धातोः

3-1-91 धातोः प्रत्ययः परः च आद्युदात्तः च

Sampurna sutra

Up

index: 3.1.91 sutra: धातोः


धातोः परः आद्युदात्तः प्रत्ययः (स्यात्)

Neelesh Sanskrit Brief

Up

index: 3.1.91 sutra: धातोः


अस्मात् सूत्रात् आरभ्य तृतीयाध्यायस्य समाप्तिपर्यन्तम् ये प्रत्ययाः वक्ष्यन्ते ते धातोः भवेयुः ।

Kashika

Up

index: 3.1.91 sutra: धातोः


धातोः इत्ययमधिकारो वेदितवय्ः। आतृतीयाध्यायपरिसमाप्तेः यदित ऊर्ध्वमनुक्रमिष्यामो धातोः इत्येवं तद् वेदितव्यम्। वक्ष्यति तव्यत्तव्यानीयरः 3.1.96 इति। कर्तव्यम्। करणीयम्। धातुग्रहनमनकर्थकं यङ्विधौ धात्वधिकारात्। कृदुपपदसज्ञार्थं तर्हि, अस्मिन् धात्वधिकारे ते यथा स्यातां, पूर्वत्र मा भूताम् इति। आर्धधातुकसंज्ञार्थं च द्वितीयं धातुग्रहणं कर्तव्यम्। धातोः इत्येवं विहितस्य यथा स्यात्। इह मा भूत्, लूभ्याम्, लूभिः इति।

Siddhanta Kaumudi

Up

index: 3.1.91 sutra: धातोः


॥ अथ कृदन्तकृत्यप्रकरणम् ॥

आ तृतीयसमाप्तेरधिकारोऽयम् । तत्रोपपदं सप्तमीस्थम् <{SK781}> । कृदतिङ् <{SK374}> ॥

Laghu Siddhanta Kaumudi

Up

index: 3.1.91 sutra: धातोः


आतृतीयाध्यायसमाप्तेर्ये प्रत्ययास्ते धातोः परे स्युः । कृदतिङिति कृत्संज्ञा ॥

Neelesh Sanskrit Detailed

Up

index: 3.1.91 sutra: धातोः


तृतीयाध्यायस्य द्वितीयः धात्वधिकारः अस्मात् सूत्रात् प्रारभते । अस्य व्याप्तिः अस्मात् सूत्रात् आरभ्य तृतीयाध्यायस्य अन्तिमसूत्रपर्यन्तम् अस्ति । एतेषु सर्वेषु सूत्रेषु पाठिताः प्रत्ययाः धातुभ्यः (एव) भवन्ति, प्रातिपदिकेभ्यः न, इति अस्य अधिकारस्य आशयः ।

उदाहरणम् - तव्यत्तव्यानीयरः 3.1.96 अनेन सूत्रेण उक्ताः तव्यत्, तव्य, अनीयर् एते प्रत्ययाः धातुभ्यः एव भवन्ति, प्रातिपदिकेभ्यः न ।

ज्ञातव्यम् -

  1. अस्मिन् धात्वधिकारे 'कृत्-प्रत्ययाः', 'तिङ्-प्रत्ययाः' तथा च 'तिङ्-प्रत्ययानां स्थाने जायमानाः आदेशाः' पाठिताः सन्ति । तदित्थम् -

(अ) कृत्-प्रत्ययाः - कृदतिङ् 3.1.93 इत्यस्मात् क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः 3.4.76

आ) तिङ्-प्रत्ययाः - तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् 3.4.78

