विसर्जनीयस्य सः

8-3-34 विसर्जनीयस्य सः पदस्य पूर्वत्र असिद्धम् संहितायाम्

Sampurna sutra

Up

पदस्य विसर्जनीयस्य खरि सः

Neelesh Sanskrit Brief

Up

पदान्ते विद्यमानस्य विसर्गस्य संहितायाम् खर्-वर्णे परे सकारादेशः भवति ।

Neelesh English Brief

Up

A विसर्ग occurring at end of a पद is converted to a सकार when followed by a letter from the खर् प्रत्याहार.

Kashika

Up

खरीत्यनुवर्तते। विसर्जनीयस्य सकार आदेशो भवति खरि परतः। वृक्षश्छादयति। प्लक्षश्छादयति। वृक्षष्ठकारः। प्लक्षष्ठकारः। वृक्षस्थकारः। प्लक्षस्थकारः। वृक्षश्चिनोति। प्लक्षश्चिनोति। वृक्षष्टीकते। प्लक्षष्टीकते। वृक्षस्तरति। प्लक्षस्तरति॥

Siddhanta Kaumudi

Up

खरि विसर्जनीयस्य सः स्यात् । एतदपवादे वा शरी <{SK151}>ति पाक्षिके विसर्गे प्राप्ते - <!संपुंकानां सो वक्तव्यः!> (वार्तिकम्) ॥ संस्स्कर्ता, सँस्स्कर्ता ॥ समो वा लोपमेके इति भाष्यम् । लोपस्यापि रुप्रकरणस्थत्वादनुस्वारानुनासिकाभ्यामेकसकारं रूपद्वयम् । द्विसकारं तूक्तमेव । तत्र अनचि च <{SK48}> इति सकारस्य द्वित्वपक्षे त्रिसकारमपि रूपद्वयम् । अनुस्वारविसर्गजिह्वामूलीयोपध्यमानीययमानामकारोपरि शर्षु च पाठस्योपसङ्ख्यातत्वेनानुस्वारस्याप्यच्त्वात् । अनुनासिकवतां त्रयाणां ।<!शरः खयः !> (वार्तिकम्) ॥ इति कद्वित्वे षट् । अनुस्वारवतामनुस्वारस्यापि द्वित्वे द्वादश । एषामष्टादशानां तकारस्य द्वित्वे वचनान्तरेण पुनर्द्वित्वे चैकतं द्वितं त्रितमिति चतुष्पञ्चाशत् । अणोऽनुनासिकत्वेऽष्टोत्तरशतम् ॥

Laghu Siddhanta Kaumudi

Up

खरि। चक्रिँस्त्रायस्व, चक्रिंस्त्रायस्व । अप्रशान् किम् ? प्रशान् तनोति । पदस्येति किम् ? हन्ति॥

