अनेकाल्शित्सर्वस्य
1-1-55 अनेकाल्शित्सर्वस्य आदेशे षष्ठी स्थाने
Sampurna sutra
Up
अनेकाल् शित् सर्वस्य
Neelesh Sanskrit Brief
Up
अनेकाल् आदेशः, शित्-आदेशः च सम्पूर्णस्थानिनः स्थाने विधीयते ।
Neelesh English Brief
Up
An आदेश which either has more than one letters, or is शित् - replaces the entire स्थानी.
Kashika
Up
अनेकाल् य आदेशः शिच् च, स सर्वस्य षष्ठीनिर्दिष्टस्य स्थाने भवति। <<अस्तेर्भूः>> २.४.५२ — भविता। भवितुम्। भवितव्यम्। शित् खल्वपि — <<जश्शसोः शिः>> ७.१.२० — कुण्डानि तिष्ठन्ति। कुण्डानि पश्य॥
Siddhanta Kaumudi
Up
स्पष्टम् । अलोऽन्त्यसूत्रापवादः । अष्टाभ्य औश् <{SK372}> इत्यादौ आदेः परस्य इत्येतदपि परत्वादनेन बाध्यते ॥
Laghu Siddhanta Kaumudi
Up
इति प्राप्ते॥
Neelesh Sanskrit Detailed
Up
एतत् अष्टाध्याय्याम् विद्यमानं परिभाषासूत्रम् अस्ति । यस्मिन् आदेशे द्वौ वा अधिकाः वर्णाः विद्यन्ते तादृशः आदेशः, तथा च यस्मिन् आदेशे शकारः इत्संज्ञकः विद्यते तादृशः आदेशः सम्पूर्णस्य स्थानिनः स्थाने विधीयते — इति अस्य सूत्रस्य आशयः । <<अलोऽन्त्यस्य>> 1.1.52 इति सूत्रस्य अपवादरूपेण इदं सूत्रम् प्रवर्तते ।
आदेशे कति वर्णाः सन्ति इति ज्ञातुम् आदौ तत्र उपस्थितानाम् सर्वेषाम् इत्संज्ञकवर्णानाम्, उच्चारणार्थं प्रयुक्तानां च वर्णानाम् लोपः करणीयः, तदनन्तरम् एव वर्णानाम् गणना कर्तव्या । यथा, <<दिवः औत्>> 7.1.84 अनेन सूत्रेण 'औत्' इति आदेशः दीयते । यद्यपि अस्मिने आदेशे द्वौ वर्णौ दृश्येते, तथापि अत्र तकारः केवलम् उच्चारणार्थः अस्ति ।तस्य लोपः क्रियते चेत् 'औ' इति एकः एव वर्णः अवशिष्यते । अतः औत् इति एकाल्-आदेशः एव । अतः औत्-आदेशस्य विषये अस्य सूत्रस्य प्रसक्तिः नास्ति ।
अस्य सूत्रस्य द्वे उदाहरणे एतादृशे —
1. <<अस्तेर्भूः>> 2.4.52 इत्यनेन अस्-धातोः आर्धधातुकप्रत्ययस्य विवक्षायां भू-आदेशः विधीयते । अयम् अनेकाल्-आदेशः, अतः अयम् 'अस्' इत्यस्य सम्पूर्णशब्दस्य स्थाने आगच्छति । अतएव अस्-धातोः 'क्त्वा' अस्मिन् आर्धधातुके प्रत्यये परे 'भूत्वा' इति रूपं जायते । यथा -
असँ (भुवि, अदादिः, <{2.60}>)
→ भू [आर्धधातुकप्रत्ययस्य विवक्षायाम् अस्-धातोः भू-आदेशः । अनेकाल्त्वात् <<अनेकाल्शित्सर्वस्य>> 1.1.55 इति सर्वादेशः]
