3-2-111 अनद्यतने लङ् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भूते
अनद्यतने भूते धातोः परः लङ् प्रत्ययः
अनद्यतन-भूतकालं द्योतयितुम् धातोः परः लङ्-लकारः प्रयुज्यते ।
लङ्-लकार is used to indicate actions that have happened yesterday or before.
भूत इत्येव। अनद्यतन अति बहुव्रीहिनिर्देशः। अविद्यमानाद्यतने भूतेऽर्थ वर्तमानाद् धातोर्लुङ् प्रत्ययो भवति। अकरोत्। अहरत्। बहुव्रीहिनिर्देशः किमर्थः? अद्य ह्यो वा अभुक्ष्महीति व्यामिश्रे मा भूत्॥ परोक्षे च लोकविज्ञाते प्रयोक्तुर्दर्शनविषये लङ् वक्तव्यः॥ अरुणद् यवनः साकेतम्। अरुणद् यवनो माध्यमिकानिति॥
अनद्यतनभूतार्थवृत्तेर्धातोर्लङ् स्यात् ॥
अनद्यतनभूतार्थवृत्तेर्धातोर्लङ् स्यात्॥
अनद्यतन' इत्युक्ते यत् अद्यतन न, तत् । अनद्यतनकाले भूतां क्रियां दर्शयितुम् लुट्-लकारः प्रयुज्यते । यथा - सः ह्यः विद्यालयं न अगच्छत् । अहं गतसप्ताहे व्याकरणमपठम् । ते गतवर्षे स्नातकाः अभवन् । ज्ञातव्यम् - यत्र क्रियायाः कालः अद्यतनभूतकालः अस्ति उत अनद्यतनभूतकालः अस्ति - एतत् स्पष्टं नास्ति, तत्र लङ्लकारस्य प्रयोगः न करणीयः, लुङ्लकारस्य प्रयोगः करणीयः । यथा - सः विद्यालयम् न अगमत् । अहं व्याकरणमपाठिषम् ।
<<अनद्यतने लङ्>> - अनद्यतने लङ् । धातोरिति, भूत इति चाधिकृतम् । भूत इति धात्वर्थेऽन्वेति । तदाह — अनद्यतनभूतार्थवृत्तेरिति ।
अनद्यतनेलङ्॥ ठनद्यतनेऽ इति तत्पुरुषपक्षे पर्युदासश्चेद्व्यामिश्रेऽपि प्राप्नोति - अद्य ह्यए वाऽभुक्ष्महीति, भवति ह्यद्यतनानद्यतनसमुदायोऽद्यतनादन्यः, प्रसज्य प्रतिषेधे तु योऽत्राद्यतनस्तदाश्रयः प्रतिषेधो भवति, किन्तु भूतसमान्ये प्राप्नोति, भूतविशेषे हि प्रतिषेधः। न च सामान्यं विशेशो भवति। पर्युदासेऽप्ययं दोषो द्रष्टव्यः। बहुव्रीहौ न विद्यतेऽद्यतनो यस्मिन् सोऽनद्यतनो भूतो धात्वर्थः, तत्र वर्तमानाल्लङ् भवति, ततश्चाद्यतनसमुदायेऽद्यतनस्यैकदेशस्य सम्भवान्न भवति प्रसङ्गः। भूतसामान्येऽपि न भवत्येव, विद्यते हि सामान्ये विशेषः, अतो बहुव्री - हिरेवायं युक्त इत्याह - अनद्यतन इति बहुव्रीहिनिर्देश इति। बहुव्रीहिणा विवक्षितार्थस्य प्रतिपादनं बहुव्रीहेर्वोच्चारणमित्यर्थः। यदि बहुव्रीहिनिर्द्देशः, एवं सत्यद्यतने प्राप्नोति, न ह्यद्यतनेऽद्यतनो विद्यते? अद्यतनेऽपि मुहूर्तादिरद्यतनो विद्यते, मुहूर्तादावपि क्षणादिः, कथम्? व्यपदेशिवद्भावेन यथा मुख्ये भेदे आधाराधेयभावो भवति - तटे तिष्ठतीति, तथेहापि समुदायावयवभेदाश्रयेण समुदायेऽद्यतनेऽवयवा अद्यतनाः सन्तीत्यनद्यतनो न भवतीत्युच्यते, न तु तत्वतः अवयवव्यतिरिक्तोऽत्र समुदाय आधारोऽस्ति। तदुक्तं हरिणा - - कालस्याप्यपरं कालं निर्द्दिशन्त्येव लौकिकाः। न च निर्द्देशमात्रेण व्यतिरेकोऽनुगम्यते॥ इति। अद्य ह्य इति॥ अद्य ह्यश्चेत्यर्थः। गामश्वं पुरुषं नयमान इतिवच्चशब्दस्याप्रयोगः। अभुक्ष्महीति।'भुजो' नवनेऽ इत्यात्मनेपदम्, महिङ् ठिलिङसिचावात्मनेपदेषुऽ इति सिचः कित्वाद् गुणाभावः,'चोः कुः' इति कुत्वम् - गकारः,'खरि च' इति चर्त्वम् - ककारः, सिचः सस्य षत्वम्। परोक्षे चेत्यादि। परोक्षशब्दोऽयमतीन्द्रियार्थे वर्तते, लोकविज्ञाते लोकप्रसिद्धे प्रयोक्तुर्दर्शनविषये लङ्न्तस्य शब्दरूपस्य यः प्रयोक्ता तस्य दर्शनविषये लङ् वक्तव्यः। ननु विप्रतिषिद्धमिदम् यदि परोक्षः, कथं दर्शनविषयः? अथ दर्शनविषयः, कथं परोश्रः? शक्यदर्शनत्वाद्दर्शनविषयः, क्वचिद्व्यासङ्गादननुभूतत्वात्परोक्षैति विरोधाभावः। अरुणदिति। रुधिर् आवरणेऽ,रुधादित्वात् श्नम्, तिपो हल्ङ्यादिना लोपः। साकेतरोधस्तदानीं प्रयोक्तुर्दर्शनविषयः, शक्यदर्शनत्वात्। लोकप्रसिद्धश्च, क्वचिद्व्यासङ्गादननुभूतत्वात्परोक्षश्च। परोक्ष इति किम्? उदगादादित्यः, इणो लुङ्, गादेशादिकार्यम्। लोकविज्ञात इति। किम? चकार कट्ंअ देवदतः। प्रयोक्तुदर्शनविषये इति। किम्? जघान कंसं किल वासुदेवः, हन्तेः परोक्षे लिट्,द्विर्वचनम्,ठभ्यासाच्चऽइति कुत्वम् - हकारस्य घकारः। कंसवधश्चिरकालान्तरवृतत्वादिदानीं प्रयोक्तुर्दर्शनविषयो न भवति। यस्तु कंसवधेन तुल्यकालः प्रयोक्ता स लङ्मेव प्रयुक्तवान् - आहत कंसं वासुदेव इति। मूलोदाहरणेऽपि प्रयोक्ता साकेतरोधेन तुल्यकालो वेदितव्यः, तस्येव ह्यसौ दर्शनविषयः, नान्यस्य॥