इ) तिङादेशाः - टित आत्मनेपदानां टेरे 3.4.79 तः द्विषश्च 3.4.112

  1. अस्मिन् अधिकारे पाठिताः सर्वे प्रत्ययाः सर्वेभ्यः धातुभ्यः न विधीयन्ते ।

  2. अस्मिन् अधिकारे चतस्रः संज्ञाः अपि पाठिताः सन्ति -

अ) उपपदसंज्ञा - तत्रोपपदं सप्तमीस्थम् 3.1.92

आ) कृत्संज्ञा - कृदतिङ् 3.1.93

आ) सार्वधातुकसंज्ञा - तिङ्शित्सार्वधातुकम् 3.4.113

इ) आर्धधातुकसंज्ञा - आर्धधातुकं शेषः 3.4.114 इत्यतः लिङाशिषि 3.4.116

शास्त्रविषयाः -

  1. भाष्यकारः अस्य अधिकारस्य विषये - 'अस्य धात्वधिकारस्य व्याप्तिः कियत्पर्यन्तम् अस्ति - तृतीयाध्यायस्य अन्तपर्यन्तम्, उत लस्य 3.4.77 इति सूत्रपर्यन्तम्' - इति प्रश्नं पृष्ट्वा 'अस्य धात्वधिकारस्य व्याप्तिः तृतीयाध्यायस्य अन्तपर्यन्तम् एव भवेत्, यतः आर्धधातुकं शेषः 3.4.114 इत्यत्र 'धातोः' इति पदम् आवश्यकम् अस्ति' इति निर्णयं ददाति । अस्मिन् सन्दर्भे अस्मिन् video मध्ये विस्तारेण पाठितम् अस्ति ।

  2. तृतीयाध्याये द्वौ धात्वधिकारौ स्तः । प्रथमः धात्वधिकारः धातोरेकाचो हलादेः क्रियासमभिहारे यङ् 3.1.22 इत्यस्मात् सूत्रात् आरभ्य कृषिरजोः प्राचां श्यन् परस्मैपदं च 3.1.90 इति सूत्रपर्यन्तं गच्छति । तस्मात् अनन्तरम् विद्यमानेन धातोः 3.1.91 इत्यनेन सूत्रेण द्वितीयः धात्वधिकारः प्रारभते । अनेन प्रकारेण तृतीयाध्याये विद्यमानौ द्वावपि धात्वधिकारौ क्रमशः एव (विना अन्तरम्) पाठितौ स्तः । अतः अत्र प्रश्नः उदेति - किमर्थम् द्वौ भिन्नौ धात्वधिकारौ ? एकः एव धात्वधिकारः धातोरेकाचो हलादेः क्रियासमभिहारे यङ् 3.1.22 इत्यस्मात् आरभ्य तृतीयाध्यायस्य समाप्तिपर्यन्तं स्वीक्रियते चेत् को दोषः ? इति । भाष्ये अस्य प्रश्नस्य भिन्नानि उत्तराणि दत्त्वा प्रत्येकम् उत्तरस्य सम्पूर्णरूपेण खण्डनं कृत्वा अन्ते 'अयं पृथक् (द्वितीयः) धात्वधिकारः अनावश्यकः' इत्येव सिद्धान्तः प्रतिपादितः अस्ति । अस्मिन् विषये भाष्यकारः पूर्वोत्तरपक्षेषु किं ब्रूते तत् संक्षेपेण अधः दीयते । अधिकं पिपठिषवस्तु भाष्यमेव पश्येयुः ।

(अ) पूर्वपक्षः - तत्रोपपदं सप्तमीस्थम् 3.1.92 अस्मिन् सूत्रे 'तत्र' इत्युक्ते 'अस्मिन् द्वितीये धात्वधिकारे' इति अर्थं स्वीकृत्य 'अस्मिन् द्वितीये धात्वधिकारे यत् सप्तमीनिर्दिष्टम् तद्वाचकं पदम् उपपदसंज्ञकं भवति' इति सूत्रार्थः सिद्ध्यति । अस्यां स्थितौ यदि द्वयोः धात्वधिकारयोः मेलनं कृत्वा एकः एव बृहत् धात्वधिकारः क्रियते, तर्हि 'तत्र' इत्यस्य अर्थः 'अस्मिन् बृहति धात्वधिकारे' इति भवेत्, येन अन्येषु सूत्रेषु विद्यमानानां सप्तमीस्थपदानां विषये अपि उपपदसंज्ञायाः अतिप्रसङ्गः स्यात् ।

खण्डनम् - तत्रोपपदं सप्तमीस्थम् 3.1.92 इत्येव सूत्रम् अधिकारसूत्ररूपेण स्वीकृत्य अस्य सूत्रस्य व्याप्तिः तृतीयाध्यायस्य समाप्तिपर्यन्तं स्वीकर्तुम् शक्यते ।