Neelesh Sanskrit Detailed

Up

खर् = सर्वाणि कर्कशव्यञ्जनानि = वर्गप्रथमाः, वर्गद्वितीयाः, शकारः, षकारः, सकारः । आहत्य 13 वर्णाः । अष्टाध्याय्याम् <<विसर्जनीयस्य सः>> 8.3.34 इत्यतः <<कस्कादिषु च>> 8.3.48 इति यावद्भिः पञ्चदशभिः सूत्रैः विसर्गस्य भिन्नाः आदेशाः प्रोक्ताः सन्ति । अस्य विसर्गादेशप्रकरणस्य इदम् प्रथमम् सूत्रम् । खर्-प्रत्याहारस्य वर्णे परे विसर्गस्य सकारादेशः भवति — इति अस्य सूत्रस्य अर्थः । यथा — राम सुँ चिनोति / छदति / टीकते / ठकारीयते / तरति / थूर्वति → राम रुँ चिनोति / छदति / टीकते / ठकारीयते / तरति / थूर्वति [<<ससजुषो रुः>> 8.2.66 इति पदान्तसकारस्य रुत्वम्] → राम र् चिनोति / छदति / टीकते / ठकारीयते / तरति / थूर्वति [<<उपदेशेऽजनुनासिक इत्>> 1.3.2 इति उकारस्य इत्संज्ञा । <<तस्य लोपः>> 1.3.9 इति लोपः] → रामः चिनोति / छदति / टीकते / ठकारीयते / तरति / थूर्वति [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः] → रामस् चिनोति / छदति / टीकते / ठकारीयते / तरति / थूर्वति [<<विसर्जनीयस्य सः>> 8.3.34 इति सत्वम्] → रामश्चिनोति / रामश्छदति / रामष्टीकते / रामष्ठकारीयते / रामस्तरति / रामस्थूर्वति [चकारे/छकारे परे सकारस्य <<स्तोः श्चुना श्चुः>> 8.4.40 इति श्चुत्वम् । टकारे/ठकारे परे सकारस्य <<ष्टुना ष्टुः>> 8.4.41 इति ष्टुत्वम् ] बाध्यबाधकभावः 1. च्/छ्/ट्/ठ्/त्/थ्-वर्णान् विहाय अन्येषु खर्-वर्णेषु परेषु प्रकृतसूत्रस्य प्रयोगः न भवति । तदित्थम् — 1. ककारे / खकारे परे विसर्गस्य प्रकृतसूत्रेण सकारादेशे प्राप्ते; तद्बाधित्वा <<कुप्वोः ≍क≍पौ च>> 8.3.37 इत्यनेन विकल्पेन जिह्वामूलीयः विधीयते ; पक्षे विसर्गस्य विसर्गादेशः एव भवति । यथा, रामः करोति → रामःकरोति, राम≍करोति । 2. पकारे / फकारे परे विसर्गस्य प्रकृतसूत्रेण सकारादेशे प्राप्ते; तद्बाधित्वा <<कुप्वोः ≍क≍पौ च>> 8.3.37 इत्यनेन विकल्पेन उपध्मानीयः विधीयते । पक्षे विसर्गस्य विसर्गादेशः एव भवति । यथा, रामः पश्यति → रामःपश्यति, राम≍पश्यति । 3. सकारे / शकारे / षकारे परे विसर्गस्य प्रकृतसूत्रेण नित्यं सकारादेशे प्राप्ते, <<वा शरि>> 8.3.36 इति सः विकल्प्यते । यथा, रामः सहते → रामःसहते, रामस्सहते । 2. खर्-वर्णात् अनन्तरम् यत्र शकारः / षकारः / सकारः अव्यवहितरूपेण विद्यते, तत्र अपि प्रकृतसूत्रेण प्राप्तं सकारादेशं बाधित्वा <<शर्परे विसर्जनीयः>> 8.3.35 इत्यनेन विसर्गस्य पुनः विसर्गादेशः एव भवति । यथा - कः त्सरुः → कःत्सरुः । अत्र तकारात् परः सकारः वर्तते, अतः विसर्गस्य तकारे परे अपि सकारादेशः न भवति । (खड्गस्य मुष्टिः त्सरुः नाम्ना ज्ञायते । The handle of a sword is called त्सरु.)

