7-2-103 किमः कः विभक्तौ
index: 7.2.103 sutra: किमः कः
किमः कः विभक्तौ
index: 7.2.103 sutra: किमः कः
किम्-शब्दस्य विभक्ति-प्रत्यये परे 'क' आदेशः भवति ।
index: 7.2.103 sutra: किमः कः
The word किम् is converted to 'क' in presence of a विभक्ति प्रत्यय.
index: 7.2.103 sutra: किमः कः
किम् इत्येतस्य कः इत्ययमादेशो भवति विभक्तौ परतः। कः, कौ, के। साकच्कस्य अप्ययमादेशो भवति, तेन अकार एव किमो न विधीयते किमोऽत् 5.3.12 इति।
index: 7.2.103 sutra: किमः कः
किमः कः स्याद्विभक्तौ । अकच्सहितस्याप्ययमादेशः । कः । कौ । के । कम् । कौ । कान् । इत्यादि सर्ववत् ॥
index: 7.2.103 sutra: किमः कः
किमः कः स्याद्विभक्तौ। कः। कौ। के इत्यादि। शेषं सर्ववत्॥
index: 7.2.103 sutra: किमः कः
'किम्' अस्य सर्वनामशब्दस्य विभक्तिसंज्ञके परे 'क' इति आदेशः भवति । अनेकाल् शित् सर्वस्य 1.1.55 इति अयं सर्वादेशः । यथा -
1) किम् + सुँ [प्रथमैकवचनस्य प्रत्ययः । सुँ-प्रत्ययस्य सुपः 1.4.103 इति विभक्तिसंज्ञा ।]
→ क + सुँ [किमः कः 7.2.103 इति 'क' आदेशः]
→ कः [विसर्गनिर्माणम्]
2) किम् + दा [सर्वैकान्यकिंयत्तदः काले दा 5.3.15 इति दा-प्रत्ययः । प्राग्दिशो विभक्तिः 5.3.1 इति विभक्तिसंज्ञा]
→ क + दा [किमः कः 7.2.103 इति 'क' आदेशः]
→ कदा
स्मर्तव्यम् - किम्-सर्वनाम्नः अव्ययसर्वनाम्नामकच्प्राक्टेः 5.3.71 इत्यनेन अकच्-प्रत्यये कृते 'ककिम्' इति प्रातिपदिकस्य विषये अपि वर्तमानसूत्रस्य प्रसक्तिः अस्ति । यथा -
किम् + अकच् + सुँ [अव्ययसर्वनाम्नामकच्प्राक्टेः 5.3.71 इत्यनेन अकच्-प्रत्ययः, प्रथमैकवचनस्य 'सुँ' प्रत्ययः]
→ ककिम् + सुँ
→ क + सुँ [किमः कः 7.2.103 इति 'क' आदेशः]
→ कः
index: 7.2.103 sutra: किमः कः
किमः कः - तस्य विशेषमाह-किमः कः । विभक्ताविति । 'अष्टन आ विभक्तौ' इत्यतस्तदनुवृत्तेरिति भावः । ननु 'इमः' इत्येव सूत्र्यतां । 'त्यदादीनाम' इत्यनुवृत्तौ त्यदादीनामिमोऽकारः स्यादित्यर्थलाभात् ।द्विपर्यन्ताना॑मिति तु न सम्बध्यते, द्विपर्यन्तेषु त्यदादिषु इमोऽसम्भवात् । एवं च किंशब्दे 'इम्' इत्यस्य स्थाने अकारे सति 'क' इत्यदन्तत्वं सिध्यति । नचअलोऽन्त्यस्ये॑ति किंशब्दे इमोमकारस्यैव अकारः स्यात् । ततश्च इकारस्य यणि क्य इति स्यादिति वाच्यम्,नानर्थकेऽलोन्त्यविधिः॑ इति निषेधेन अलोऽन्त्यपरिभाषाया अप्रवृत्तौ इमः कृत्स्नस्य स्थाने अकारे सति 'क' इत्यस्य सिद्धेरित्यत आह-अकच्सहितस्येति । त्यदादेरिमोऽकारविधौअव्ययसर्वनाम्ना॑मिति किंशब्दस्य अकचि कृते ककिमिति स्थिते इमोऽकारे कृते 'कक' इति रूपं स्यात् । 'किमः कः' इत्युक्तौ तु साकच्कस्यापि किंशब्दस्यतन्मध्यपतितस्तद्ग्रहणेन गृह्रते॑ इति न्यायेन किंशब्दत्वात्तस्य कादेशे सति 'क' इत्येव रूपं सिध्यतीति भावः । अत्र त्यदादीनामित्यनुवर्त्त्य वचनविपरिणामेन त्यदादेः किमः क इति व्याख्येयम् । अतः सर्वाद्यन्तर्गणकार्यत्वादुपसर्जनत्वे कादेशो न भवति । एवं च विभक्त्युत्पत्तौ कादेशे सर्वशब्दवद्रूपाणीत्याह-कः कावित्यादि । मारुते वेधसि ब्राध्ने पुंसि कः, कं शिरोऽम्बुनोः॑ इत्यमरः । तत्र कशब्दस्य किंशब्दत्वाऽभावान्न सर्वनामत्वम् । वेधसि तु किंशब्दोऽप्यस्ति । तस्य सर्वनामत्वमस्ति नास्तीति पक्षद्वयं 'कस्येत्' इति सूत्रे भाष्ये स्थितम् । कायं हविरित्यत्र यदि किमः कादेशो, यदि वा शब्दान्तरम्, उभयथापिकस्मा अनुब्राऊही॑ति भवितव्यम् । सर्वस्य सर्वनामसंज्ञा । सर्वश्च प्रजापतिः । प्रजापतिश्च कः । अपर आह — उभयथापि कायानुब्राऊहीत्येव संज्ञैषा तत्रभवत इति ।
index: 7.2.103 sutra: किमः कः
तेनाकार एव किमो न विधीयत इति । कथं पुनरकारविधाने कः इत्यादिरूपसिद्धिः, यावतान्त्यस्य प्राप्नोति, न चान्त्यस्य पूर्षेण सिद्धः, द्विपर्यन्तास्त्यदादयः इत्युक्तत्वात् अपरे पुनरेतच्चोद्यभयादेवं पठन्ति - तेनाकार एव इमो न विधीयत इति । अयमर्थः - इमः इत्येतावत्सूत्रमस्तु, त्यदादीनामः इत्येव त्यदादीनां सम्बन्धिन इमोऽकारो भवति तत्र नानर्थकेऽलेन्त्यविधिः इति सर्वस्यैवेमोऽकारो भवति । तेषामेवं पठतामुतरत्र किमो ग्रहणं कर्तव्यम् न कर्तव्यमुति होः इति वक्ष्यामि इमः इत्येव्र, ततो वाति इमः इत्येव, इमो वकारादेशो भवति । तस्मात्साकच्कार्थमेव कादेशो विहितः ॥