समानकर्तृकयोः पूर्वकाले

3-4-21 समानकर्तृकयोः पूर्वकाले प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्त्वा

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

समानः कर्ता ययोर्धात्वर्थयोस्तत्र पूर्वकाले धात्वर्थे वर्तमानाद् धातोः क्त्वाप्रत्ययो भवति। शक्तिशक्तिमतोर्भेदस्याविवक्षितत्वात् समानकर्तृकता। भुक्त्वा व्रजति। पीत्वा व्रजति। द्विवचनमतन्त्रम्। स्नात्वा पीत्वा भुक्त्वा दत्त्वा व्रजति। समानकर्तृकयोरिति किम्? भुक्तवति ब्राह्मणे व्रजति देवदत्तः। पूर्वकाल इति किम्? व्रजति च जल्पति च॥ आस्यं व्यादाय स्वपिति चक्षुः संमील्य हसतीत्युपसंख्यानम्, अपूर्वकालत्वात्॥

Siddhanta Kaumudi

Up

समानकर्तृकयोर्धात्वर्थयोः पूर्वकाले विद्यमानाद्धातोः क्त्वा स्यात् । क्त्वा तु अव्ययकृतो भावे । भुक्त्वा व्रजति । द्वित्वमतन्त्रम् । स्नात्वा भुक्त्वा पीत्वा व्रजति । अनुदात्त-<{SK2428}> इत्यनुनासिकलोपः । विष्णुं नत्वा स्तौति । स्वरत्यादेः श्र्युकः किति <{SK2381}> इति नित्यमिडभावः पूर्वविप्रतिषेधेन । स्वृत्वा । सूत्वा । धूत्वा ॥

Laghu Siddhanta Kaumudi

Up

समानकर्तृकयोर्धात्वर्थयोः पूर्वकाले विद्यमानाद्धातोः क्त्वा स्यात्। भुक्त्वा व्रजति। द्वित्वमतन्त्रम्। भुक्त्वा पीत्वा व्रजति॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

क्रियापेक्षत्वात्कर्तृभावस्य धात्वधिकारेऽपि तदर्थस्यैव समानर्क्तृकत्वं विज्ञायते, न धातोरित्याह - समानः कर्ता ययोर्धात्वर्थयोरिति । कमानशब्दोऽयमेकवाची, तत्रेति निर्द्धारणे सप्तमीं दर्शयति । षष्ठ।लमपि न दोषः । सप्तमी त्वाश्रिता । पूर्वकाले धात्वर्थे वर्तमानादिति । प्राभाकरास्तु पूर्वप्रयुज्यमानादिति व्याचक्षते, अनुष्ठाने पौर्वकाल्यं नाद्रियन्ते; तद्भाष्यवार्तिकविरोधादुपेक्ष्यम् । उक्तं हि - आस्यं व्यादाय स्वपिति संमील्य हसतीत्युपसंख्यानमपूर्वकालत्वादिति । ननु च शक्तिः कारकम्, सा च प्रतिक्रियं भिद्यते, तत्कुतः समानकर्तृकत्वम् ? इत्यत आह - शक्तिशक्तिमतोरिति । इह समानकर्तृकयोरिति द्विवचननिर्देशः क्रियते, तेन द्वयोरेव पौर्वकाल्ये स्यात्, बहूनांन स्यात्, तत्राह - द्विवचनमतन्त्रमिति । अवश्यं येन केनचिद्ववचनेन निर्देशः कर्तव्यः, तत्र समानकर्तृकत्वस्य पूर्वकालत्वस्य च भेदाधिष्ठानत्वाद्भेदनिबन्धनयोर्व्दिवचनबहुवचनयोः प्रथमभावित्वाद् द्विवचनं प्रयुक्तम्, न त्वैततन्त्रमित्यर्थः । एवमपि लोकविज्ञानान्न सिद्ध्यति, तद्यथा लोके - अमीषां ब्राह्मणाअनां पूर्व आनीयताम् इत्युक्ते सर्वपूर्व एवानीयते, एवमिहापि सर्वपूर्वायाः क्रियायाः प्राप्नोति, तस्मादेवं वक्तव्यम् - सर्वेषामेवात्र व्रजि प्रति पौर्वकाल्यम्, स्नात्वा व्रजति भुक्त्वा व्रजति पीत्वा व्रजतीति । आख्यातवाच्या हि क्रिया विशेष्यत्कात्प्रधानम्, तेन तां प्रति सर्वासां विशेषणत्वात्परस्परेणासम्बन्धः, तदुक्तम् -'गुणानां च परार्थत्वादसम्बन्धः समत्वात्स्यात्' इति । एवं च कृत्वा प्रयोगोऽप्यनियतो भवति - स्नात्वा भुक्त्वा पीत्वा व्रजति, पीत्वा स्नात्वा भुक्त्वा व्रजतीति । भुक्तवति ब्राह्मण इति । ननु तुमर्थाधिकाराद्भावे क्त्वाप्रत्ययः, क्तवतुस्तु कर्तरि ? एवं तर्ह्यस्मिन्विषये भावे न भवतीति प्रत्युदाहरणत्वं वाच्यम्,'श्रीशैलशिखरं दृष्ट्वा सर्वपापैः प्रमुच्यते' इत्येवमादीनां कर्तृभेदविषयाणां प्रयोगाणामसाधुत्वमेव । व्रजति जल्पति चेति । यौगपद्यादिह पूर्वकालता नास्ति । अपूर्वकालत्वादि । पूर्वं ह्यसौ स्वपिति पश्चाद्व्याददाति, यदैव हसति तदैव संमीलयति, न वा स्वप्नस्यापरकालत्वात्, अस्यं त्वसौ व्यादाय मुहूर्तमपि स्वपिति संमील्य च हसति, ततश्चोतरकालभाविस्त्वापहासाद्यपेक्षं पौर्वकाल्यं तदाश्रयश्च प्रत्ययः । इह कस्मान्न भवति - पूर्वं भुङ्क्ते, ततो व्रजतीति ? स्वशब्देनोक्तत्वात् ।'विभाषाग्रे' इत्यनेनापि न भवति, किं कारणम् ? साधनपौर्वाकाल्यविषयाणामग्र्यादीनां तत्र ग्रहणम्, अन्येभ्यो भोक्तृभ्यः पूर्वं भुक्त्वा ततो व्रजतीति । इह तु व्रज्यपेक्षं भोजनस्य यत्पौर्वकाल्यं तत्र क्त्वाप्रत्ययश्चोद्यते, तत्पूर्वशब्देनोक्तम् । न च वचनसामर्थ्यादुक्तेऽपि प्रसङ्गः; साधनपौर्वकाल्यविषयेऽग्र्यादावुपपदे चरिताथेत्वात् । क्रियाविषयत्वाच्च कालव्यवहारस्य तद्द्वारकमेव साधनपौर्वकाल्यं द्रष्टव्यम् । उक्तं हि - क्रियाभेदाय कालस्तु संख्या सर्वस्य भेदिका । इति । इहास्यते भोक्तुमिति वासरूपेण लड् भवति, यदा आसेः क्त्वा भवति तदा भुजेर्लडादय एव भवन्ति - आसित्वा भुङ्क्त इति, न तु तुमुन् ; अनभिधानात् । आसित्वा भोक्तुमित्युक्ते प्रक्रमत इत्यादीनां सम्बन्धः प्रतीयते ॥