Balamanorama

Up

<<विसर्जनीयस्य सः>> - विसर्जनीयस्य सः ।खरवसानयो॑रित्यतो मण्डूकप्लुत्या खरीत्यनुवर्तते, एकदेशे स्वरितत्वप्रतिज्ञानात् । केचित्तु विसर्गश्रवणात् खरीत्यार्थिकम्, अवसानस्य तु न संबन्धः, व्याख्यानादित्याहुः । तदाह — खरीति । 'विसर्जनीयस्य स' इति सिद्धेसंपुंकाना॑मिति पुनर्विधानं व्यर्थमित्यत आह — एतदपवादेनेति । पुनर्विधानंवा शरी॑ति पाक्षिकविसर्गबाधनार्थमिति भावः । संपुंकानामिति । सम् पुम्-कान्-एतेषां विसर्गस्य सकारो वक्तव्य इत्यर्थः ।अनेन वार्तिकेनात्र विसर्गस्य नित्यमेव सत्व॑मिति शेषः । सँस्स्कर्तेति । अनुनासिकपक्षे रूपम् । संस्स्कर्तेति । अनुस्वारपक्षे रूपम् । उभयत्रापि द्विसकारत्वमेव । समो वेति । समो मस्य सुटि लोपमेके आचार्या इच्छन्तीत्यर्थः । एकशब्दोऽन्यपर्यायः ।एके मुख्यान्यकेवलाः॑ इत्यमरः । लोपपक्षेप्यनुस्वारानुनासिकाभ्यामेकसकारं रूपद्वयमित्याह — लोपस्यापीति ।अत्रानुनासिकः पूर्वस्य तु वे॑त्यत्र रोः पूर्वस्येत्युपलक्षणं रुप्रकरणविधेयस्य लोपस्यापि, अन्यथा रुप्रकरण इत्यर्थस्यअत्रे॑त्यस्य वैयथ्र्यात् । एवमनुनासिकात्परोऽस्वार इत्यत्र रोः पूर्वस्मादित्यपि । ततस्च समो मलोपस्यापि रुप्रकरणस्थतया लोपात्पूर्ववर्तिनोऽकारस्य कदाचिदनुनासिकः । तदभावपक्षेऽकारात्परोऽनुस्वारागम इत्येवमनुस्वारानुनासिकाभ्यामेकसकारं रूपद्वयमित्यर्थः । द्विसकारं तूक्तमेवेति । 'रुत्वपक्षे' इति शेषः । ननु लोपपक्षे एवाऽनचि चेति सुटः सकारस्य द्वित्वेन द्विसकाररूपद्वयस्य सिद्धत्वात्समः सुटीति रुत्वविधानं व्यर्थमित्यत आह — तत्रेति । तत्र= द्विसकाररूपयोर्मध्ये, रुत्वे सति तत्स्थानिकसकारस्याऽनचि चेति द्वित्वपक्षे त्रिसकारमपि रूपद्वयमित्यर्थः । एतदर्थमेव रुत्वविधानमिति भावः । स्कोरिति लोपस्तु न, र#उत्वस्यासिद्धत्वात् । नच लोपपक्ष एव सुटः सकारस्याऽनचि चेति द्वित्वे प्रथमसकारस्य तेनैव सूत्रेण पुनर्द्वित्वे त्रिसकारमपि रूपद्वयं सिद्धमिति समो रुत्वविधिव्र्यर्थ एवेति वाच्यं,लक्ष्ये लक्षणस्य सकृदेव प्रवृत्ति॑रिति