अव्ययादाप्सुपः

2-4-82 अव्ययात् आप्सुपः

Sampurna sutra

Up

index: 2.4.82 sutra: अव्ययादाप्सुपः


अव्ययात् आप्-सुपः लुक्

Neelesh Sanskrit Brief

Up

index: 2.4.82 sutra: अव्ययादाप्सुपः


अव्ययात् परस्य आप्-प्रत्ययानाम् सुप्-प्रत्ययानाम् च लुक्-भवति ।

Neelesh English Brief

Up

index: 2.4.82 sutra: अव्ययादाप्सुपः


The आप्-प्रत्ययाः and the सुप्-प्रत्ययाः attached to an अव्यय are removed by doing a लुक्.

Kashika

Up

index: 2.4.82 sutra: अव्ययादाप्सुपः


अव्ययादुत्तरस्य आपः सुपश्च लुग् भवति। तत्र शालायाम्। यत्र शालायाम्। सुपः खल्वपि कृत्वा। हृत्वा।

Siddhanta Kaumudi

Up

index: 2.4.82 sutra: अव्ययादाप्सुपः


अव्ययाद्विहितस्यापः सुपश्च लुक् स्यात् । तत्र शालायाम् । विहितविशेषणान्नेह । अत्युच्चैसौ । अव्ययसंज्ञायां यद्यपि तदन्तविधिरस्ति तथापि न गौणे ।<!आब्ग्रहणं व्यर्थमलिङ्गत्वात् !> (वार्तिकम्) ॥ सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ इति(भाष्योक्ता) श्रुतिर्लिङ्गसङ्ख्याकारकाभावपरा ॥ वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः । आपं चैव हलन्तानां यथा वाचा निशा दिशा ॥ वगाहः । अवगाहः । पिधानम् । अपिधानम् ॥। इति अव्ययप्रकरणम् ।

Laghu Siddhanta Kaumudi

Up

index: 2.4.82 sutra: अव्ययादाप्सुपः


अव्ययाद्विहितस्यापः सुपश्च लुक् । तत्र शालायाम् ॥

सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥

वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः । आपं चैव हलन्तानां यथा वाचा निशा दिशा ॥

वहागः, अवगाहः । पिधानम्, अपिधानम् ॥

Neelesh Sanskrit Detailed

Up

index: 2.4.82 sutra: अव्ययादाप्सुपः


स्वरादिनिपातमव्यम् 1.1.37 इत्यतः अव्ययीभावश्च 1.1.41 इति यावत्सु सूत्रेषु 'अव्यय'संज्ञा विधीयते । अव्ययानाम् यथायोग्यम् अर्थवद् अधातुः अप्रत्ययः प्रातिपदिकम् 1.2.45 तथा कृत्-तद्धित-समासाश्च 1.2.46 इत्यनेन प्रातिपदिकसंज्ञा भवति । अतः स्वौजस्.. 4.1.2 इत्यनेन एतेभ्यः सुप्-प्रत्ययाः विधीयन्ते, तथा स्त्रियाम् 4.1.3 अस्मिन् अधिकारे एतेभ्यः स्त्रीत्वं द्योतयितुम् टाप्/चाप्/डाप्-प्रत्ययः अपि भवति । एतेषाम् प्रत्ययानाम् वर्तमानसूत्रेण लुक् भवति ।

यथा, 'तत्र शालायाम्' - अस्मिन् वाक्ये 'तत्र' एतत् 'शालायाम्' इत्यस्य विशेषणमस्ति । अतः अत्र 'तत्र' शब्दस्य स्त्रीत्वं द्वोतयितुम् टाप्-प्रत्ययः, तथा, सप्तम्येकवचनं द्योतयितुम् 'ङि' प्रत्ययः - द्वावपि विधीयेते । परन्तु 'तत्र' इत्यस्य तद्धितश्चासर्वविभक्तिः 1.1.38 इत्यनेन अव्ययसंज्ञा भवति, अतः एतयोः द्वयोरपि प्रत्यययोः अनेन सूत्रेण लुक् भवति । यथा - तत्र + टाप् + ङि → तत्र ।

अनेन सूत्रेण एतत् ज्ञाप्यते, यत् अव्ययसंज्ञकाः शब्दाः सर्वेषु लिङ्गेषु, सर्वेषु वचनेषु, सर्वासु विभक्तिषु च समानानि एव भवन्ति । अतएव एका कारिका उच्यते -

सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न वेत्ति तदव्ययम् ॥

अत्र एकम् वार्तिकम् ज्ञातव्यम् - <!आब्ग्रहणम् व्यर्थमलिङ्गत्वात्!> । इत्युक्ते, अव्ययानाम् लिङ्गम् नास्ति, अतः तेषाम् परे स्त्रीप्रत्ययाः भवितुमेव न अर्हन्ति, अतः अनेन सूत्रेण 'आप्' प्रत्ययस्य यः लुक्-उच्यते सः अनावश्यकः - इति । अस्मिन् विषये भाष्यकारः वदति - निपातानाम् लिङ्गम् , कारकम् , सङ्ख्या च नास्ति, परन्तु अन्येषामव्ययानामस्ति कुत्रचित् भवितुमर्हत, अतः तदर्थम् ये प्रत्ययाः विधीयन्ते, तेषां लोपः अनेन सूत्रेण क्रियते ।

ज्ञातव्यम् -

  1. यत्र समासे अप्रधानरूपेण (= गौणरूपेण) अव्ययमुपतिष्ठति, तत्र समस्तपदस्य अव्ययसंज्ञा न भवति, अतः तस्मात् परस्य आप्/सुप्-प्रत्यययोः लुक् अपि न भवति । यथा - <!अत्यादयाः क्रान्ताद्यर्थे द्वितीयया!> अनेन वार्त्तिकेन प्रादि-तत्पुरुषसमासेन 'उच्चैः अतिक्रान्तः' इत्यर्थे 'अत्युच्चैस्' इति समस्तपदम् सिद्ध्यति । अत्र 'उच्चैस्' इति अव्ययम् गौणपदे अस्ति, अतः तस्य अव्ययसंज्ञा न भवति, अतः 'अत्युच्चैस्' इत्यस्यापि अव्ययसंज्ञा न भवति, अतः अस्मात् शब्दात् विभक्तिप्रत्ययानाम् लुक् न भवति । यथा - अत्युच्चैस् + औ = अत्युच्चैसौ ।

  2. अनेन सूत्रेण अव्ययात् परस्य आप्-प्रत्ययस्य सुप्-प्रत्ययस्य च 'लुक्' कृतः अस्ति, 'लोपः' न । किम् प्रयोजनं 'लुक्' इत्यस्य ? प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इत्यनेन प्रत्ययलोपेऽपि निर्दिष्टे अङ्गकार्ये प्राप्ते लुक्-प्रक्रियायाम् न लुमताङ्गस्य 1.1.63 इति तस्य निषेधः भवति, अतः अङ्गकार्यम् न जायते । यथा - 'भूयस्' इति चादिगणस्य शब्दः अव्ययसंज्ञकः अस्ति । अस्य सुँ-प्रत्यये परे 'भुयस् + सुँ' इत्यत्र सुँ-प्रत्ययस्य अव्ययादाप्सुपः 2.4.82 इति लुक् कृते अत्वसन्तस्य चाधातोः 6.4.14 इत्यनेन अङ्गस्य उपधादीर्घे प्राप्ते न लुमताङ्गस्य 1.1.63 इति स निषिध्यते ।

