6-1-131 दिवः उत् संहितायाम्
index: 6.1.131 sutra: दिव उत्
दिवः पदस्य उत्
index: 6.1.131 sutra: दिव उत्
'दिव्' इत्यस्य पदसंज्ञायां सत्याम् तस्य उत्-आदेशः भवति ।
index: 6.1.131 sutra: दिव उत्
The 'दिव्' word that is a पद also gets the उत्-आदेश.
index: 6.1.131 sutra: दिव उत्
एङः पदान्तादति 6.1.109 इत्यतः पदग्रहणमनुवर्तते। दिवः इति प्रातिपदिकं गृह्यते, न धातुः, सानुबन्धकत्वात्। दिवः पदस्य उकारादेशो भवति। दिवि कामो यस्य द्युकामः। द्युमान्। विमलद्यु दिनम्। द्युभ्याम्। द्युभिः। निरनुबन्धकग्रहणादिह न भवति, अक्षद्यूभ्याम्, अक्षद्यूभिः इति। तपरकरणम् ऊठो निवृत्त्यर्थम्, द्युभ्याम्, द्युभिः इति। अत्र हि परत्वातूट्ः प्राप्नोति। पदस्य इति किम्? दिवौ। दिवः।
index: 6.1.131 sutra: दिव उत्
दिवोऽन्तादेश उकारः स्यात्पदान्ते । सुद्युभ्याम् । सुद्युभिः । चत्वारः । चतुरः । चतुर्भिः । चतुर्भ्यः । चतुर्भ्यः ॥
index: 6.1.131 sutra: दिव उत्
दिवोऽन्तादेश उकारः स्यात् पदान्ते । सुद्युभ्यामित्यादि ॥ चत्वारः । चतुरः । चतुर्भिः । चतुर्भ्यः ॥
index: 6.1.131 sutra: दिव उत्
'दिव्' (स्वर्गः) इति वकारान्तस्त्रीलिङ्गः शब्दः । इदम् अव्युत्पन्नम् प्रातिपदिकम् अस्ति । कुत्रचित् 'दिव्' धातोः डिवि इति उणादिप्रत्यये कृते अस्य सिद्धिः दीयते । परन्तु इदं दिव्-धातोः क्विबन्तम् नास्ति ।
प्रक्रियायाम् यदा अस्य शब्दस्य पदसंज्ञा भवति तदा प्रकृतसूत्रेण तस्य उकारादेशः भवति । कानिचन उदाहरणानि एतानि —
दिव् + भ्याम् [तृतीयैकवचनस्य प्रत्ययः । अस्मिन् प्रत्यये परे दिव्-शब्दस्य स्वादिष्वसर्वनामस्थाने 1.4.17 इति पदसंज्ञा भवति ।]
→ दि उ + भ्याम् [दिव उत् 6.1.131 इति उत्-आदेशः । अलोऽन्त्यस्य 1.1.52 इति अन्त्यादेशः]
→ द्युभ्याम् [इको यणचि 6.1.77 इति यणादेशः ।]
द्यौः अस्य अस्ति [तद्धितवृत्तिः]
दिव् + मतुप् [तदस्यास्त्यस्मिन्निति मतुप् 5.2.94 इति मतुप्-प्रत्ययः । अस्मिन् प्रत्यये परे दिव्-शब्दस्य स्वादिष्वसर्वनामस्थाने 1.4.17 इति पदसंज्ञा भवति ।]
→ दिउ + मत् [दिव उत् 6.1.131 इति उत्-आदेशः ।]
→ द्युमत् [इको यणचि 6.1.77 इति यणादेशः ।]
दिवि कामः अस्य [अनेकमन्यपदार्थे 2.2.24 इति बहुव्रीहिसमासः]