→ भू + क्त्वा [भू-आदेशस्य स्थानिवद्भावनेन धातुसंज्ञा ।<<समानकर्तृकयोः पूर्वकाले>> 3.4.21 इति क्त्वा-प्रत्ययः]
→ भूत्वा
2. <<इदमः इश्>> 5.3.3 इति सूत्रेण इदम्-शब्दस्य केषुचन तद्धितप्रत्ययेषु परेषु इश्-आदेशः भवति । अस्मिन् आदेशे शकारः इत्संज्ञकः अस्ति, अतः <<अनेकाल्शित्सर्वस्य>> 1.1.55 इत्यनेन अयम् आदेशः सम्पूर्णरूपेण 'इदम्' शब्दस्य स्थाने विधीयते । यथा, इदम्-शब्दात् ह-प्रत्यये कृते इदम्-शब्दस्य 'इ' इति सर्वादेशं कृत्वा 'इह' इति शब्दः सिद्ध्यति । प्रक्रिया इयम् —
इदम् + ह [<<इदमो हः>> 5.3.11 इति इदम्-शब्दात् सप्तम्यर्थे ह-प्रत्ययः]
→ इश् + ह [<<इदमः इश्>> 5.3.3 इति सूत्रेण इदम्-शब्दस्य इश्-आदेशः । शित्त्वात् <<अनेकाल्शित्सर्वस्य>> 1.1.55 इति सर्वादेशः]
→ इ + ह [शकारस्य <<हलन्त्यम्>> 1.3.3 इति इत्संज्ञा । <<तस्य लोपः>> 1.3.9 इति लोपः]
→ इह
ङिच्च तथा अनेकाल्शित्सर्वस्य एतयोर्मध्ये बाध्यबाधकभावः
<<ङिच्च>>
1.1.53 एतत् सूत्रम् <<अनेकाल्शित्सर्वस्य>>
1.1.55 इत्यस्य अपवादरूपेण विधीयते । इत्युक्ते, ङित्-आदेशः अनेकाल् भवेत् उत एकाल्, सः अन्त्यादेशरूपेणैव विधीयते । यथा, <<आनङ् ऋतो द्वन्द्वे>>
6.3.25 इति सूत्रेण केषुचन द्वन्द्वसमासेषु पूर्वपदस्य आनङ्-आदेशः भवति । अयम् आनङ्-आदेशः यद्यपि अनेकाल् अस्ति, तथापि ङित्त्वात् अयम् अन्त्यस्य स्थाने एव विधीयते । यथा, 'माता च पिता च' इत्यस्मिन् द्वन्द्वसमासे 'होतृ' इति पूर्वपदस्य आनङ्-इति अन्त्यादेशे कृते 'मातापितरौ' इति रूपं सिद्ध्यति । प्रक्रिया इयम् —
माता च पिता च [<<चार्थे द्वन्द्वः>> 2.2.29 इति द्वन्द्वसमासः]
→ मातृ सुँ पितृ सुँ [अलौकिकविग्रहः । <<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा]
→ मातृ पितृ औ [<<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति विभक्तिप्रत्यययोः लुक् । ततः द्विवचनस्य निर्देशार्थम् औ-प्रत्ययः ।]
→ मात् आनङ् पितृ औ [<<आनङ् ऋतो द्वन्द्वे>> 6.3.25 इति मातृ-शब्दस्य आनङ्-आदेशः । <<अनेकाल्शित्सर्वस्य>> 1.1.55 इत्यनेन सर्वादेशे प्राप्ते, तद्बाधित्वा <<ङिच्च>> 1.1.53 इति अन्त्यादेशः]
→ मात् आन् पितृ औ [ङकारस्य <<हलन्त्यम्>> 1.3.3 इति इत्संज्ञा, <<तस्य लोपः>> 1.3.9 इति लोपः । नकारोत्तरः अकारः उच्चारणार्थः, सोऽपि लुप्यते ।]
