तिङ्शित्सार्वधातुकम्

3-4-113 तिङ्शित् सार्वधातुकम् प्रत्ययः परः च आद्युदात्तः च धातोः लस्य

Sampurna sutra

Up

धातोः परः तिङ्/शित्-प्रत्ययः सार्वधातुकम्

Neelesh Sanskrit Brief

Up

धातुभ्यः विहिताः तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञकाः सन्ति ।

Neelesh English Brief

Up

The तिङ् प्रत्ययs and the शित् प्रत्ययs are called 'सार्वधातुक'.

Kashika

Up

तिङः शितश्च प्रत्ययाः सार्वधातुकसंज्ञा भवन्ति। भवति। नयति। स्वपिति। रोदिति। पवमानः। यजमानः। सार्वधातुकप्रदेशाः — <<सार्वधातुके यक्>>३.१.६७ इत्येवमादयः॥

Siddhanta Kaumudi

Up

तिङः शितश्च धात्वधिकारोक्ता एतत्संज्ञाः स्युः ॥

Laghu Siddhanta Kaumudi

Up

तिङः शितश्च धात्वधिकारोक्ता एतत्संज्ञाः स्युः॥

Neelesh Sanskrit Detailed

Up

धातोः विहिताः प्रत्ययाः 'सार्वधातुक' तथा 'आर्धधातुक' एतादृशाः विभाजिताः सन्ति । अनेन सूत्रेण सार्वधातुक-संज्ञा विधीयते । <<तिप्तस्झि...>> 3.4.78 इत्यनेन निर्दिष्टाः तिङ्-प्रत्ययाः, तथा येषु प्रत्ययेषु शकारः इत्संज्ञकः अस्ति ते प्रत्ययाः सार्वधातुकसंज्ञकाः सन्ति । सार्वधातुकसंज्ञकप्रत्ययानामावली इयम् - अ) तिङ्-प्रत्ययाः - तिप्, तस्, झि, सिप्, थस्, थ, मिप्, वस्, मस्, त, आताम्, झ, थास्, आथाम् ध्वम्, इट्, वहि, महिङ् आ) शित्-प्रत्ययाः - [विकरणप्रत्ययाः] शप्, श्यन्, श्नु, श, श्नम्, श्ना [कृत्-प्रत्ययः] शतृ, शानच्, शानन्, चानश्, खश्, श, एश्, शध्यै, शध्यैन् । एतादृशमाहत्य 33 प्रत्ययाः सार्वधातुकसंज्ञकाः सन्ति । ज्ञातव्यम् - आशीर्लिङ्-लकारस्य विषये <<लिङाशिषि>> 3.4.116 इत्यनेन तथा लिट्-लकारस्य विषये <<लिट् च>> 3.4.115 इत्यनेन तिङ्-प्रत्ययाः आर्धधातुकसंज्ञकाः भवन्ति । सार्वधातुक-संज्ञायाः प्रयोगः <<सार्वधातुकार्धधातुकयोः>> 7.3.84, <<सार्वधातुकमपित्>> 1.2.4 एतादृशेषु सूत्रेषु कृतः अस्ति ।

Balamanorama

Up

<<तिङ्शित्सार्वधातुकम्>> - तत्र सार्वधातुककार्यं वक्ष्यन्सार्वधातुकंसंज्ञामाह — तिङ्शित् । धातोरित्यधिकृतं । तदाह — धात्वधिकारोक्ता इति । तेनहरी॑नित्यत्र शसः सार्वधातुकत्वं न,अन्यथा तिङ्शित्सार्वधातुक॑मिति शसः सार्वधातुकत्वात्सार्वधातुकमपिदिति ङित्त्वेघेर्ङिती॑ति गुणः स्यात् ।

Padamanjari

Up

तरति नयतीति । तिङ्ः सार्वधातुकत्वाच्छप्, शपः सार्वधातुकत्वाद्धातोर्गुणः । रोदितीति । शपो लुकि रुदादिभ्यः सार्वधातुकेऽ इतीट् । पवमानो यजमान इति । पूर्ववच्छब्गुणौ ॥