→ दिव् + काम [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुप्-प्रत्यययोः लुक् । पूर्वपदस्य प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इत्यनेन सुबन्तत्वात् पदसंज्ञा ।]
→ दिउ + काम [दिव उत् 6.1.131 इति उत्-आदेशः ।]
→ द्युकाम [इको यणचि 6.1.77 इति यणादेशः ।]
प्रकृतसूत्रे विद्यमानः दिवः इति षष्ठ्यन्तः शब्दः 'पदस्य' इति शब्दस्य विशेषणरूपेण प्रयुक्तः अस्ति । येन विधिस्तदन्तस्य 1.1.72 इत्यनेन अयं शब्दः तदन्तस्य अपि ग्रहणं करोति, अतः प्रकृतसूत्रेण उक्तः
सुदिव् + भ्याम् [तृतीयैकवचनस्य प्रत्ययः । अस्मिन् प्रत्यये परे दिव्-शब्दस्य स्वादिष्वसर्वनामस्थाने 1.4.17 इति पदसंज्ञा भवति ।]
→ सदि उ + भ्याम् [दिव उत् 6.1.131 इति उत्-आदेशः ।]
→ सुद्युभ्याम् [इको यणचि 6.1.77 इति यणादेशः ।]
विमलदिव् + अम् [द्वितीयैकवचनस्य प्रत्ययः ]
→ विमलदिव् [स्वमोर्नपुंसकात् 7.1.23 इति अम्-प्रत्ययस्य लुक् । प्रत्ययस्य लोपे कृते अपि प्रत्ययलक्षणम् पदत्वम् अवश्यम् विधीयते ।]
→ विमलदि उ + भ्याम् [पदान्ते विद्यमानस्य वकारस्य दिव उत् 6.1.131 इत्यनेन उत्-आदेशः ।]
→ विमलद्युभ्याम् [इको यणचि 6.1.77 इति यणादेशः ।]
दीव्यति इति
→ दिवुँ (क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु, दिवादिः, <{4.1}>)
→ दिव् + क्विप् + भ्याम् [क्विप् च 3.2.76 इति क्विप्-प्रत्ययः । ततः तृतीयाद्विवचनस्य भ्याम्-प्रत्ययः]
→ दिव् + ० + भ्याम् [ककारपकारयोः इत्संज्ञा, लोपः । तुगागमस्य उकारः उच्चारणार्थः अस्ति, तस्यापि लोपः भवति । ततः अपृक्त-वकारस्य वेरपृक्तस्य 6.1.67 इति लोपः भवति ।]
→ दि ऊठ् + भ्याम् [लुप्त-क्विप्-प्रत्यये परे अपि प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इत्यनेन प्रत्ययलोपे कृते अपि प्रत्ययविशिष्टं कार्यम् प्रवर्तते, अतः च्छ्वोः शूडनुनासिके च 6.4.19 इति वकारस्य 'ऊठ्' आदेशः भवति ।]
→ द्यूभ्याम् [इको यणचि 6.1.77 इति यणादेशः]
अत्र प्रक्रियायाम् दिव उत् 6.1.131 इति सूत्रम् नैव प्रवर्तते । अस्मिन् सूत्रे 'दिव्' इति निरनुबन्धकः शब्दः प्रयुक्तः अस्ति, अयम् शब्दः <ऽनिरनुबन्धकग्रहणे न तदनुबन्धकस्यऽ> इति परिभाषया
प्रकृतसूत्रे 'उत्' इति उकारस्य तपरकरणस्य द्वे प्रयोजने भाष्ये निर्दिष्टे दृश्येते । एताभ्याम् एकम् प्रयोजनम् प्रधानरूपेण स्वीक्रियते, अपरं च गौणरूपेण (एकदेश्युक्तिरूपेण) स्वीक्रियते । एते द्वे प्रयोजने एतादृशे —