→ मातान् पितर् ओ [<<ऋतो ङिसर्वनामस्थानयोः>> 7.3.110 इति ऋकारस्य सर्वनामस्थानसंज्ञके औ-प्रत्यये परे गुणादेशः । <<उरण् रपरः>> 1.1.51 इति रपरः]
→ मातापितरौ [<<नलोपः प्रातिपदिकान्तस्य>> 8.2.7 इति नकारस्य लोपः]
आदेः परस्य तथा अनेकाल्शित्सर्वस्य एतयोर्मध्ये बाध्यबाधकभावः
<<अनेकाल्शित्सर्वस्य>>
1.1.55 इति सूत्रम् परत्वात् <<आदेः परस्य>>
1.1.54 इत्यस्य बाधकरूपेण प्रवर्तते । अस्य द्वे उदाहरणे एतादृशे —
1. <<अष्टाभ्य औश्>>
7.1.21 इत्यनेन अष्टा-शब्दात् परस्य जस्-प्रत्ययस्य औश्-आदेशः भवति । अनेन सूत्रेण पूर्वनिमित्तम् उक्त्वा आदेशविधानम् क्रियते, अतः अयम् आदेशः वस्तुतः <<आदेः परस्य>>
1.1.54 इत्यनेन स्थानिनः आदिवर्णस्य स्थाने एव भवेत् । परन्तु अयम् आदेशः शित् अस्ति, अतः <<अनेकाल्शित्सर्वस्य>>
1.1.55 इति सूत्रेण सः सर्वादेशरूपेण प्रवर्तते । यथा —
अष्टन् + जस् [प्रथमाबहुवचनस्य प्रत्ययः]
→ अष्टा + जस् [<<अष्टन आ विभक्तौ>> 7.2.84 इति आकारादेशः । <<अलोऽन्त्यस्य>> 1.1.52 इति अन्त्यादेशः]
→ अष्टा + औ [<<आदेः परस्य>> 1.1.54 इत्यनेन आदिवर्णस्य आदेशे प्राप्ते, तद्बाधित्वा<<अनेकाल्शित्सर्वस्य>> 1.1.55 इति सर्वादेशः]
→ अष्टौ [<<वृद्धिरेचि>> 6.1.88 इति वृद्धि-एकादेशः]
2. <<अतो भिस ऐस्>>
7.1.9 इति सूत्रेण अदन्तात् अङ्गात् परस्य भिस्-प्रत्ययस्य ऐस्-आदेशः भवति । अत्रापि <<आदेः परस्य>>
1.1.54 इत्यनेन आदिवर्णस्यैव आदेशे प्राप्ते, तद्बाधित्वा ऐस्-आदेशस्य अनेकाल्त्वात् <<अनेकाल्शित्सर्वस्य>>
1.1.55 इति सर्वादेशः भवति । प्रक्रिया इयम् —
राम + भिस् [तृतीयाबहुवचनस्य भिस्-प्रत्ययः]
→ राम + ऐस् [<<अतो भिस ऐस्>> 7.1.9 इति ऐस्-आदेशः । अनेकाल्त्वात् सर्वादेशः]
→ रामैः [<<वृद्धिरेचि>> 6.1.88 इति वृद्ध्येकादेशः । <<ससजुषो रुः>> 8.2.66 इति रुँत्वम् । <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः ।]
जश्शसो शिः इत्यत्र आदेशविधानपद्धतिः
प्रकृतसूत्रस्य व्याख्याने काशिकायाम् एतत् उच्यते -
शित् खल्वपि - <<जश्शसोः शिः>> 7.1.20 कुण्डानि तिष्ठन्ति, कुण्डानि पश्य ॥ काशिका, 1.1.55 ॥
अत्र काशिकाकारः 'शित्' इत्यस्य उदाहरणरूपेण <<जश्शसोः शिः>>
