3-4-101 तस्थस्थमिपां तान्तन्तामः प्रत्ययः परः च आद्युदात्तः च धातोः लस्य ङितः
index: 3.4.101 sutra: तस्थस्थमिपां तांतंतामः
ङितः तस्-थस्-थ-मिपाम् ताम्-तम्-त-अमः
index: 3.4.101 sutra: तस्थस्थमिपां तांतंतामः
ङित्-लकाराणाम् विषये तस्, थस्, थ, मिप् - एतेषां चतुर्णाम् प्रत्ययानाम् क्रमेण ताम्, तम्, त, अमः - एते आदेशाः भवन्ति ।
index: 3.4.101 sutra: तस्थस्थमिपां तांतंतामः
In case of ङित्-लकारs, तस्, थस्, थ and मिप् are converted respectively to ताम्, तम्, त and अम्.
index: 3.4.101 sutra: तस्थस्थमिपां तांतंतामः
ङितः इत्येव। ङिल्लकारसम्बन्धिनां चतुर्णाम् यथासङ्ख्यं तामादयः अदेशा भवन्ति। अपचताम्। अपचतम्। अपचत। अपचम्। अपाक्ताम्। अपाक्तम्। अपाक्त। अपाक्षम्।
index: 3.4.101 sutra: तस्थस्थमिपां तांतंतामः
ङितश्चतुर्णां तामादयः क्रमात्स्युः ॥
index: 3.4.101 sutra: तस्थस्थमिपां तांतंतामः
ङितश्चतुर्णां तामादयः क्रमात्स्युः। भवताम्। भवन्तु॥
index: 3.4.101 sutra: तस्थस्थमिपां तांतंतामः
तस्, थस्, थ, तथा मिप् एते चत्वारः परस्मैपदस्य प्रत्ययाः सन्ति । ङित्-लकाराणाम् विषये एतेषां क्रमेण ताम्, तम्, त, तथा अम् - एते आदेशाः भवन्ति । अनेकाल्शित्सर्वस्य 1.1.55 इत्यनेन एते सर्वे सर्वादेशरूपेण आगच्छन्ति । क्रमेण पश्यामः -
यथा, पठ् धातोः विधिलिङ्लकारस्य प्रथमपुरुषद्विवचनस्य प्रक्रिया इयम् -
पठ् + लिङ् [विधिनिमन्त्रणा... 3.3.161 इति लिङ्]
→ पठ् + तस् [तिप्तस्.. 3.4.78 इति तस्]
→ पठ् + शप् + तस् [कर्तरि शप् 3.1.68 इति शप्]
→ पठ् + अ + ताम् [तस्थस्थमिपां तांतंतामः 3.4.101 इति तस्-प्रत्ययस्य ताम्-आदेशः]
→ पठ् + अ + यासुट् + ताम् [यासुट् परस्मैपदेषूदात्तो ङिच्च 3.4.103 इति यासुट्-आगमः]
→ पठ् + अ + यास् + सुट् + ताम् [सुट् तिथोः 3.4.107 इति सुट्-आगमः]
→ पठ् + अ + या + ताम् [लिङः सलोपोऽनन्त्यस्य 7.2.79 इति सकारयोः लोपः]
→ पठ् + अ + इय् + ताम् [अतो येयः 7.2.80 इति या-इत्यस्य इय्-आदेशः]
→ पठ् + अ + इ + ताम् [लोपो व्योर्वलि 6.1.66 इति यकारलोपः]
→ पठेताम् [आद्गगुणः 6.1.87 इति गुण-एकादेशः]
यथा, पठ्-धातोः लोट्लकारस्य मध्यमपुरुषद्विवचस्य प्रक्रिया इयम् -
पठ् + लोट् [लोट् च 3.3.162 इति लोट्]
→ पठ् + थस् [तिप्तस्... 3.4.78 इति थस्]
→ पठ् + शप् + तस् [कर्तरि शप् 3.1.68 इति शप्]
→ पठ् + अ + तम् [ लोटो लङ्वत् 3.4.85 इति लोट्लकारः लङ्वत् भवति । अतः ङित्-लकारविशिष्टं कार्यमप्यत्र भवितुमर्हति । अतएव तस्थस्थमिपां तांतंतामः 3.4.101 इति थस्-प्रत्ययस्य तम्-आदेशः भवति]
→ पठतम् ।
यथा, पठ्-धातोः लङ्-लकारस्य मध्यमपुरुष-बहुवचनस्य प्रक्रिया इयम् -
पठ् + लङ् [अनद्यतने लङ् 3.2.111 इति लङ्]
→ अट् + पठ् + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अडागमः]
→ अट् + पठ् + थ [तिप्तस्... 3.4.78 इति थ]
→ अट् + पठ् + शप् + थ [कर्तरि शप् 3.1.68 इति शप्]
→ अ + पठ् + अ + त [तस्थस्थमिपां तांतंतामः 3.4.101 इति थ-प्रत्ययस्य त-आदेशः]
→ अपठत
यथा, पठ्-धातोः लृङ्-लकारस्य उत्तमपुरुषैकवचनस्य प्रक्रिया इयम् -
पठ् + लृङ् [लिङ्निमित्ते लृङ् क्रियातिपत्तौ 3.3.139 इति लृङ्]
→ पठ् + स्य + ल् [स्यतासी लृलुटोः 3.1.33 इति स्य-विकरणप्रत्ययः]
→ अट् + पठ् + स्य + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अडागमः]
→ अट् + पठ् + इट् + स्य + ल् [आर्धधातुकस्य इड्वलादेः 7.2.35 इति इडागमः]
→ अट् + पठ् + इट् + स्य + मिप् [तिप्तस्... 3.4.78 इति मिप्]
→ अ + पठ् + इट् + स्य + अम् [तस्थस्थमिपां तांतंतामः 3.4.101 इति मिप्-प्रत्ययस्य अम्-आदेशः]
→ अपठिष्यम् [आदेशप्रत्यययोः 8.3.59 इति षत्वम्]
ज्ञातव्यम् - अस्मिन् सूत्रे चत्वारः स्थानिनः, चत्वारश्च आदेशाः दीयन्ते । अतः यथासंख्यमनुदेशः समानाम् 1.3.10 इत्यनेन एते आदेशाः यथासंख्यम् भवन्ति ।
index: 3.4.101 sutra: तस्थस्थमिपां तांतंतामः
तस्थस्थमिपां तांतंतामः - तस्थस्थमिपां । तस्,थस्, थ, मिप्, — एषां द्वन्द्वात्षष्ठीबहुवचनम् । ताम तम् त आम् एषां द्वन्द्वात्प्रथमाबहुवचनम् । 'नित्यं ङित' इत्यस्मान्ङित इत्यनुव्रतते । तदाह — ङितश्चतुर्णामिति । ङितो लकारस्य आदेशभूतानामित्यर्थः । क्रमादिति । यथासङ्ख्यसूत्रलभ्यमिदम् ।