कालाट्ठञ्

4-3-11 कालाट् ठञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कालविशेषवाचिनः प्रातिपदिकाट् ठञ् प्रत्ययो भवति शैषिकः। अणोऽपवादः। वृद्धात् तु छं परत्वाद् बाधते। मासिकः। आर्धमासिकः। सांवत्सरिकः। यथाकथंचिद् गुणवृत्त्यापि काले वर्तमानात् प्रत्यय इष्यते। कादम्बपुष्पिकम्। ब्रैहिपलालिकम्। <<तत्र जातः>> ४.३.२५ इति प्रागतः कालाधिकारः॥

Siddhanta Kaumudi

Up

कालवाचिभ्यष्ठञ् स्यात् । मासिकम् । सांवत्सरिकम् । सायंप्रातिकः । पौनःपुनिकः । कथं तर्हि-शार्वरस्य तमसो निषिद्धये-इति कालिदासः, अनुदितौषसराग -इति भारविः, समानकालीनं प्राक्कालीनमित्यादि च । अपभ्रंशा एवैत इति प्रामाणिकाः । तत्र जातः <{SK1393}> इति यावत्कालाधिकारः ॥

Laghu Siddhanta Kaumudi

Up

कालवाचिभ्यष्ठञ् स्यात्। कालिकम्। मासिकम्। सांवत्सरिकम्। <<अव्ययानां भमात्रे टिलोपः>> (वार्त्तिकम्) । सायम्प्रातिकः। पौनःपुनिकः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<कालाट्ठञ्>> - कालाट्ठञ् ।कालशब्दस्यैव न ग्रहणं, किन्तु कालशब्दस्य, कालविशेषवाचकानां च ग्रहण॑मिति 'तदस्य परिमाणं' 'सङ्ख्यायाः' इति सूत्रभाष्ये स्पष्टम् । तदाह — कालवाचिभ्य इति । सायंप्रातिकः पौनःपुनिक इति । 'अव्ययानां भमात्रे' इति टिलोपः ।सायञ्चिर॑मिति ठ्युठ्युलौ तु न भवतः, 'नस्तद्धिते' इति सूत्रभाष्ये तथा प्रयोगदर्शनात् । शार्वरस्येति । समानकालिकं प्राक्रालिकमिति भाव्यमित्यर्थः । प्रामाणिका इति । केचित्तु अमुकः पुरतः परेद्युरित्यादिवदेतेऽपि शब्दा अव्युत्पन्नाः, पृष्टोदरादयो वा साधव इत्याहुः । इति यावदिति । व्याख्यानादिति भावः ।

Padamanjari

Up

कालविशेषवाचिन इति । स्वरूपस्य च पर्यायाणां च ग्रहणं न भवति; सन्धिवेलादिसूत्रेण सन्धिवेलात्रयोदशीप्रभृतिभ्योऽवृद्धेभ्योऽण्विधानात् । तद्धि ठञो बाधनार्थः, अर्थग्रहणे च तेभ्यष्ठञः प्रसङ्गः । इह'गौणमुख्ययोर्मुख्ये सम्प्रत्ययः' इति न्यायान्मुख्यया वृत्या ये काले वर्तन्ते मासोऽर्द्धमास इति, तत एवायं प्रत्ययः स्याद्; न तु गौणवृत्या कालवृतेः, कदम्बपुष्पसाहचर्यात्कदम्ब कालः, व्रीहिपलालसाहचर्याद् व्रीहिपलालं काल इत्यादेरित्याशङ्क्याह - यथाकथञ्चिदिति । येन केनचित्प्रकारेण । एतदेव स्पष्टयति - गुणवृत्यापीति । परत्र परशब्दप्रवृतेर्यन्निबन्धनं स गुणः, तन्निबन्धना वृत्तिर्गुणवृत्तिः । एतच्च सन्धिवेलादिसूत्रेऽनेन कालग्रहणेन नक्षत्राणि यद्विशिनष्टि ततो लभ्यते । न हि मुख्याथः कालशब्दोऽस्ति नक्षत्राणां सम्भवति । पुष्पादिसमीपस्थेन हि चन्द्रमसा योगाल्लक्षितलक्षणया पुष्पादिशब्दानां काले वृत्तिः । सैव च'लुबविशेषे' इति लुब्विधानेनाप्यन्वाख्यायते पौषादिनिवृत्यर्थम्, न त्वेतावता कालस्तेषां मुख्योऽर्थः ॥