आ) पूर्वपक्षः - कृदतिङ् 3.1.93 अनेन सूत्रेण 'अस्मिन् द्वितीये धात्वधिकारे' पाठितानां तिङ्भिन्नप्रत्ययानां 'कृत्' इति संज्ञा दीयते । यदि द्वयोः धात्वधिकारयोः मेलनं कृत्वा एकः एव बृहत् धात्वधिकारः क्रियते, तर्हि पूर्वम् उक्तानां सनादिप्रत्ययानां विकरणप्रत्ययानाम् चापि 'कृत्' इति संज्ञा स्यात् ।

खण्डनम् - कृदतिङ् 3.1.93 इत्येव सूत्रम् अधिकारसूत्ररूपेण स्वीक्रियते चेत् अयं दोषः परिष्कृतः भवति ।

इ) पूर्वपक्षः - यदि द्वयोः धात्वधिकारयोः मेलनेन एकः एव धात्वधिकारः क्रियते, तर्हि तिङ्शित्सार्वधातुकम् 3.4.113 इत्यनेन 'धातोः विहिताः तिङ्-शित्-प्रत्ययाः सार्वधातुकाः' इति अर्थे सिद्धे आर्धधातुकं शेषः 3.4.114 इत्यत्र शेषग्रहणेन 'अन्ये सर्वे' इति अर्थनिष्पादनं भवेत्, येन 'धातोः प्रातिपदिकेभ्यः च विहिताः प्रत्ययाः तिङ्शिद्भिन्नाः प्रत्ययाः आर्धधातुकाः भवेयुः' इति अनिष्टः अर्थः भवेत् । तन्निराकर्तुम् आर्धधातुकं शेषः 3.4.114 इत्यस्मिन् सूत्रे 'द्विवारं धातुग्रहणम् आवश्यकम्, येन 'धातोः एव विहिताः प्रत्ययाः आर्धधातुकसंज्ञकाः भवितुम् अर्हन्ति, प्रातिपदिकेभ्यः विहिताः न' इति अर्थः स्पष्टी भवति ।

खण्डनम् (प्रदीपोद्योते) - द्विवारं धातुग्रहणम् आवश्यकं चेत् शमि धातोः संज्ञायाम् 3.2.14 इत्यतः 'धातोः' इति पदं मण्डूकप्लुत्या स्वीकर्तुं शक्यते ।

अनेन प्रकारेण पूर्वपक्षिणां भिन्नानां मतानां खण्डनं कृत्वा अन्ते 'द्वितीयं धातुग्रहणम् अनर्थकम्, यङ्विधौ धात्वधिकारात्' इति सिद्धान्तः भाष्यकारेण प्रतिपादितः अस्ति । एकः एव बृहत् धात्वधिकारः पर्याप्तः इति अस्य अर्थः । अस्मिन् विषये विस्तारेण अस्मिन् video मध्ये विस्तारेण पाठितम् अस्ति , जिज्ञासवः तदपि पश्यन्तु ।

Balamanorama

Up

index: 3.1.91 sutra: धातोः


धातोः - धातोः । आ तृतीयेति । आतृतीयाध्यायपरिसमाप्तेरित्यर्थः । एतच्च भाष्ये स्पष्टम् । तत्रोपपदं कृदतिङिति । व्याख्यातं प्राक् ।

