस्मादिति कर्मधारयात्पञ्चमी । तदाह — आदिभूतादचः परस्य तु द्वितीयस्येति । 'एकाच' इति शेषः । अजादिधात्ववयवस्य एकाचश्चेद्द्वित्वं तर्हि द्वितीयस्यैवैकाचो द्वित्वं नतु प्रथमस्येति यावत् । अत्र द्वे इत्यनन्तरमुच्चारणे इत्यध्याह्मत्यैकाचः प्रथमस्येति कृद्योगलक्षमषष्ठी चाश्रित्य द्विः प्रयोग एवात्र विधीयते, न स्थानषष्ठीमाश्रित्यादेशपक्ष इति प्रकृतसूत्रभाष्ये प्रपञ्चितम् ।आदेशप्रत्यययो॑रिति सूत्रभाष्येऽपि द्विःप्रयोगपक्ष एवोक्तः । तदिह विस्तरभयान्न लिखितम् । पपाच इयायेत्यादौ प्रथमत्वमेकाच्कत्वं च व्यपदेशिवत्त्वेन बोध्यम् । अजादेरिति बहुव्रीह्राश्रयणे तु इन्द्रमात्मन इच्छति इन्द्रीयति, इन्द्रीयित#उमिच्छति इन्दिद्रीयषतीत्यादौन न्द्राः संयोगादय॑ इति दकारस्य द्वित्वनिषेधश्च स्यत्, तत्राऽजादेरित्यनुवृत्तेः । धातोरिति किम् । तदभावे हि लिटि परे यः प्रथम एकाच् तस्य द्वे इत्यर्थः स्यात् । एवं सति पपाचेत्यादावेव स्यान्न तु जजागारेत्यादाविति भाष्ये स्पष्टम् । न च पपाचेत्यादौलिटि धातो॑रिति द्वित्वे कृतेलक्ष्ये लक्षणस्ये॑ति न्यायेन पुनर्द्वित्वस्याऽप्रसक्तेनरनभ्यासग्रहमं व्यर्थमिति वाच्यं, यङन्तात्सन्यङो॑रिति यङ्निमित्तकद्वित्वविशिष्टत्वात्सनि सन्निमित्तकद्वित्वनिवृत्तये, सन्नन्तात्सन्यङो॑रिति कृतद्वित्वाण्णिचि लुङि चङि कृतेचङी॑ति द्वित्वनिवृत्तये चाऽनभ्यासग्रहणस्यावश्यकत्वात् । भाष्ये तु — कृष्णो नोनाव वृषभो यदीद॑मित्यादौ नुधातोर्यङन्तात्सन्यङो॑रिति कृतद्वित्वान्नोनूयेत्यस्माल्लिटिकास्प्रत्ययादाममन्त्रे लिटी॑ति मन्त्रपर्युदासादामभावे 'यस्य हल' इति यकारलोपे अतो तिपो णलि वृद्धावावादेशो नोनावेत्यत्र यङन्तात्सनि, सन्नन्ताण्णिचि चङि च प्रयोगो लोके नास्त्येवेति तदाशय इति शब्देन्दुशेखरे स्पष्टम् । प्रकृते च भूव् अ इत्यत्र चत्वार एकाचः । तत्र 'भू' इति प्रथमः,ऊ॑विति द्वितीयः, 'ऊ' इति व्यपदेशिवद्भावेन तृतीय एकाच्,भू॑विति समुदायस्तु चतुर्थः । तत्र समुदाये द्विरुच्यमाने सर्वेऽवयवा द्विरुच्यन्त इतिभू॑विति समुदायस्यैव द्विर्वचनमिति भाष्ये स्पष्टं । तदाह — भूव् भूव् अ इति स्थित इति । अत्रभू॑वित्यस्य एकाचो धात्ववयवत्वं प्रथमत्वं च व्यपदेशिवत्त्वाद्बोध्यम् ।

Padamanjari

Up

धातोरिति किमिति। लिटि परतोऽन्यो न सम्भवति; तस्य धातोरेव विधानादिति प्रश्नः। विशृण्विरे इति।'च्छन्दस्युभयथा' इति सार्वधातुकत्वात्'श्रुवः शृ च' इति श्नुप्रत्ययः, शृभावश्च। अत्र विकरणान्तस्य समुदायस्य लिट्परस्याधातुत्वातदीयस्य प्रथमस्यैकाचो द्विर्वचनाभावः। ईक्षाञ्चक्रे इत्यादौ त्वामन्तस्य लिटपरत्वं नास्ति; ठामःऽ इति लुका कुप्तत्वादिति द्विर्वचनाभावः। सिद्धः। अनभ्यासस्येति किमिति। न तावद् नुनाव, पपाचेत्यादौ तत्रैव लिटि पुनर्द्विर्वचनप्रसङ्गः; सकृत्प्रवृत्या लक्षणस्य चरितार्थत्वात्, अनवस्थापाताच्च। यस्तु प्रत्ययान्तरे सनादौ साभ्यासः, न तस्य लिटि सम्भवः; ततो हि'कास्प्रत्ययाद्' इत्यामा भवितव्यमिति प्रशनः। नोनावेति। ठमन्त्रेऽ इति प्रतिषेधादत्रामभावः। सम्मिमिक्षुरिति। सम्पूर्वान्मिहेः सनि'हो ढः' 'षढोः कः सि' लिट्, झेरुस्, अतोलोपः। द्विवचनप्रकरण इति। प्रकरणग्रहणान्न केवलं सर्व द्विर्वचनं च्छन्दसि विकल्प्यते। एवं च'धातोः' , ठनभ्यासस्यऽ इत्युभयमुतरार्थम्। एतस्मादेव विकल्पाद्विकरणान्तसाभ्यासयोर्न भविष्यति ॥