न्यायात् । ननु वर्णसमाम्नायेऽनुस्वारस्य पाठाऽभावादनच्त्वात्ततः । परस्य सकारस्य कथमनुस्वारपक्षे द्वित्वमित्यत आह-अनुस्वारविसर्गेति । एतच्च हयवरट्सूत्रे भाष्ये स्थितम् । अकारोपरीति । इकाराद्युपरि पाठे 'पयःसु' इत्यादौ इणः परस्य विहितमादेशप्रत्ययोरिति षत्वं स्यादिति भावः । कश्चित्तु 'इणः ष' इति षत्वं स्यादिति वदन् वभ्राम, तत्र विसर्गस्यैव षत्वविधेः । एवं चाऽनुनासिकपक्षे एकसकारं द्विसकारं त्रिसकारमिति त्रीणि रूपाणि । एवमनुस्वारपक्षेऽपि त्रीणि रूपाणीति स्थितम् । अनुनासिकवतामिति । अनुनासिकपक्षे एकद्वित्रिसकाराणां कद्वित्वे त्रीणि, तदभावे त्रीणीति षडित्यर्थः । ननु ककारस्याऽचः परत्वाऽभावात्कथमनचि चेति द्वित्वमित्यत आह — शरः खय इतीति । शरः परस्य खयोद्वे वा स्त इति वार्तिकार्थः । एवं चाऽनुनासिकपक्षे द्विककाराणि त्रीणि रूपाणि, एकककाराणि त्रीणिति षडपाणि स्थितानि । अनुस्वारपक्षे तु द्वादश रूपाणीत्याह-अनुस्वारवतामिति । अनुस्वारस्यापीत्यपिना ककारसंग्रहः । अनुस्वारपक्षे एकद्वित्रिसकाराणां रूपाणामनुस्वारस्य शर्षु पाठस्योपशङ्ख्यातत्वेन शत्र्वाद्द्वित्वविल्पे सति द्व्यनुस्वाराणि त्रीणि(३), एकानुस्वाराणि त्रीणि(३) इति षट्(६) । अथ षण्णामप्येषां 'शरः खय' इति ककारस्य द्वित्वविकल्पे सति द्विककाराणि षट्(६) एकककाराणि षट्-इत्यनुस्वारपक्षे द्वादश(१२) इत्यर्थः । एवं च अनुनासिकपक्षे षट्(६) अनुस्वारपक्षे द्वादश(१२) इत्यष्टादश(१८) रूपाणि । एषामिति । उक्तानामष्टादशानां रूपाणां तकारस्याऽचो रहाभ्यामिति द्वित्वविकल्पे सति प्रथमस्य तकारस्य 'यणो मय' इति पुनर्द्वित्वे एकैकस्य एकतं द्वितं त्रितमिति सङ्कलनया-एकतान्यष्टादय(१८), द्वितान्यष्टादश(१८), त्रितान्यष्टादश(१८) इति सङ्कलनया चतुरधिकपञ्चाशद्रूपाणि (५४) सम्पन्नानीत्यर्थः । अणोऽनुनासिकत्व इति । अणोऽप्रगृह्रस्यानुनानासिक इति तकारादाकारस्याऽनुनासिकत्वविकल्पे सत्यानुनासिक्ये चतुष्पञ्चाशत् (५४) । तदभावे चतुष्पञ्चाशत् (५४) इति सङ्कलनया अष्टाधिकं शतं(१०८) रूपाणि सम्पन्ननीत्यर्थः ।