Padamanjari

Up

index: 3.1.91 sutra: धातोः


धातोः॥ आ कुतोऽयमधिकारः किं प्राग्लादेशाद्? आहोस्विदाध्यायपरिसमाप्तेः? इति विचारे द्वितीयं पक्षमाश्रयति - आ तृतीयाध्यायपरिसमाप्तेरिति। एशः शित्करणात्, तद्धि धातोरित्यधिकारे सति'तस्मादित्युतरस्य' ठादेः परस्यऽ तकारस्य स्थाने एत्वे सति अकारस्य स्थाने टेरेत्वे अयादेशे च सत्ययेशब्दस्य श्रवणं मा भूदित्येवमर्थ कियते। प्राग्लादेशात्पुनर्द्धात्वधिकारेऽलोऽन्त्यस्य विधयो भवन्तीति एकारस्यैकारवचने प्रयोजनं नास्तीति कृत्वान्तरेणापि शकारमन्त्येऽल्यनुसंहारं बाधित्वा सर्वादेशो भविष्यति, किं शकारेण! यद्याध्यायपरिसमाप्तेरयमधिकारः? आद्ये योगे न व्यवाये तिङ्ःस्युः, आद्ये योगे तिबादिसूत्रे येऽमी लावस्थायां स्यादयो विधीयन्ते तेषु कृतेषु तैर्व्यवधाने तिबादयो न स्युः। करिष्यति, हरिष्यति, कर्ता, शबादिषु तु न दोषः; तेषां सार्वधातुकाश्रयत्वादकृते लादेशे प्राप्त्यभावात्; तिबादयश्च तत्र सावकाशाः। न स्यादेत्वम्, टेष्टितां व्यवाय इत्येव - पचते यजते, क्व तर्हि स्यात्? आस्ते, शेते, धते, रुन्धे, बेभिदाते इत्यादौ यत्र न विकरणाः सन्ति। एशः शित्वम्'लिटस्तझयोरेश्' इत्ययमेश् शित्कर्तव्यः। एतच्चोपक्रम एव व्याख्यातम्। यच्च लोटो विधते तच्च विकरणव्यवाये न स्यात् -'लोटो लङ्वत्' ठेरुःऽ'सेर्ह्यपिच्च' इत्यादि, पचतु, पचतमित्यादि, स्तौतु, जुहोतु, भिनतु, आस्तामित्यादावेव स्यात्। यच्चाप्युक्तं लङ्लिङेस्तच्च न स्यात् -'नित्यं ङ्तिः' ,ठितश्चऽ'तस्थस्थमिपां तान्तन्तामः' 'लिङ्ः सीयुट्' 'यासुट् परस्मैपदेषूदातो ङ्च्चि' इत्यादि, तथा'थासः से' पचसे इत्यादौ न स्यात्? नैष दोषः; विहितविशेषणं विज्ञास्यते - धातोर्विहितस्य लोट इति। यद्येवम्,'विदो लटो वा' इत्यत्रापि विदेर्द्धातोर्विहतस्य लटस्तिबादीनां णलादय इति विज्ञायमाने विन्दति, विन्दतः, विन्दन्तीति लाभार्थस्य विकरणेन व्यवायेऽपि णलादयः प्राप्तुवन्ति? न क्वचिद्धिहितविशेषणं धातुग्रहणमिति सर्वत्र तथा भवितव्यम्। अथ वात्र धातुना विहितं विशेषयिष्यामः, विदिनाऽऽनन्तर्यम् - धातोर्विहितस्य लटो विदेरनन्तरस्येति,'सिजभ्यस्तविदिभ्यश्च' इत्यवापि धातुना विहितं विशेष्यते, अभ्यस्तेन चानन्तर्यम् - धातोर्विहितस्याभ्यस्तादनन्तरस्य ङितो झेइरिति; तेनाजक्षिष्यन्, अजागरिष्यन्नित्यादौ न भविष्यति। ठातःऽ इत्यत्र कथम्, यदि तावद्धातोर्विहितस्याकारादनन्तरस्येति, अलुनन् अपुनन् अत्रापि प्राप्नोति? अथ आकारान्ताद्वातोर्वेहितस्येति, अपिबन्नित्यत्र प्राप्नोति? अस्तु धातोर्विहितस्याकारादनन्तरस्येति, अलुनन् इत्यत्र लुना झि इति स्थिते'श्नाभ्यस्तयोरातः' इति लोपे कृते आकाराभावान्न भविष्यति, नात्र लोपः प्राप्नोति? ठी हल्यघोःऽ इतीत्वेन बाध्यते। एवमप्याकारान्न भविष्यति? नात्रेत्वं प्राप्नोति, अन्तिभावेन बाध्यते? नात्रान्तिभावः प्राप्नोति, जूस्भावेन बाधनात्? तदेवं लोप ईत्वेन्, ईत्वमन्तिभावेन, अन्तिभावो