7-1-37 समासे अनञ्पूर्वे क्त्वः ल्यप् अन्यतरस्याम्
समासेऽनञ्पूर्वे क्त्वा इत्येतस्य ल्यबित्ययमादेशो भवति। प्रकृत्य। प्रहृत्य। पार्श्वतः — कृत्य। नानाकृत्य। द्विधाकृत्य। समास इति किम्? कृत्वा। हृत्वा। अनञ्पूर्व इति किम्? अकृत्वा। अहृत्वा। परमकृत्वा। उत्तमकृत्वा। अनञिति हि नञोऽन्यदनञ् नञ्सदृशम् अव्ययं परिगृह्यते। तेन नञ् अनव्ययं चानञ् न भवति। स्नात्वाकालक इत्यादिषु मयूरव्यंसकादिषु २.१.७२ निपातनाद् ल्यबादेशो न भवति। अथ वा समास इति निर्धारणे सप्तमी। तेन क्त्वान्तः समास एव परिगृह्यते। स च <<येन विधिस्तदन्तस्य>> १.१.७२ इत्यनेन तदन्तविधिना, न तु <<कृद्ग्रहणे गतिकारकपूर्वस्यापि०>> इति। तथा चानञ्पूर्व इत्युच्यते। गतिकारकपूर्वस्यैव तु ग्रहणे सति नञ्पूर्वस्य प्रसङ्ग एव नास्ति, नञ् न गतिर्न च कारकमिति। प्रधाय, प्रस्थायेत्यादिषु हिप्रभृतीनन्तरङ्गानपि विधीन् बहिरङ्गो ल्यब् बाधते एवेति ज्ञापितम् एतत् २.४.३६॥
अव्ययपूर्वपदे अनञ्समासे क्त्वो ल्यबादेशः स्यात् । तुक् । प्रकृत्य । अनञ् किम् । अकृत्वा । पर्युदसाश्रयणान्नेह । परमकृत्वा ॥
अव्ययपूर्वपदेऽनञ्समासे क्त्वो ल्यबादेशः स्यात्। तुक्। प्रकृत्य। अनञ् किम्? अकृत्वा॥
पूर्वशब्दोऽवयवचनः,, अनञ्पूर्वोऽवयवो यत्र समासे सोऽनञ्पूर्वः । प्रकृत्येति । समानकर्तुकयोः पूर्वकाले इति क्त्वा, कुगातिप्रादयः इति समासः, ल्यपि सति ह्रस्वस्य तुक् । पार्श्वतःकृत्येति । आद्यादित्वात्सप्तम्यन्तातसिः, स्वाङ्गे तस्प्रत्यये कृभ्वोः इति क्त्वा, तृतीयाप्रभृतीन्यन्यतरस्याम् क्त्वा चेति समासः । नानाकृत्य, द्विधाकृत्येति । नाधार्थप्रत्ययेच्व्यर्थे इति क्त्वा, पूर्ववत्समासः । अकृत्वा, अहृत्वेति । हृत्वेत्येतत्प्रत्यदारणम्, अत्र कृत्वाशब्दो नञ्सदृशः पूर्वोऽस्ति, समुदायस्तु समासो न भवति । परमकृत्वेति । सन्महन् इत्यादिना समासः, तुमर्थाधिकाराद्भावे क्त्वा प्रत्ययः । पारम्यमपि क्रियाया एव विशेषणमिति समानाधिकरण्यम् । कथं पुनरिदं प्रत्युदारहणम्, यावता भवत्येवायमनञ्पूर्वः समासः इत्यत आह- जनञिति हीति अनञ् इति पुर्युदासोऽयम्, तत्र नञिवयुक्तन्यायेन नञ्सदृशमव्ययं परिगृह्यते, तेन नञ् अनव्ययं च परमशब्दाकिमनञ् न भवति, तामेदादनव्ययत्वाच्च । स्नात्वाकलक इत्यादिष्विति । आदिशब्देन पीत्वास्थिरक इत्येवमादेर्ग्रहथणम्, यत्रोतरपदे क्रिया नोपादीयते तत्राध्याहृतक्रियापक्षेः क्त्वाप्रत्ययः । सापेक्षत्वेऽपि निपातनात्समासः । निपातनाल्ल्यबादेशो न भवतीति । न प्राकरणिकः समास एव तत्र निपात्यते, किं तर्हि यस्य लक्षणं नास्ति तत्सर्वमिति भावः । निर्धारणे सप्तमीति । जातावेकवचनम्, वचनव्यत्यो वा । समास एव निर्धार्यत इति । निर्धारणस्य तुल्यजातीयापेक्षत्वात् । कथं पुनः समासः क्त्वान्तो भवति, यावता प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहण्, न च समासात् क्त्वा विहितः अथ कृद्ग्रहणए गतिकारकपूर्वस्यापि ग्रहणात्समासस्य क्त्वान्ता एवमपि प्रकृत्य, पार्श्वतःकृत्येत्यादावेव स्यात्, उच्चैकृत्येत्येवमादौ तु न स्यात्, अगतित्वादकारकत्वाच्च इत्याशङ्क्याह - स चेति । तत्र निर्द्दिश्यमानस्यादेशा भवन्तीति क्त्वामात्रस्यैव ल्यब्भवति । ननु प्रत्ययविषये पूर्वेण परिभाषाद्वयेन तदन्तविधिव्यवस्था, न तु येन विधिस्तदन्तस्य इत्यनेन तत्राह - तथा चेति । कथं पुनरेतज्ज्ञापकम् इत्याह - गतिकारकपूर्वस्य त्विति । कथं नास्ति प्रसङ्गः इत्याह - नञ्न गतिरिति । अदो जग्धिर्ल्यप्ति किति इत्यत्र यदुक्तम् - जग्धौ सिद्धमन्तरङ्गत्वात् इत्यादि, तत्स्मारयति - प्रधाय, प्रस्थायत्येवमादिष्विति । के पुनरन्तरङ्गा विधयः हित्वदत्वात्वेत्वेत्वदीर्घत्वशूडिटः । हित्वम् दधातेर्हिः, हित्वा, प्रधाय। दत्वम् - दो दद्धोः, दत्वा, प्रदाय । आत्वम् - जन सनखनां सन्झलोः खात्वा, प्रखाय, प्रखन्य। इत्वम् - एद्यतिस्यतिमास्थामिति किति, स्थित्वा, प्रस्थाय । ईत्वम् - घुमास्थागापाजहातिसां हलि पीत्वा, प्रपाय। दीर्घत्वम् - अनुनासिकस्य क्विझलोः क्ङिति, शान्त्वा, प्रशम्य । शू - च्छवोः शूडनुनासिके च पृष्ट्वा, आपृच्छय । उठ - द्यौउत्वा । इट् - उदितो वा, देवित्वा, प्रदीव्य, अत्रेटि सति न क्त्वा सेट् इति कित्वप्रतिषेधाद् गुणः स्यात् । पूर्वग्रहणं किमर्थम्, अनञ् इत्येवोच्यमाने बहुव्रीहिः स्यात् - अविद्यमानो नञ् यस्मिन्नसावनञिति, तथा च स्त्रैणीकृत्येत्यत्रापि प्रतिषेधः स्यात् । पूर्वग्रहणे तु सति, तस्य नियतदेशावयववचनत्वान्नायं दोषः । लित्करणं प्रचिकीर्ष्येत्यत्र प्रत्ययात्पूर्वस्य स्वरार्थम् । प्रकृत्येत्यादौ तु धातुस्वरेणेव सिद्धम् । पित्करणं तुगर्थम् ॥