7-1-27 युष्मदस्मद्भ्यां ङसः अश्
index: 7.1.27 sutra: युष्मदस्मद्भ्यां ङसोऽश्
युष्मदस्मदित्येताभ्यामुत्तरस्य ङसः अशित्ययमादेशो भवति। तव स्वम्। मम स्वम्। शित्करणं सर्वादेशार्थम्। अन्यथा हि आदेशव्यपदेशप्रकॢप्त्यर्थमादेरेव स्यात्, ततश्च योऽचि 7.2.89 इतेतन् न स्यात्।
index: 7.1.27 sutra: युष्मदस्मद्भ्यां ङसोऽश्
स्पष्टम् । तव । मम । युवयोः । आवयोः ॥
index: 7.1.27 sutra: युष्मदस्मद्भ्यां ङसोऽश्
तव। मम। युवयोः। आवयोः॥
index: 7.1.27 sutra: युष्मदस्मद्भ्यां ङसोऽश्
युष्मदस्मद्भ्यां ङसोऽश् - युष्मदस्माद्भ्यां ङसोऽश् । स्पष्टमिति । युष्मदस्मद्भ्यां परस्य ङसोऽश् स्यादिति सुगममित्यर्थः । सित्त्वात्सर्वादेशः । तव ममेति । युष्मद् अस्, अस्मद् असितिस्थिते मपर्यन्तस्य तवममादेशयोः कृतयोरशादेशे दकारात्पूर्वयोरकारयोः पररूपेऽदो लोपः । अन्त्यलोपपक्षे दकारलोपः, त्रयाणामकाराणां पररूपमिति भावः । युवयोः आवयोरिति । युष्मद् ओस्, अस्मद् ओस् इति स्थिते मपर्यन्तस्य युवावादेशयोःयोऽची॑ति दस्य यत्वे पररूपमिति भावः ।
index: 7.1.27 sutra: युष्मदस्मद्भ्यां ङसोऽश्
शित्करणं सर्वादेशार्थमिति । अन्यथा आदेः परस्य इत्यादेः स्यात् । ननु चाकारस्याकारवचने प्रयोजनाभावादाद्यनुसंहारे बाधिते अलोन्त्यस्य इति मकारस्याकारे सति अतो गुणे इति पररुपेणैव सिद्धमत आह - अन्यथा हीति । आदेश इति व्यपदेश आदेशव्यपदेशः, यस्यादेशस्य प्रयोजनं नास्तीति मन्यसे तसयैव स्यादित्येवशब्दार्थः । किं पुनरादेशव्यपदेशेन प्रयोजनं यत आदेरेव स्यात् तत्राह -ततश्चेति । ह्यर्थे चः एपठितः । ततो ह्यादेशव्यपदेशाद् योऽचि इति यत्वं न स्यात्, यत्वाभावः प्रयोजनमादेशव्यपदेशस्य स्यादित्यर्थः । योऽचि त्यित्र युष्मदस्मदोरनादेशे इति वर्तते । ननु चानादेशो या विभक्तिरित्येवं तत्र विज्ञास्यते, न हि तदादिविधिरस्ति यत अनादेशादाविति विज्ञायेत ततश्च सत्यष्यादेशादित्वे विभक्तेरनादेशत्वात्स्यादेव यत्वमिति व्यर्थमेवाकारस्याकारविधानम् एवं मन्यते - सर्वे सर्वपदादेशाः इति न्यायेनादिविकारद्वारेण विभाक्तेरेवादेशो विधीयत इति विभक्तिरेवादेश इति । सर्वे सर्वपदादेशाः इत्यत्र न पदशब्देन सुप्तिङ्न्तमुच्यते, किं तर्हि पद्यते गम्यतेऽनेनार्थं इति पदम्, ततश्च पचत्वित्यत्र यथा तिशब्दस्य तुशब्दो भवति, तद्वदत्रापि ङ्सोऽशेव विधीयत इति भवत्येवादेशात्वं विभक्तेः ॥