7.1.20 इदं सूत्रम् उदाहरति । वस्तुतः एतत् प्रामादिकम् एव । तत्कथम् इति चेत्, 'शि' इत्यस्य शकारस्य <<लशक्वतद्धिते>>
1.3.8 इत्यनेन तदा एव इत्संज्ञा भवितुम् अर्हति, यदा आदेशात् अनन्तरम् 'शि' इत्यस्य स्थानिवद्भावेन प्रत्ययसंज्ञा विधीयते । आदेशसमये तु अस्य प्रत्ययसंज्ञा नास्ति एव, अतः <<लशक्वतद्धिते>>
1.3.8 इत्यस्य आदेशसमये प्रसक्तिः एव न विद्यते । अतः <<जश्शसोः शिः>>
7.1.20 इत्यत्र
अनेकाल्त्वात् एव सर्वादेशः भवति, न हि शित्त्वात् । प्रक्रियाक्रमः एतादृशः —
फल + जस् [जस्-प्रत्ययविधानम्]
→ फल + शि [ <<जश्शसोः शिः>> 7.1.20 इत्यनेन जस्-प्रत्ययस्य 'शि' आदेशः । अत्र आदेशसमये 'शि' इति प्रत्ययसंज्ञकः नास्ति, अतः अत्र <<लशक्वतद्धिते>> 1.3.8 इत्यस्य प्रसक्तिरेव नास्ति । अतः अत्र <<अनेकाल्शित्सर्वस्य>> 1.1.55 इति सर्वादेशः विधीयते ।]
→ फल + इ [आदेशात् अनन्तरम् <<स्थानिवदादेशोऽनल्विधौ>> 1.1.56 इति स्थानिवद्भावेन 'शि' इति प्रत्ययसंज्ञां प्राप्नोति । प्रत्ययसंज्ञायाम् सत्याम् शकारस्य <<लशक्वतद्धिते>> 1.3.8 इत्यनेन इत्संज्ञा, अग्रे <<तस्य लोपः>> 1.3.3 इत्यनेन लोपः भवति ।
→ फलानि [<<नपुंसकस्य झलचः>> 7.1.72 इत्यनेन नुमागम:, <<सर्वनामस्थाने चासम्बुद्धौ>> 6.4.8 इति उपधादीर्घः]
Balamanorama
Up
<<अनेकाल्शित्सर्वस्य>> - अनेकाल्शित्सर्वस्य । न एकोऽनेकः, अनेकोऽल् यस्य सोऽनेकाल्, शकार इत् यस्य स शित्, अनेकाल्व शिच्चेति समाहारद्वन्द्वः । स्पष्टमिति । अनुवर्तनीयपदान्तराऽभावादिति भावः । अस्तेर्भूरित्याद्युदाहरणम् । नन्वस्धातोर्भूर्भवतीत्युक्ते कृत्स्नस्यैवादेशः प्राप्त इति किमर्थमिदं सूत्रमारभ्यत इत्यत आह-अलोऽन्त्यसूत्रापवाद इति ।अलोन्त्येति॑ति सूत्रैकदेशानुकरणम् । अनुकरणत्वादेव नापशब्दः, अधिरीश्वर इति सूत्रैकदेशस्य प्राग्रीश्वरान्निपाता इति ग्रहणाल्लिङ्गात् । स्यादेतत् । अष्टन्शब्दाज्जसि शसि चअष्टन आ विभक्ता॑विति आत्वे अष्टा अस् इति स्थिते अष्टाभ्य औशिति कृताकारादष्टनः परयोर्जश्शसोर्विधीयमान औशादेशोऽलोऽन्त्यस्येति बाधित्वा आदेः परस्येत्यादेरकारस्य प्राप्तः । अनेकाल्त्वाच्च सर्वादेशः प्राप्तः । एवम्अतो भिस ऐ॑सित्यादावपि । तत्र कतरच्छास्त्रं बाध्यं कतरच्च प्रवर्तत इत्यत्र किं विनिगमकम्रित्यत