इतोऽत् सर्वनामस्थाने

7-1-86 इतः अत् सर्वनामस्थाने पथिमथ्यृभुक्षाम्

Sampurna sutra

Up

पथिमथ्यृभुक्षामङ्गस्य इतः सर्वनामस्थाने अत्

Neelesh Sanskrit Brief

Up

पथिन्, मथिन् ऋभुक्षिन् - एतेषामङ्गस्य इकारस्य सर्वनामस्थाने परे अकारादेशः भवति ।

Neelesh English Brief

Up

The इकार of the words पथिन्, मथिन् and ऋभुक्षिन् get an 'अ' आदेश in presence of a सर्वनामस्थान.

Kashika

Up

पथ्यादीनामिकारस्य स्थान अकारादेशो भवति सर्वनामस्थाने परतः। पन्थाः, पन्थानौ, पन्थानः। पन्थानम्, पन्थानौ। मन्थाः, मन्थानौ, मन्थानः। मन्थानम्, मन्थानौ। ऋभुक्षाः, ऋभुक्षाणौ, ऋभुक्षाणः। ऋभुक्षाणम्, ऋभुक्षाणौ। आदिति वर्तमाने पुनरद्वचनं षपूर्वार्थम्। ऋभुक्षणमित्यत्र <<वा षपूर्वस्य निगमे>> ६.४.९ इति दीर्घविकल्पः॥