प्रकृतसूत्रे उकारः आदेशरूपेण उच्यते, अतः अयम् हस्वः उकारः वस्तुतः दीर्घभेदस्य ग्रहणं नैव करोति, इति अणुदित् सवर्णस्य चाप्रत्ययः 1.1.69 इति सूत्रे विद्यमानेन 'अप्रत्यय' शब्देन स्पष्टीक्रियते । अस्मिन्नेव सन्दर्भे <ऽभाव्यमानः अण् सवर्णान् न गृह्णातिऽ> इति परिभाषा अपि परिभाषेन्दुशेखरे पाठिता अस्ति । इत्युक्ते, अत्र तपरकरणम् तपरस्तत्कालस्य 1.1.70 इत्यनेन तात्कालिकग्रहणार्थम् (दीर्घग्रहणनिषेधार्थम्) च नैव आवश्यकम् । अतश्च, अस्मिन् सूत्रे प्रयुक्तः तकारः सम्पूर्णरूपेण व्यर्थः अस्ति । अयमेव व्यर्थः तकारः भाष्यकारेण — विधीयमानेन उकारेण अपि सवर्णग्रहणम् अवश्यम् भवति — इत्यस्य ज्ञापकरूपेण स्वीकृतः अस्ति । एतादृशम् भाष्यवचनम् च प्रमाणरूपेण स्वीकृत्य परिभाषेन्दुशेखरे <ऽभाव्यमानोऽप्युकारः सवर्णान् गृह्णातिऽ> इति परिभाषा अपि पाठिता वर्तते । अस्मिन्नेव विषये प्रकृतसूत्रस्य प्रदीपव्याख्याने कैयटः इत्थं विवृणोति —
ननु भाव्यमानत्वात् उकारः भिन्नकालं न ग्रहीष्यति इति न अर्थः तकारेण । एवं तर्हि तपरत्वम् एव ज्ञापकम् — भाव्यमानः अपि उकारः भिन्नकालं सवर्णं गृह्णाति इति । तेन अमूभ्याम् इत्यादौ दीर्घस्य दीर्घो भवति ।
अदसोऽसेर्दादु दो मः 8.2.80 इति सूत्रे उपस्थितः 'उ' इति विधीयमानः वर्णः अस्याः परिभाषायाः आधारेणैव सवर्णग्रहणं करोति, येन
केचन वैयाकरणाः तु ऋत उत् 6.1.111 इति सूत्रे विद्यमानस्य तपरकरणस्य व्यर्थत्वम् एव <ऽभाव्यमानोऽप्युकारः सवर्णान् गृह्णातिऽ> अस्याः परिभाषायाः ज्ञापकरूपेण स्वीकुर्वन्ति, ततश्च प्रकृतसूत्रे विद्यमानम् तपरकरणम् सवर्णग्रहणनिषेधार्थम् विद्यते इति प्रतिपादयन्ति । अयं पक्षः अपि अस्यैव सूत्रस्य भाष्ये निर्दिष्टः वर्तते । अस्य पक्षस्य प्रणेतारः आदौ च्छ्वोः शूडनुनासिके च 6.4.19 इत्यस्मिन् सूत्रे 'क्ङिति' इति पदम् नैव अनुवर्तयन्ति । इत्युक्ते, एतेषाम् मतेन सर्वेषु अपि झलादि-प्रत्ययेषु परेषु च्छ्वोः शूडनुनासिके च 6.4.19 इति सूत्रस्य प्राप्तिः अवश्यं वर्तते, न हि केवलम् कित्/ङित्-प्रत्ययेषु परेषु । अस्यां स्थितौ, उपरिनिर्दिष्टायाम्
अयं पक्षः गौणरूपेण एव स्वीकार्यः, यतः अस्मिन् पक्षे च्छ्वोः शूडनुनासिके च 6.4.19 इत्यत्र 'क्ङिति' इत्यस्य (प्रायेण सर्वेः अपि अनुमन्यमाना) अनुवृत्तिः न हि स्वीक्रियते ।
