6-4-71 लुङ्लङ्लृङ्क्षु अट् उदात्तः असिद्धवत् अत्र आभात्
लुङ्-लङ्-लृङ्क्षु अङ्गस्य अट् उदात्तः
लुङ्लकारे, लङ्लकारे, लृङ्लकारे च परे अङ्गस्य उदात्तः अट्-आगमः भवति ।
In case of the लुङ्लकार, लङ्लकार and लृङ्लकार, the अङ्ग gets an 'अट्' आगम, which is also उदात्त.
लुङ् लङ् लृङ् इत्येतेषु परतोऽङ्गस्याडागमो भवति, उदात्तश्च स भवति । लुङ् — अकार्षीत्। अहार्षीत्। लङ् — अकरोत्। अहरत्। लृङ् — अकरिष्यत्। अहरिष्यत्॥
एषु परेष्वङ्गस्याडागमः स्यात्स चोदात्तः ॥
एष्वङ्गस्याट्॥
लुङ्लकारस्य , लङ्लकारस्य, लृङ्लकारस्य प्रत्यये परे अङ्गस्य 'अट्' आगमः भवति । सः च उदात्तसंज्ञकः भवति । यथा - 1. पठ् + लङ् [<<अनद्यतने लङ्>> 3.2.111 इति लङ्] → अट् + पठ् + लङ् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> 6.4.71 इति अट्-आगमः] → अ + पठ् + तिप् [<<तिप्तस्..>> 3.4.78 इति तिप्] → अ + पठ् + शप् + ति [<<कर्तरि शप्>> 3.1.68 इति शप्] → अ + पठ् + अ + त् [<<इतश्च>> 3.4.100 इति इकारलोपः] → अपठत् 2. पठ् + लुङ् [<<लुङ्>> 3.2.110 इति लुङ्] → पठ् + च्लि + ल् [<<च्लि लुङि>> 3.1.43 इति लुङ्लकारस्य प्रत्यये परे लकारविकरणम् 'च्लि'] → पठ् + सिच् + ल् [<<च्लेः सिच्>> 3.1.44 इति च्ले-इत्यस्य सिच्-आदेशः ।] → अट् पठ् + स् + ल् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> 6.4.71 इति अट्-आगमः] → अ पठ् + स् + तिप् [<<तिप्तस्..>> 3.4.78 इति तिप्] → अ पठ् + स् + त् [<<इतश्च>> 3.4.100 इति इकारलोपः] → अ पठ् + इट् स् + त् [<<आर्द्धधातकस्य इड्वलादेः>> 7.2.35 इति इडागमः] → अ पठ् + इ स् + ईट् त् [<<अस्तिसिचोऽपृक्ते>> 7.3.96 इति ईट्-आगमः] → अ पठ् / पाठ् + इ स् + ई त् [<<अतो हलादेर्लघोः>> 7.2.7 इति वैकल्पिकवृद्धिः] → अ पठ्/पाठ् + इ + ई + त् [<<इट ईटि>> 8.2.28 इति सकारलोपः] → अपठीत् / अपाठीत् [<!सिज्लोप एकादेशे सिद्धो वाच्यः!> अनेन वार्तिकेन सवर्णदीर्घ-एकादेशे कर्तव्ये सिच्लोपः सिद्धः अस्ति । अतः <<अकः सवर्णे दीर्घः>> 6.1.101 इति सवर्णदीर्घः] [ अस्य अर्थः अयम् - यदि एकादेशः कर्तव्यः अस्ति, तर्हि सिच्-प्रत्ययस्य कृतः लोपः (यद्यपि त्रिपाद्या क्रियते, तथापि, सपादसप्ताध्याय्याः) एकादेश-कारकेभ्यः सूत्रेभ्यः सिद्धः अस्ति । इत्युक्ते, एतानि सूत्राणि सकारलोपं द्रष्टुं शक्नुवन्ति । ] 3. पठ + लृङ् [<<लिङ्निमित्ते लृङ् क्रियातिपत्तौ>> 3.3.139 इति लृङ्] → अट् + पठ् + लृङ् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> 6.4.71 इति अट्-आगमः] → अट् + पठ् + स्य + लृङ् [ <<स्यतासी लृलुटोः>> 3.1.33 इति विकरणम् 'स्य'] → अ + पठ् + स्य + तिप् [<<तिप्तस्..>> 3.4.78 इति तिप्] → अ+ पठ् + इट् स्य + ति [<<आर्द्धधातुकस्य इड्वलादेः>> 7.2.35 इति इडागमः] → अ पठ् + इ स्य + त् [<<इतश्च>> 3.4.100 इति इकारलोपः] → अपठिष्यत् [<<आदेशप्रत्यययोः>> 8.3.59 इति षत्वम् ] विशेषः - 1. <<यस्मात् प्रत्ययविधिः तदादि प्रत्ययेङ्गम्>> 1.4.13 अनया व्याख्यया लकारस्य अङम् 'धातुः' अस्ति, यतः <<धातोः>> 3.1.91 अस्मिन् अधिकारे लकाराः पाठिताः सन्ति । अतः उपसर्गस्य उपस्थितौ अपि अडागमः केवलम् धातोः एव भवति, उपसर्गस्य न । यथा - सम् + गम् + लङ् [<<अनद्यतने लङ्>> 3.2.111 इति लङ् । <<समो गम्यृच्छि..>> 1.3.29 इति आत्मनेपदम्] → सम् + अट् + गम् + लङ् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> 6.4.71 इति अट्-आगमः । अयमागमः धातोः पूर्वम् भवति, उपसर्गात् पूर्वम् न ।] → सम् + अ + गम् + त [<<तिप्तस्..