Balamanorama

Up

index: 2.4.82 sutra: अव्ययादाप्सुपः


अव्ययादाप्सुपः - अव्ययादाप्सुपः । आप्च सुप्च आप्सुप्, तस्य आप्सुपः, समाहारद्वन्द्वात्षष्ठी ।ण्यक्षत्रियार्षे त्यतोलु॑गित्यनुवर्तते । तदाह — अव्ययाद्विहितस्येति । तत्र शालायामिति । तत्रेत्यस्याव्ययत्वादापो लुक् । स्त्रीत्वबोधनायशालाया॑मिति । अथेति । अत्र सुपो लुक् । विहितेति । अव्ययात्परस्येत्यनुक्त्ता अव्ययाद्विहितस्येति व्याख्यानादिति भावः । अत्युच्चैसाविति । उच्चैरतिक्रान्त इति विग्रहेअत्यादयः क्रान्ताद्यर्थे॑ इति समासः । अधिकरणशक्तिप्रधानान्यव्ययानिरेवृत्तिविषये शक्तिमत्प्रधानानि भवन्ति । यतादोषामन्यमहः,दिवाभूता रात्रि॑रिति । अतो द्वितीयासम्भवात् 'अत्यादयः' इति द्वितीयासमासस्याऽविरोधः । अत्र समासाद्विहितस्य सुपोऽव्ययभूतादुच्चेश्शब्दात्परत्वे ।ञपि ततो विहतत्वाऽभावान्न लुक् ।अत्युच्चे॑रिति समुदायस्य तु नाव्ययत्वं, स्वरादिगणे उच्चेश्शब्दस्य केवलस्य पाठादिति भावः । ननु स्वरादिगणे केवलोच्चैश्शब्दस्य पाठेऽपि 'स्वरादिनिपातमव्यय' मित्यव्ययसंज्ञा भवत्येव,प्रयोजनं सर्वनामाव्ययसंज्ञाया॑मिति वचनादित्याशङ्कते — अव्ययसंज्ञायामिति । परिहरति — तथापीति । सर्वनामसंज्ञायामुपसर्जनस्य नेति प्रकृतः प्रतिषेधोऽव्ययसंज्ञाविधावनुवर्तत इतितद्धितश्चासर्वविभक्तिः॑ इति सूत्रे भाष्ये स्पष्टमिति भावः । व्यर्थमिति । 'अव्ययादाप्सुपः' इति सूत्रे॑ इति शेषः । अलिङ्गत्वादिति । अव्ययानां लिङ्गाऽभावादित्यर्थः । तथाच वार्तिकम्,-॒अव्ययादाब्लुग्वचनानर्थक्यं, लिङ्गाऽभावात् इति । तथातद्धिताश्चासर्वविभक्तिः॑ इति सूत्रे भाष्येऽप्युक्तम् — स्त्रीनपुंसकत्वानि सत्त्वगुण एकत्वद्वित्ववहुत्वानि च-एतानर्थान् ये न वियन्ति तदव्ययमितित । ननु अव्ययानां लिङ्गाऽभावेसदृशं त्रिषु लिङ्गेषु॑ इत्याथर्वणश्रुतिविरोध इत्याशङ्क्य परिहरति-सदृशमिति । त्रिषु लिङ्गेषु, सर्वासु च विभक्तिषु, सर्वेषु वचनेषु च यत् न व्येति=विकारं न प्राप्नोति, किन्तु सदृशम्ेकप्रकारमेव भवति तदव्ययमिति आथर्वणश्रुतियोजना । अत्र विभक्तिवचनशब्दौ कारकसङ्ख्यापरौ नतु प्रत्ययपरौ, अन्यतरग्रहणवैयथ्र्यात् । लिङ्गकारकेति । लिङ्गकारकसङ्ख्याऽभावः परः=तात्पर्यविषयभूतो यस्या इति विग्रहः । लिङ्गेष्वित्यादिषु सप्तमी हि 'षष्ठी चानादरे' इति विहिता । तथाच लिङ्गकारकसङ्ख्या अनादृत्य यन्न व्येति विकारं न प्राप्नोति, किन्तु सदृशम्ेकप्रकारमेव भवति, तदव्ययमित्युदाहृतश्रुतेरर्थः ।तद्धितश्चासर्वविभक्तिः॑ इति सूत्रभाष्येस्त्रीपुंनपुंसकत्वानि सत्त्वगुणा एकत्वद्वित्वबहुत्वानि च । एतानर्थान् ये न वियन्ति तदव्ययम् इत्युपक्षिप्य तत्र प्रमाणतया अस्याः श्रुतेरुदाहृतत्वादिति भावः । अयं च लिङ्गकारकसङ्ख्याऽभावनियमो निपातानामेव, स्वरादीनां तु कतिपयानां लिङ्गकारकसङ्ख्यान्वयोऽस्त्येव,स्वरादिनिपातमव्यय॑मिति सूत्रे भाष्येचादीनामस्त्तववचनानामेव संज्ञा । स्वरादीनां तु सत्त्ववचनानामसत्त्ववचनानां चे॑त्युक्तत्वात्,स्वस्ति वाचयति॑, 'स्वस्ति वाच्य' इति,क्षीणे पुण्ये स्वः पतति॑, 'प्रातर्यजते' इत्यादौ कर्मकारकयोगदर्शनाच्च । अथ प्रसङ्गादाह — वष्टीति । अव अपि इकत्युपसर्गयोरकारस्य लोपं, हलन्तानामापं च भागुरिनामक आचार्यो वष्टि -इच्छतीत्यर्थः । एवशब्दस्तु पादपूरणः अवेत्युपसर्गे आदेरेवाकारस्य लोपो नान्त्यस्य, अपिना साहचर्यात् । भागुरिशब्दं दन्त्योष्ठआदिं केचित्पठन्ति । तत्त्वबोधिन्यां तु पव्गचतुर्थादिः पठितः । शब्देन्दुशेखरेऽप्येवम् । यथा वाचेति । परिगणनमिति केचित् । उदाहरणमात्रमित्यन्ये । यद्यपि 'वश क्रान्तौ' इत्यस्य छन्दोमात्रविषयत्वं वक्ष्यते, तथापि अस्माद#एव लिङ्गाल्लोकेऽपीत्याहुः । वस्तुतस्तुवष्टि भागुरि॑रिति श्लोको भाष्ये न दृश्यते । प्रत्युतङ्याप्प्रातिपदिका॑दिति सूत्रस्थभाष्यपर्यालोचनया नास्तीत्येव युक्तम् । तत्र ह्रेवमुक्तम्-॒आब्ग्रहणं न कार्यं, खट्वा मालेत्यादौ अन्तवत्त्वेन प्रातिपदिकत्वादेव सिद्धम् इत्युक्त्वा, क्रुञ्चा उष्णिहा देवविशेति हलन्ताट्टापः स्वाद्यर्थमाब्ग्रहणस्त्वि॑ति आक्षिप्यक्रुञ्चानालभेत उष्णिहककुभौ देवविशं चे॑ति अकारान्तादेव तत्रापि टा॑बित्युक्त्ताडाबुभाभ्यामन्यतरस्या॑मिति बहुराजा, बहुराजे, बहुराजाः — इत्यर्थमाब्ग्रहण॑मिति समाहितम् । तस्मात्आपं चैव हलन्ताना॑मित्याश्रित्य वाचा निशा दिशेत्ययुक्तम् । अत्र निश्दिशोरिगुपधलक्षणे के अदन्तत्वाट्टापि निशेत्यादिरूपसंभवेऽपि वाचाशब्दोऽसाधुरेवेति शब्देन्दुशेखरे स्थितम् । इति बालमनोरमायामव्ययानि ।सिद्धान्तकौमुद्याम् । — — — — — -अव्ययीभावप्रकरणम् । — — — — — — -