जुस्भावेन, जुस्भावो लोपेन, लोप ईत्वेनेति लोप ईत्वेनेति चक्रकमव्यवस्था प्राप्नोति? नैष दोषः; आयन्नादिषूपदेशिवद्वचनादुपदेशकाल एव झस्यान्तिभावे कृते लोपः, लोपेन व्यवस्था। किं चात इत्यत्र सिज्ग्रहणमनुवर्तते - आकारान्तात्सिज्लुगन्तादिति, तेन न क्वाप्यनिष्टप्रसङ्गः। तदेवमाध्यायपरिसमाप्तेर्धात्वधिकार इति स्थितम्। वक्ष्यति तव्यतव्यानीयर इति। किं च स्यात् यदि तव्यादिविधो धातोरितित नानुवर्तेत ङ्याप्प्रातिपदिकादपि तव्याद्यः स्युः? साधने तव्यादयो विधीयन्ते, साधनं च क्रियायाः। क्रियाया अभावात्साधनाभावः, साधनाभावाद् ङ्याप्प्रातिपदिकातव्यादयो न भविष्यन्ति। कथं तर्हि कर्मादिषु विधीयमाना द्वितीयादयो भवन्ति, नैव प्रातिपदिकार्थस्य साधने द्वितीयादयः, किं तर्हि? शब्दान्तरवाच्यक्रियापेक्षे तस्यैव कर्मादिभावे; तव्यादयस्तु प्रकृतिवाच्यक्रियापेक्षे साधने चरितार्था न ङ्याप्प्रातिपदिकाद्भविष्यन्ति? इदं तर्हि प्रयोजनम् - सत्याणवयेत्यादयो येऽपभ्रंशाः क्रियावचनास्तेभ्यस्तव्यादयो मा भून्निति; न हि ते धातवः, भूवादिपाठाश्रयत्वाद्धातुसंज्ञायाः। किञ्च, सोपसर्गाल्लङदयो मा भूवन्निति धात्वधिकारः क्रियते; अन्यथा प्राकरोत, प्रास्थित, अध्यैष्टेति धातूपसर्गसमुदायस्य विशिष्टक्रियावचनत्वाततः प्रत्ययविधावङ्गसंज्ञायामडादिप्रसङ्गः। चोदयति - धातुग्रहणमनर्थकम्, यङ्विधौ धात्वधिकारादिति।'धातोरेकाचः' इत्यत्र यङ्विधौ धात्वधिकारादिति'धातोरेकाचः' इत्यत्र यङ्विधौ यद्धातुग्रहणं तस्येहाधिकारादित्यर्थः। परिहारति - -कृदुपपदसंज्ञार्थ त्विति। एतदेव व्याचष्टे - अस्मिन्निति। अस्मिन्नेवेत्यवधारणं द्रष्टव्यम्। तद्दर्शयति - पूर्वत्र मा भूतामिति। असत्यस्मिन्नधिकारे धात्वधिकारे यत्सप्तम्या निर्द्दिष्ट्ंअ तदुपपदमित्येतावानर्थः स्यात्, ततश्च पूर्वत्रापि स्यात् - -ठ्च्लि लुङ्ऽ लुङ्न्ति उपपदे च्लिरिति। एवं कृत्संज्ञापि धातोर्विहितस्यातिङे भवतीति पूर्वत्रापि स्यात्, ततश्च करिष्यतीत्यत्र स्यप्रत्ययस्य कृत्संज्ञायां कृदन्तं प्रातिपदिकमिति प्रातिपदिकत्वे सति तिङेक्तेऽप्येकत्वे वचनग्रहणादेकवचनस्य चोत्सर्गत्वात्सोरुत्पत्तिः प्रसज्येत। तस्मादस्मिन्धात्वधिकारे यथा स्यातां पूर्वत्र मा भूतामिति पुनर्द्धात्वधिकारः क्रियते। ननु चाधिकारेण ते संज्ञे विधास्येते, प्रत्ययसंज्ञा च तत्र, ते पूर्वत्र भविष्यत इत्याशंक्य प्रयोजनान्तरमाह - आर्द्धधातुकसंज्ञार्थे चेति। कः पुनरार्द्धधातुकसंज्ञायां द्वितीयधातुग्रहणस्योपयोग इत्यत आह - धातोरित्येवं विहितस्येति। लूभिरिति। अत्र सत्यपि प्रातिपदिकत्वे धातुत्वमप्यस्ति; पूर्वप्रवृताया धातुसंज्ञाया अनिवर्तनात्। ततश्च धातोरेवायं विहित इति आर्धधातुकसंज्ञा स्यादेव। यदि तु शमिधातोरित्यत्र धातुग्रहणस्य द्वितीयस्यार्द्धधातुकसंज्ञार्थं स्वरितत्वं प्रतिज्ञायेत, अयमप्यधिकारः शक्योऽकर्तुम्। वासरूपविधिरप्यधिकारेण सिद्धः, तेन क्सादिभिः सिचः समावेशो न भविष्यति॥