7-1-13 ङेः यः अतः
index: 7.1.13 sutra: ङेर्यः
अतः अङ्गात् ङेः यः
index: 7.1.13 sutra: ङेर्यः
अदन्तात् अङ्गात् परस्य ङे-प्रत्ययस्य यकारादेशः भवति ।
index: 7.1.13 sutra: ङेर्यः
The ङे प्रत्यय attached to an अदन्त अङ्ग is converted to a यकार.
index: 7.1.13 sutra: ङेर्यः
ङेः इति चतुर्थ्येकवचनस्य ग्रहणम्। अकारान्तादङ्गादुत्तरस्य ङे इत्येतस्य यः इत्ययमादेशो भवति। वृक्षाय। प्लक्षाय। अतः इति किम्? सख्ये। पत्ये। सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य इति परिभाषेयमनित्या, तेन दीर्घो भवति।
index: 7.1.13 sutra: ङेर्यः
अतोऽङ्गात्परस्य ङे इत्यस्य यादेशः स्यात् । रामाय । इह स्थानिवद्भावेन यादेशस्य सुस्वात् सुपि चेति दीर्घः । [(परिभाषा - ) संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्य] इति परिभाषा तु नेह प्रवर्तते । कष्टाय क्रमणे <{SK2670}> इत्यादिनिर्देशेन तस्या अनित्यत्वज्ञापनात् । रामाभ्याम् ॥
index: 7.1.13 sutra: ङेर्यः
अतोऽङ्गात्परस्य ङेयदिशः॥
index: 7.1.13 sutra: ङेर्यः
अकारान्तात् शब्दात् चतुर्थ्येकवचनस्य ङे-प्रत्ययः आगच्छति चेत् तस्य 'य' इति आदेशः भवति । अत्र 'य = य् + अ' इति अनेकाल् आदेशः अस्तीति स्मर्तव्यम् । अस्मिन् आदेशे कृते स्थानिवदादेशोऽनल्विधौ 1.1.56 इति स्थानिवद्भावेन 'य' आदेशस्य अपि सुप्-संज्ञा भवति । तदा अदन्तात् अङ्गात् यकारादि सुप्-प्रत्यये परे सुपि च 7.3.102 इत्यनेन अङ्गस्य दीर्घः अपि विधीयते । यथा -
राम + ङे
→ राम + य [ङेर्यः 7.1.13 इत्यनेन ङे-प्रत्ययस्य यकारादेशः]
→ रामा + य [स्थानिवद्भावेन य-इत्यस्य सुप्-संज्ञायाम् सत्याम् सुपि च 7.3.102 इत्यनेन अङ्गस्य दीर्घः]
→ रामाय
अत्र <ऽ सन्निपातलक्षणविधिः अनिमित्तकः तद्विघातस्य ऽ> अस्याः परिभाषायाः प्रयोगः न भवति । अस्मिन् विषये अत्र विस्तारेण स्पष्टीकृतमस्ति ।
ज्ञातव्यम् - 'अतः' इत्यत्र तपरकरणम् कृतमस्ति, अतः आकारान्त-स्त्रीलिङ्गशब्दानाम् विषये अयमादेशः न भवति । यथा - माला + ङे = मालायै ।
index: 7.1.13 sutra: ङेर्यः
ङेर्यः - ङेर्यः ।हे॑रित्येकारान्तात् षष्ठएकवचनम्, नतु ङि इति सप्तम्येकवचनं, व्याख्यानात् । 'अतो भिस' इत्यतोऽत इति पञ्चम्यन्तमनुवर्तते । तेन चअङ्गस्ये॑त्यधिकृतं पञ्चम्या विपरिणतं विशेष्यते । तदाह — अतोऽङ्गादिति । अदन्तादङ्गादित्यर्थः ।सुपि चे॑ति दीर्घं मत्वा आह — रामायेति । ननु यादेशस्य सुप्त्वाऽभावात्तस्मिन् परतः कथं सुपि चेति दीर्घ इत्यत आह — इहेति । नन्वत्र दीर्घो यञादित्वेन सुप्त्वेन च यादेशं परनिमित्तीकृत्य प्रवर्तते । सच यञंशेऽलाश्रयः । तस्मिन् कर्तव्ये यादेशस्य कथमिह स्थानिवद्भावः , अनल्विधाविति तन्निषेधादिति चेत्, सत्यम् — इह दीर्घस्य यञादिसुबाश्रयतयाऽऽदेशगतयकाररूपालाश्रयत्वेऽपि तस्मिन् कर्तव्ये यादेशस्य स्थानिवद्भावे सुप्त्वं भवत्येव, दीर्घस्य आदेशगतयकाररूपालाश्रयत्वेऽपि स्थान्यलाश्रयत्वा.ञभावात् ।अकृत्सार्वधातुकयोदीर्घ॑ इति तु परमप्यत्र नोपन्यस्तम्,अकृत्सार्वधातुकयोर्दीर्घ॑ इति तु परमप्यत्र नोपन्यस्तम्,अकृत्सार्वधातुकयो॑रिति पर्युदासबलेन तस्याऽसुप्येव प्रवृत्तेरित्याहुः । स्यादेतत् ।संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्ये॑त्यस्ति परिभाषा । संनिपातः=संश्लेषः, लक्षणं=निमित्तं यस्य सः संनिपातलक्षणः । विधि -कार्यम् । तद्विघातस्य । तं=संनिपातं विहन्तीति तद्विघातः । 'कर्मण्यण्' इति कर्मण्युपपदे कर्तर्यण् ।हनस्तोऽचिण्णलो॑रिति तकारः ।हो हन्ते॑रिति कुत्वम् । संनिपातविघातकस्य न निमित्तमित्यर्थः । उपजीवकमुपजीव्यस्य विघातकं न भवतीति यावत् । प्रकृते चाऽदन्तसंबन्धमाश्रित्य प्रवृत्तो यादेशोऽदन्तसम्बन्धविघातकस्य दीर्घस्य कथं निमित्तं स्यादित्याशङ्क्य परिहरति — संनिपातलक्षण इत्यादिना । तृतीयाद्विवचनवद्दीर्घं सिद्धवत्कृत्याह-रामाभ्यामिति ।
index: 7.1.13 sutra: ङेर्यः
णेó इति चतुर्थ्यकवचनस्य ग्रहणमिति । तस्य हि णेó इति रुपं प्रतिपदोक्तं सप्तम्येकवचनस्य घेर्ङितीति गुणे लाक्षणिकम् । यद्यपि णेóः इति विभक्त्यन्तमुपातम्, तच्चोभयोरपि लाक्षणिकम्, थथापि प्रत्ययात्पूर्वस्य भागस्य लाक्षणिकत्वप्रतिपदोक्तत्वापेक्षेया परिभाषाप्रवृत्तिः । यद्येवम्, णेóराम्नद्याम्नीभ्यः इत्यत्राप्येवमेव प्रसङ्गः तस्माव्द्याख्यानमेवात्र शरणम् । लिङ्गं च - तस्मै प्रभवति, तदस्मै दीयते, तस्मै हितम्, तदस्यé प्रहरणमिति क्रीडायां णः इत्यादि । वृक्षायेति । सुपि चेति दीर्घः । कथं पुनरकारसन्निपातकृतो यशबद्स्तद्विधातनिमितं भवति अत आह - सन्निपातलक्षण इति । अनित्यत्वं तस्याः कष्टाय क्रमणे इति निर्द्देशादवसीयते ॥