थो न्थः

7-1-87 थः न्थः पथिमथ्यृभुक्षाम् सर्वनामस्थाने

Sampurna sutra

Up

पथि-मथि-ऋभुक्षामङ्गस्य थः सर्वनामस्थाने न्थः

Neelesh Sanskrit Brief

Up

पथिन् तथा मथिन् - एतयोः अङ्गस्य थकारस्य सर्वनामस्थाने परे 'न्थ्' आदेशः भवति ।

Neelesh English Brief

Up

The थकार of the words पथिन् तथा मथिन् get the 'न्थ्' आदेश in presence of a सर्वनामस्थान.

Kashika

Up

पथिमथोस्थकारस्य स्थाने न्थ इत्ययमादेशो भवति सर्वनामस्थाने परतः। पन्थाः, पन्थानौ, पन्थानः। मन्थाः, मन्थानौ, मन्थानः॥

Siddhanta Kaumudi

Up

पथिमथोस्थस्य न्थादेशः स्यात्सर्वनामस्थाने परे । पन्थाः । पन्थानौ । पन्थानः । पन्थानम् । पन्थानौ ॥

Laghu Siddhanta Kaumudi

Up

पथिमथोस्थस्य न्थादेशः सर्वनामस्थाने। पन्थाः। पन्थानौ। पन्थानः॥

Neelesh Sanskrit Detailed

Up

यद्यपि अस्मिन् सूत्रे 'पथिमथ्यृभुक्षाम्' शब्दस्य अनुवृत्तिः अस्ति, तथापि 'ऋभुक्षिन्' इत्यस्य अत्र न किमपि प्रयोजनम्, यतः अस्मिन् शब्दे थकारः नास्ति । अतः केवलं 'पथिन्' तथा 'मथिन्' एतौ शब्दौ एव अत्र अनुवर्तेते । एतयोः थकारस्य सर्वनामस्थाने परे न्थ-आदेशः भवति । यथा - 1) पथिन् + सुँ → पथि आ + स् [<<पथिमथ्यृभुक्षामात्>> 7.1.85 इत्यनेन नकारस्य आकारादेशः] → पथ आ + स् [<<इतोऽत् सर्वनामस्थाने>> 7.1.86 इत्यनेन इकारस्य अकारादेशः] → पन्थ् अ आ + स् [<<थो न्थः>> 7.1.87 इति थकारस्य 'न्थ्' आदेशः] → पन्थाः [सवर्णदीर्घः, विसर्गनिर्माणम्] 2) मथिन् + अम् [द्वितीयैकवचनस्य प्रत्ययः] → मथ् अ न् + अम् [<<इतोऽत् सर्वनामस्थाने>> 7.1.86 इत्यनेन इकारस्य अकारादेशः] → मन्थ् अ न् + अम् [<<थो न्थः>> 7.1.87 इति थकारस्य 'न्थ्' आदेशः] → मन्थान् + अम् [<<सर्वनामस्थाने चासम्बुद्धौ>> 6.4.8 इति नकारान्तस्य अङ्गस्य उपधादीर्घः] → मन्थानम् । 3) सुपथिन् (नपुंसकशब्दः) + जस् [प्रथमाबहुवचनस्य प्रत्ययः] → सुपथिन् + शि [<<जश्शसोः शिः>> 7.1.20 इति शि-आदेशः] → सुपथन् + इ [<<इतोऽत् सर्वनामस्थाने>> 7.1.86 इत्यनेन इकारस्य अकारः] → सुपन्थन् + इ [<<थो न्थः>> 7.1.87 इति थकारस्य न्थ्-आदेशः] → सुपन्थानि [<<इन्-हन्-पूषर्यम्णां शौ>> 6.4.13 इति उपधादीर्घः ]

Balamanorama

Up

<<थो न्थः>> - थो न्थः । थः न्थ इति च्छेदः । थ इति षष्ठी । आदेशेऽकार उच्चारणार्थः । पथिमथिग्रहणमनुवर्तते । ऋभुक्षिग्रहणं निवृत्तं, तत्र थकाराऽभावात् ।इतोऽत्सर्वनामस्थाने॑ इत्यतः सर्वनामस्थानग्रहणमनुवर्तते । तदाह — पथिमथोरित्यादिना । पन्था इति । नकारस्य आत्त्वे इकारस्य अत्त्वे थकारस्य न्थादेशे पन्थ आ स् इति स्थिते सवर्णदीर्घे रुत्वविसर्गाविति भावः । पन्थानाविति । पथिन् औ इति स्थिते सावित्युक्तेर्नात्त्वम् 'इतोऽत्' इति इकारस्याऽत्त्वे थकारस्य न्थादेशेसर्वनामस्थाने चे॑ति दीर्घे रूपमिति भावः ।

Padamanjari

Up

पथिमथोरिति । त्रयाणां प्रकृतत्वेऽप्येतयोरेव थकारसम्भवात् सम्बन्धः । आदेशेऽकार उच्चारणार्थः । स्यादेतत् - थेरन्थः इति सूत्रमस्तु, अकारोऽपि विवक्षितोऽस्तु ,थिशब्दस्यान्थ आदेशः एवं च कृत्वा इतोऽत् इति न वक्तव्यम् इति तदपि वक्तव्यम् ऋभुक्षिन्शब्दार्थम् ॥