Padamanjari

Up

index: 2.4.82 sutra: अव्ययादाप्सुपः


अव्ययादाप्सुपः॥ तत्र शालायामिति। शालाशब्दसन्निधौ स्त्रीत्वयुक्तद्रव्यगतकारकशक्त्यभिधानातस्यामितिवतत्रेत्यत्रापि यदि स्त्रीप्रत्ययः स्यात्पदादेव स्त्रीत्वं प्रतीयेतेति व्यामोहनिवृत्यर्थ टापो लुग्वक्तव्यः, यथा - षट्सञ्ज्ञकेभ्यः प्रतिषेध इति भावः। वार्तिककारस्त्वाह - ठव्ययादापो लुग्वचनानर्थक्यं लिङ्गाभावात्ऽ इति। कृत्वा, हृत्वेति। यदा'बहुषु बहुवचनम्' इत्यादेः स्वादिविधिवाक्येनैकवाक्यता, तदा निस्सङ्ख्येभ्यो निष्कारकेभ्यश्चाव्ययेभ्योऽस्मादेव लुग्विधानाल्लिङ्गत्स्वादयो भवन्ति, भिन्नवाक्यतायामपि नियमपक्षे तुल्यजातीयस्य नियमेन व्यावृत्तिः - बहुष्वेव बहुवचनं न द्वयोरेकस्मिन्, द्वयोरेव द्विचनं नैकस्मिन्न बहुषु, एकस्मिन्नेवैकवचनं न द्वयोर्न बहुषु, इत्यव्ययेभ्यः स्वादीनां सम्भवः। त्रिकपक्षे तु यत्र सङ्ख्या सम्भवति तत्रैव सा वाच्यत्वेन विधीयते, अव्ययेभ्यस्तु निः सङ्ख्येभ्यः सामान्यविहिताः स्वादयो विद्यन्त एवेति सर्वथाव्ययेभ्यः सुबुत्पत्तिरेषितव्या - प्रत्ययलक्षणेन पदसञ्ज्ञा यथा स्यादिति। तुबिति च सप्तमीबहुवचनस्य पकारेण प्रत्याहारः, न कपः; आपः पृथगुपादानात्॥