आह-अष्टाभ्य औशित्यादाविति । आदिनाअतो भिस ऐ॑सित्यादिसंग्रहः । अष्टाभ्य औ॑ शित्यादावादेः परस्येत्येतदपि परत्वादनेन बाध्यत इत्यन्वयः । अस्तेर्भूरित्यादौ अनेकाल्शिदित्यनेन यथाऽलोऽन्त्यस्येति बाध्यते तथ#आऽष्टाभ्या औशित्यादावादेः परस्येत्येतदपि बाध्यत इत्यर्थः । नन्वस्तेर्भूरित्यादावलोऽन्त्यस्येति प्राप्ते सत्येवानेकाल्शित्सर्वस्येति नापवादः । अस्तेर्भूरित्यादावादेः परस्येत्यप्राप्तावपि तत्प्रवृत्तेरित्यत आह-परत्वादिति ।विप्रतिषेधे परं कार्य॑मिति तुल्यबलविरोधे परप्राबल्यस्य वक्ष्यमाणत्वादिति भावः ।आदेः परस्ये॑त्यस्यावकाशोद्व्यन्तरुपसर्गेभ्योऽप ई॑दित्यादिः ।अनेकाल्शित्सर्वस्ये॑त्यस्यावकाशः-॒अस्तेर्भूः॒॑इदम इ॑शित्यादिः । अतस्तुल्यबलत्वमुभयोः ।
Padamanjari
Up
अनेकालग्रहणं किमर्थम् ? 'अस्तेर्भूः' सर्वस्य यथा स्यात्, अलोऽन्त्यस्य मा भूत्; नैतदस्ति प्रयोजनम्; 'ङ्च्चि' इत्येतन्नियमार्थं भविष्यति - 'यद्यनेकालन्त्यस्य भवति, ङ्देवि' इति । एवमप्यसत्यनेकाल्ग्रहणे 'अतो भिस ऐस्' इत्यादिषु पञ्चमीनिर्देशेष्वनेकालप्यादेश आदेः परस्य स्यात्, सति तु तस्मिन् द्वावेतौ 'अलोऽन्त्यस्य' इत्यस्यापवादौ - 'आदेः परस्य','अनेकाल्शित्सर्वस्य' इति; तत्र 'आदेः परस्य' इत्यस्यायमवकाशो य एकालदेशो लोपो वा - 'ई दासः' 'बहोर्लोपो भू च वहोः' आसीनः, भूयान् ; 'अनेकाल्शित्सर्वस्य' इत्यस्यावकाशो यत्र पञ्चमीनिर्देशो नास्ति-'अस्तेर्भूः' । इहोभयं प्राप्नोति-'अतो भिस ऐस्', अपवादविप्रतिषेधादनेकाल्शित्सर्वस्येत्ययमेव भवतीति सिद्धमिष्टम् । शिद्ग्रहणं किमर्थम् ? 'जसः शी' सर्वस्य यथा स्यात्, अनेकालित्येव भविष्यति, शकारे लुप्ते नानेकाल्, आनुपूर्व्यात्सिद्धम् । यदायं सर्वादेशस्तदा प्रत्ययः, यदा प्रत्ययस्तदेत्संज्ञा, यदेत्संज्ञा तदालोपः, यदालोपस्तदैकाल् तदिह सर्वादेशत्वमन्तरेण नैकाल्त्वमुपपद्यते । इह तर्हि 'इदम इश्' 'इदं किमोरीश्कीः' ? अत्र ह्यन्तरेणापि सर्वादेशतां प्रगेवेत्संज्ञा भवति । नन्वत्रापि शकारः प्रयोजनान्तराभावाद् अनेकाल्त्वमादेशस्य संपाद्य निवर्तिष्यते । इह तर्हि 'घ्वसोरेद्धावभ्यासलोपश्च' इति ? लोपः शित्सर्वस्य यथा स्यात् । 'इदम् इश्' इत्यादावपि प्रयोजनाभावदित्संज्ञैव शकारस्य न स्यादिति श्रवणप्रसङ्गः ॥