index: 6.1.131 sutra: दिव उत्
सुट् कात् पूर्वः (अडभ्यासव्यवायेऽपि) - सुट् कात्पूर्वः । षष्ठस्याद्यपादे इदं सूत्रम् ।संपरिभ्यां करोतौ भूषणे॑ 'समवाये च'उपात्प्रतियत्ने॑त्यारभ्यअनुदात्तं पदमेकवर्जमित्यतः प्रागिदमधिकृतं वेदितव्यमित्यर्थः । एवं च कात्पूर्व इत्युक्तेरभ्यासात्प्राङ्नं सुडिति भावः । नन्वभ्यासेन व्यवधानात्कथमिह उत्तरखण्डस्य सुट्, संस्करोतीत्यादौ अव्यहिते सुड्विधेश्चरितार्थत्वात् । किंच समस्करोदित्यत्राऽटा व्यवधानात्कथं सुट् । नह्रडागमः कृञ्भक्तःत्वात् । विकरणान्तस्यैवाङ्गत्वादित्यत आह — अडभ्याससव्यवायेऽपीत्युक्तमिति ।वार्तिक॑मिति शेषः । अटा अभ्यासेन च व्यवधानेऽपि संपर्यादिभ्यः परस्मात्कात्पूर्वः सुडित्यर्थः । इत्यादीति । सुडित्येवाधिकृतमस्तु, 'कात्पूर्वः' इतिअडभ्यासव्यवायेऽपी॑ति मास्त्वित्येवं भाष्ये प्रत्याख्यातमित्यर्थः । तदेवोपपादयितुं प्रतिजानीते — तथा हीति । पूर्वं धातुरुपसर्गेण युज्यते इति ।पश्चात्साधनेने॑ति शेषः । ततश्च पूर्वोपनिपतितधातूपसर्गसम्बन्धनिमित्तकं कार्यं पश्चादनुपतिष्यद्धातुप्रत्ययसंबन्धनिमित्तकात्कार्यादन्तरङ्गम्, प्रथमोपस्थितत्वात् । तदुक्तं भाष्ये — पूर्वं धातुरुपसर्गेणेति कृत्वा धातूपसर्गयोः कार्यमन्तरङ्ग॑ मिति । तदाह — अन्तरङ्गत्वात्सुट् । ततो द्वित्वमिति । तथा सुटि कृते 'स्कृ' इत्यस्य द्वित्वे उरदत्त्वे रपरत्वे 'शर्पूर्वाः खयः' इति रेफसकारयोर्निवृत्तौ अभ्यासचुत्वे संचस्कारेति रूपसिद्धेः 'कात्पूर्वः' इति,अडभ्यासव्यवायेऽपी॑ति च न कर्तव्यमिति भावः । एवं समस्करोदित्यत्रापि विकरणान्ताऽङ्गभक्ताऽडागमापेक्षयाऽन्तरङ्गत्वात्प्रथमं सुड्भविष्यतीति कृत्वाअड्व्यवायेऽपी॑त्यंशो न कर्तव्य इत्यूह्रम् ।पूर्वं धातुरुपसर्गेणे॑त्याश्रयणे फलान्तरमप्याह — एवं चेति । उक्तरीत्या अन्तरङ्गत्वात्सुटि कृते संस्कृ इत्यस्माल्लिटोऽतुसिऋतश्च संयोगादेर्गुणः॑ इति गुणे संचरस्करतुरिति सिद्ध्यति ।