Padamanjari

Up

इह खरवसानयोर्द्वयोरपि रेफस्य विसर्जनीय उक्तः, तत्रेह निमितविशेषानुपादानात्खरि वावसानेऽपि सत्वं प्राप्नोति -वृक्षः, प्लक्ष इति ? सहितायामिति वर्तते, न चावसाने संहितास्ति; परस्याभावात् । मा भूत्परः, पूर्वेण या संहिता तदाश्रयं सत्वं प्राप्नोति, ठिको यणचिऽ इत्यादौ तु कार्यिनिमितयोर्द्वयोरप्युपातत्वातयोरेव परस्परं संहिताश्रीयत इति दधिआत्रेति पूर्वपराभ्यामिगचोः संहितायां सत्यामपि कार्यं न भवति; परस्परमसंहितत्वात् । स्यादेतत् । सामान्यविहिता संहितासंज्ञा, विशेषविहितावसानसंज्ञा; कार्ययोरेकवर्णविषयत्वात्कार्यार्थत्वाच्च संज्ञानां संज्ञयोरप्येकविषयत्वाद्वाध्यभादकभावः । यद्वा -'सन्निकर्षः संहिता' इतीयता सिद्धे परग्रहणमतिशयप्रतिपत्यर्थम् - प्रकृष्टो यः सन्निकर्षः । कश्च प्रकृष्टः ? यः पूर्वपराभ्यामुभाभ्यामपि । तदभावादवसानस्य संहितासंज्ञाया अभावः । यद्येवम्, अणो।ञप्रगृहस्यानुनासिके दोषः, तत्र हि'वावसाने' इति वर्तते; संहिताधिकारश्चोतरार्थोऽवश्यमनुवर्त्यः -'तोलि' इति परसवर्णोऽसंहितायां मा भूत् - अग्निचित् लुनातीति, ततश्च संहितावसानोभयाश्रयोऽनुनासिको दधि इत्यादौ न स्यादिति संहितअवसानसंज्ञयोः समावेश एषितव्यः, ततश्चावसानेऽपि सत्वप्रसङ्गः ? अत आह - खरीत्यनुवर्तत इति । तदनुवृत्तिश्च मण्डूअकप्लुतिन्यायेन, सम्बन्धानुवृत्या वा वेदितव्या; अन्यथा हि पूर्वत्रापि खरि कार्य विज्ञायेत । किं पुनरत्र प्रमाणं खरीत्यनुवर्तते इति ? उतरत्र शर्पर इति वचनम्, स हि बहुव्रीहिः, तस्यान्यपदार्थापेक्षाया यो विसर्जनीयात्परः सम्भवति स एवान्यपदार्थः, स च खरेवः, अवसानस्य शर्परत्वासम्भवात् । यद्वा - यदि खरवसानयोर्द्वयोरपि सत्वं स्यात् विसर्जनीयविधानमनर्थकं स्यात्;'खरवसानयोस्सः' इत्येव वाच्यं स्यात् । एवं हि'विसर्जनीयस्य' इति न वक्तव्यं भवति । अवश्यम्'शर्परे विसर्जनीयः' इत्यस्य स्थानिनिर्देशार्थं विसर्जनीयस्येति वक्तव्यम् ? न वक्तव्यम्; पुरस्तादपकर्षेणाप्येतत्सिद्धम्, एवं वक्ष्यामि - रो रि खरवसानयोः सः, रोः सुपि शर्परे विसर्जनीयःऽ इति, शर्पर इत्यत्र रऽ इति वर्तते, न तु रोःऽ इति, तेन सुगीः त्सरुकः, पुरुषः त्सरुकः इत्यादौ सर्वत्र भवति । अथ'भोभघोअघो' इत्यादिसूत्रं कुत्र करिष्यसि ?'शर्परे विसर्जनीयः' इत्यस्यानन्तरम् । यद्येवम्, स्वरत्र, स्वर्नयतीत्यादावपि यत्वप्रसङ्ग इति पुना रुग्रहणं कर्तव्यम् ? एवं तर्हि रोः सुपिऽ इत्यस्यानन्तरम्'भोभगो' इत्यादि रुस्थानिकादेशविधानार्थं पठित्वा'शर्परे विसर्जनीयः' इत्यादिकं पठिष्यते । एवमपि पुनारग्रहणं कर्तव्यम्; रुणा विच्छिन्नत्वात् ? एवमपि यथान्यासे सति त्रीणि ग्रहणानि - द्वे विसर्जनीयग्रहणे, तृतीयं सग्रहणम्; अन्यथान्यासे तु द्वे सग्रहणे रुग्रहणं च । तदेवं लघीयसा न्यासेन सिद्धे विसर्जनीयविधानसामर्थ्यान्न सर्वत्र सत्वं भविष्यति । एवमपि कुत एतत् - खरि भवति, न पुनरवखान इति ? ज्ञापकात्, यदयं शर्परे खरि विसर्जनीयं विधते, तज्ज्ञापवति - खरि तावदस्ति सत्वमिति । विपर्यये हि पुरषः त्सरुक इत्यादौ सत्वाभावादस्त्येव विसर्जनीय इति तद्विधानमनर्थकं स्यात् । नैतदस्ति ज्ञापकम्; अस्त्येतस्य ववने प्रयोजनम्, किम् ? वासः क्षौमम्, अद्भिः प्सातमित्यादौ जिह्वामूलयोपध्मानीवौ मा भूतामिति ? नैतदस्ति; यद्येतावत्प्रयोजनं स्यात्'कुत्वोः ःकःपौ वा शरि' इत्येव ब्रूयात् । तदेवं विधानसामर्थ्यात्खर्येवायं विधिः । अनेन चैवाभिप्रायेण'खरीत्यनुवर्तते' इत्युक्तम् ॥