>> 3.4.78 इति आत्मनेपदस्य प्रथमपुरुषेकवचनस्य प्रत्ययः 'त'] → सम् + अ + गम् + शप् + त [<<कर्तरि शप्>> 3.1.68 इति शप्] → सम् + अ + गछ् + अ + त [<<इषुगमियमां छः>> 7.3.77 इति छकारादेशः] → सम् + अ + गत् छ् + अ + त [ <<छे च>> 6.1.73 इति तुगागमः] → सम् + अ + गच् छ् + अ + त [<<स्तोः श्चुना श्चुः>> 8.4.40 इति श्चुत्वम्] → समगच्छत 2. यदि धातोः आदिवर्णः स्वरः अस्ति (यथा - अट्, इण् - आदयः), तर्हि वर्तमानसूत्रेण प्रोक्तस्य अडागमस्य अपवादत्वेन <<आडजादीनाम्>> 6.4.72 अनेन सूत्रेण आडागमः भवति । यथा, इष्-धातोः लङ्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - इष् + लङ् [<<अनद्यतने लङ्>> 3.2.111 इति लङ् । ] आट् + इष् + लङ् [<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> 6.4.71 इत्यनेन अडागमे प्राप्ते अपवादत्वेन <<आडजादीनाम्>> 6.4.72 इति आडागमः] → आ + इष् + तिप् [<<तिप्तस्..>> 3.4.78 इति तिप्] → आ + इष् + शप् + ति [<<कर्तरि शप्>> 3.1.68 इति शप्] → आ + इछ् + अ + ति [<<इषुगमियमां छः>> 7.3.77 इति छकारादेशः] → ऐछ् + अ + ति [<<आटश्च>> इति वृद्धि-एकादेशः] → ऐत् छ् + अ + ति [<<छे च>> 6.1.73 इति तुगागमः । <<षत्वतुकोरसिद्धः>> 6.1.86 इत्यनेन वृद्धि-एकादेशः तुगागमार्थमसिद्धः अस्ति ।] → ऐत् छ् + अ + त् [<<इतश्च>> 3.4.100 इति इकारलोपः] → ऐत् छ् + अ + त् [ <<स्तोः श्चुना श्चुः>> 8.4.40 इति श्चुत्वम्] → ऐच्छत् 3. यदि धातोः आदिवर्णः व्यञ्जनमस्ति, परन्तु प्रक्रियायाम् तस्य स्थाने स्वरादेशः भवति, तथापि अनेन सूत्रेण अडागमः न भवति, अपितु अपवादत्वेन <<आडजादीनाम्>> 6.4.72 अनेन सूत्रेण आडागमः भवति । यथा, 'वेञ्' धातोः कर्मणि-प्रयोगे लङ्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - वेञ् + लङ् [<<अनद्यतने लङ्>> 3.2.111] → वेञ् + त [<<भावकर्मणोः>> 1.3.13 इति आत्मनेपदम् । <<तिप्तस्झि..>> 3.4.78 इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य 'त' प्रत्ययः] → वेञ् + यक् + त [<<सार्वधातुके यक्>> 3.1.67 इति यक्-विकरणम्] → उ + य + त [<<वचिस्वपियजादीनां किति>> 6.1.15 इति सम्प्रसारणम् , <<सम्प्रसारणाच्च>> 6.1.108 इति पूर्वरूपः] → आट् + उ + य + त [<<आडजादीनाम्>> 6.4.72 इति आडागमः ।] → औयत [<<आटश्च>> 6.1.90 इति वृद्धि-एकादेशः] वस्तुतः अट्-आगमः लकारस्य उपस्थितौ, लादेशात् पूर्वमेव भवितुमर्हति, यतः अस्मिन् सूत्रे 'लुङ्-लङ्-लृङ्क्षु ' इति निर्दिष्टमस्ति । तथापि, लकारस्य तिबादयः आदेशाः अन्तरङ्गकार्याणि सन्ति, तथा अडागमः बहिरङ्गकार्यमस्ति । अतः अन्तरङ्गकार्यात् अनन्तरम् यदि अङ्गस्य आदिवर्णे परिवर्तनं भूत्वा तस्य स्वरादेशः भवेत्, तर्हि आदौ तादृशमादेशं कृत्वा अनन्तरमेव आडागमः करणीयः । एवं नास्ति चेत् तु आरम्भे एव अडागमः करणीयः । ज्ञातव्यम् - <<आगमाः अनुदात्ताः भवन्ति>> इयम् काचन परिभाषा अस्ति । अनया परिभाषया सर्वे आगमाः अनुदात्ताः विधीयन्ते । परन्तु अस्मिन् सूत्रे 'उदात्तः' इति स्पष्टरूपेण निर्दिष्टमस्ति, अतः अयमागमः उदात्तः एव ज्ञातव्यः ।
<<लुङ्लङ्लृङ्क्ष्वडुदात्तः>> - लुङ्लङ्लृङ्क्ष्वु । अङ्गस्येत्यधिकृतम् । तादह — एषु परेषु अङ्गस्येति । अन्तरङ्गत्वान्नित्यत्वात्परत्वाच्च यथायथं तिपि शपि विकरणे गुणेऽवादेशे विकरणविशिष्टस्याङ्गस्य अडागमः ।लावस्थायामेवाऽडागम॑ इति तु पक्षान्तरं भाष्ये स्थितम् ।