पूर्वं धातुः साधनेन युज्यते॑ इत्याश्रयणे तु चक्रतुरिति परिनिष्ठितस्य समित्युपसर्गयोगात्संयोगादित्वाऽभावाद्गुणस्याऽसिद्धिरिति भावः । ननु संचस्करिव, संचस्करिथ इत्यत्र चकृसृवृभृ॑इतिऋतो भारद्वाजस्ये॑ति च इण्निषेधः स्यादित्यत आह — कृसृभृवृसूत्रे इत्यादि । नन्वाशीर्लिङि संस्क्रियादित्यत्रगुणोऽर्तिसंयोगाद्यो॑रिति गुणः कुतो नेत्यत आह — गुणोऽर्तीत्यादि । ननु तङि संस्कृषीष्ट इति लिङि, समस्कृत समस्कृत समस्कृषातामिति लुङि चऋतश्च संयोगादे॑रिति इट् कुतो नेत्यत आह-ऋतश्चेत्यादि ॥ इति बालमनोरमायाम् तनादयः॥अथ तत्पुरुषसमासप्रकरणम् । — — — — — — — — — —
index: 6.1.131 sutra: दिव उत्
पदग्रहणमनुवर्तत इति। अन्तग्रहणेनोपसमस्तमपि केवलं पदग्रहणमेवानुवर्तते, ततश्चार्थात् षष्ठ।ल्न्तं जायते, दिवशब्देन विशेषणातदन्तविधिः,'ग्रहणवता प्रातिपदिकेन' इति तु प्रत्ययविधिविषयम्। व्यपदेशिवद्भावात् केवलस्यापि भवितव्यम्,'व्यपदेशिवद्भावो' प्रातिपदिकेनऽ इत्येतदपि प्रत्ययविधिविषयमेव। सानुबन्धकत्वादिति। दीव्यतेर्धातोरुकारोऽनुबन्धः, प्रातिपदिकस्य तु न कश्चिदनुबन्धः। दिवः पदस्येति। तदन्तस्य पदस्येत्यर्थः। द्यौकाम इति। दिवं कामयते इति'शीलिकामिभिक्षाचरिभ्यो णः' विमलद्यौ इति। विमला द्यौरऽस्मिन्निति बहुव्रीहिः। अक्षद्यौभ्यामिति। अक्षशब्द उपपदे दीव्यतेः क्विप्, तत्र'च्छवोः शूडनासिते च' इत्यूठ। अथ तपरकरणं किमर्थम्, यद्यपि ठृत उत्ऽ इति तपरकरणेन ज्ञापितम् -ठ्भाव्यमानोऽप्युकारः सवर्णान् गृह्णातिऽ इति, तथाप्यान्तर्थतोऽर्द्धमात्राकालस्य व्यञ्जनस्य मात्रिक एव भविष्यति? इत्यत आह -तपरकरणमिति। यद्यप्यनेन दीर्घो न प्राप्नेति, प्राप्नोति, लक्षणान्तरेण तु प्राप्तोतीत्याह -द्यौभ्याम्, द्यौभिरिति। उत्वस्यावकाशो यत्रायजादिपरः -विमलद्यौ, ऊठोऽवकाशः -द्यौउत्वा, द्यौउतम्; यत्र तूभयोः प्रसङ्गस्तत्र परत्वादूठ प्राप्नोति, तपरकरणादुत्वमेव भवति। यदि प्राप्तस्योठो निवृत्यर्थं तपरकरणमित्युच्यते एवं तर्हि'चछवोः शूडनुनासिते च' इत्यत्र'कथं द्यौभ्याम्, द्यौभिः' इति परेण चोदिते यद्वक्ष्यति -ठूठि कृते दिव उदिति तपरकरणानामात्राकालो भविष्यतिऽ, तद्विरुद्ध्यते, तस्य ह्यौउठि कृते तस्यैवोठो मात्राकालो भविष्यतीत्ययमर्थः ? नैषः दोषः; ठूठि कृतेऽ इत्येतस्य पूर्वेण चोद्यग्रन्थेन सम्बन्धः -ठ्कथं द्यौभ्यां द्यौभिरिति, ऊठि कृतेऽ इति;'दिव उत् इति तपरकरणात् मात्राकालो भविष्यति' इत्येतावान् परिहारग्रन्थः। तपरकरणस्य तूण्निवृत्तिरेव प्रयोजनम्। तस्मादुत्वमेवात्र कर्तव्यम्, न पुनरुडित्यर्थः ॥