Siddhanta Kaumudi

Up

पथ्यादेरिकारस्याकारः स्यात्सर्वनामस्थाने परे ॥

Laghu Siddhanta Kaumudi

Up

पथ्यादेरिकारस्याकारः स्यात्सर्वनामस्थाने परे॥

Neelesh Sanskrit Detailed

Up

पथिन् (मार्गः), मथिन् (मथने प्रयुक्तः दण्डः), ऋभुक्षिन् (इन्द्रः) इतेषामङ्गस्य ह्रस्व-इकारस्य सर्वनामस्थानप्रत्यये परे अत्-आदेशः भवति । अत्-इत्यत्र तकारः उच्चारणार्थः (अकारः विधीयमानः अस्ति, अतः तपरकरणस्य न किञ्चित् प्रयोजनम् ।) अतः अनेन सूत्रेण 'अ' इति एकाल्-आदेशः विधीयते । यथा - 1) पथिन् + सुँ → पथि आ + स् [<<पथिमथ्यृभुक्षामात्>> 7.1.85 इत्यनेन नकारस्य आकारादेशः] → पथ आ + स् [<<इतोऽत् सर्वनामस्थाने>> 7.1.86 इत्यनेन इकारस्य अकारादेशः] → पन्थ् अ आ + स् [<<थो न्थः>> 7.1.87 इति थकारस्य 'न्थ्' आदेशः] → पन्थाः [सवर्णदीर्घः, विसर्गनिर्माणम्] 2) मथिन् + औ [प्रथमाद्विवचनस्य प्रत्ययः] → मथ् अ न् + औ [<<इतोऽत् सर्वनामस्थाने>> 7.1.86 इत्यनेन इकारस्य अकारादेशः] → मन्थ् अ न् + औ [<<थो न्थः>> 7.1.87 इति थकारस्य 'न्थ्' आदेशः] → मन्थान् + औ [<<सर्वनामस्थाने चासम्बुद्धौ>> 6.4.8 इति नकारान्तस्य अङ्गस्य उपधादीर्घः] → मन्थानौ । 3) ऋभुक्षिन् + अम् [द्वितीयैकवचनस्य प्रत्ययः] → ऋभुक्ष् अ न् + अम् [<<इतोऽत् सर्वनामस्थाने>> 7.1.86 इत्यनेन इकारस्य अकारादेशः] → ऋभुक्षा न् + अम् [<<सर्वनामस्थाने चासम्बुद्धौ>> 6.4.8 इति नकारान्तस्य अङ्गस्य उपधादीर्घः] → ऋभुक्षाणम् [ <<अट्कुप्वाङ्नुम्व्यवायेऽपि>> 8.4.2 इति णत्वम्] 4) सुपथिन् (नपुंसकशब्दः) + जस् [प्रथमाबहुवचनस्य प्रत्ययः] → सुपथिन् + शि [<<जश्शसोः शिः>> 7.1.20 इति शि-आदेशः] → सुपथन् + इ [<<इतोऽत् सर्वनामस्थाने>> 7.1.86 इत्यनेन इकारस्य अकारः] → सुपन्थन् + इ [<<थो न्थः>> 7.1.87 इति थकारस्य न्थ्-आदेशः] → सुपन्थानि [<<इन्-हन्-पूषर्यम्णां शौ>> 6.4.13 इति उपधादीर्घः ] प्रश्नः - अस्मिन् सूत्रे 'अत्' इति किमर्थमुक्तमस्ति? पूर्वसूत्रात् 'आत्' इत्यस्य अनुवृत्तिं स्वीकुर्मश्चेदपि सुँ-प्रत्यये परे सवर्णदीर्घेन, तथा अन्येषु सर्वनामस्थानपरेषु उपधादीर्घेण तदेव अन्तिमरूपम् सिद्ध्यति किल? उत्तरम् - आम् । परन्तु वेदानाम् विषये ऋभुक्षिन्-शब्दस्य सर्वनामस्थाने परे विकल्पेन 'ऋभुक्षणम्' एतद् अपि रूपम् सिद्ध्यति । अयम् विकल्पः <<वा षपूर्वस्य निगमे>> 6.4.9 अनेन सूत्रेण दीयते । अस्य रूपसिद्धौ इकारस्य स्थाने अकारस्यैव आदेशः करणीयः । प्रक्रिया इयम् - ऋभुक्षिन् + अम् [द्वितीयैकवचनस्य प्रत्ययः] → ऋभुक्ष् अन् + अम् [<<इतोऽत् सर्वनामस्थाने>> 7.1.86 इत्यनेन इकारस्य अकारादेशः] → ऋभुक्षन् + अम् [<<सर्वनामस्थाने चासम्बुद्धौ>> 6.4.8 इत्यनेन नकारान्तस्य अङ्गस्य उपधादीर्घे प्राप्ते <<वा षपूर्वस्य निगमे>> 6.4.9 इति विकल्पेन उपधादीर्घनिषेधः] → ऋभुक्षणम् [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> 8.4.2 इति णत्वम्] अत्र <<इतोऽत् सर्वनामस्थाने>> 7.1.86 अस्मिन् सूत्रे यदि अत्-इत्यस्य स्थाने आत्-इत्यस्य अनुवृत्तिं स्वीकुर्मश्चेत् उपधादीर्घस्य अभावे अपि ऋभुक्षाणम् इत्येव रूपसिद्धिः अभविष्यत् । अतः अत्र अत्-इति निर्देशः आवश्यकः अस्ति ।

Balamanorama

Up

<<इतोऽत् सर्वनामस्थाने>> - इतोऽत् । पथिमथ्यृभुक्षाम् इत्यनुवर्तते । 'इत' इति तपरकरणं स्पाष्टार्थं , पथ्यादिषु त्रिषु दीर्घप्लुतयोरसंभवात् । भाव्यमानत्वादेव सवर्णाऽग्रहकत्वे सिद्धे अदिति तपरकरणमपि स्पाष्टार्थमेव । तदाह — पथ्यादेरित्यादिना । पथ आ स् इति स्थिते ।

Padamanjari

Up

अद्वचनं किमर्थम्, ह्रस्वस्य श्रवण् यथा स्यात् नैतदस्ति सै तावदकः सवर्णदीर्घत्वं भवति, अन्यत्रापि नोपषायाः, सर्वनामस्थाने इति दीर्घेण भाव्यम्, तस्मात्प्रकृत आकार एव विधेयः अत आह - आदिति वर्तमान इति । यत्रायं विहितोऽकारः षपूर्वो भवति तत्रास्य प्रयोजनमित्यर्थः । तदेव दर्शयति - ऋभुक्षणमित्यत्रेति । अकारविधौ त्वेकमेव रुपं स्याद् । दीर्घविकल्पस्तु तक्षणाम्, तक्षाणामित्याद्यर्थ स्यात् । स्थानिन्यादेशे च तपरकरणं मुखसुखार्थम् ॥