7-1-85 पथिमथ्यृभुक्षाम् आत् सौ
index: 7.1.85 sutra: पथिमथ्यृभुक्षामात्
पथि-मथि-ऋभुक्षामङ्गस्य सौ आत्
index: 7.1.85 sutra: पथिमथ्यृभुक्षामात्
पथिन्, मथिन्, ऋभुक्षिन् - एतेषामङ्गस्य सुँ-प्रत्यये परे 'आ' आदेशः भवति ।
index: 7.1.85 sutra: पथिमथ्यृभुक्षामात्
The words पथिन्, मथिन् and ऋभुक्षिन् get an 'आ' आदेश in presence of the सुँ-प्रत्यय.
index: 7.1.85 sutra: पथिमथ्यृभुक्षामात्
पथिन् मथिनृभुक्षिनित्येतेषामङ्गानां सौ परतः आकारः आदेशो भवति। पन्थाः। अन्थाः। ऋभुक्षाः। स्थानिन्यनुनासिकेऽपि आकारोऽनुनासिको न भवति। भाव्यमनेन सवर्णानां ग्रहणं न भवतीति शुद्धो ह्रयमुच्वार्यते।
index: 7.1.85 sutra: पथिमथ्यृभुक्षामात्
एषामाकारोऽन्तादेशः स्यात्सौ परे । आ-आदिति प्रश्लेषेण शुद्धाया एव व्यक्तेर्विधानान्नानुनासिकः ॥
index: 7.1.85 sutra: पथिमथ्यृभुक्षामात्
एषामाकारोऽन्तादेशः स्यात् सौ परे॥
index: 7.1.85 sutra: पथिमथ्यृभुक्षामात्
पथिन् (मार्गः), मथिन् (मथने प्रयुक्तः दण्डः), ऋभुक्षिन् (इन्द्रः) इतेषामङ्गस्य सुँ-प्रत्यये परे आत्-आदेशः भवति । आत्-इत्यत्र तकारः उच्चारणार्थः । अतः अनेन सूत्रेण 'आ' इति एकाल्-आदेशः विधीयते । अलोऽन्त्यस्य 1.1.52 इत्यनेन अङ्गस्य अन्तिमवर्णस्य अयमादेशः भवति । यथा -
→ पथि आ + स् [पथिमथ्यृभुक्षामात् 7.1.85 इत्यनेन नकारस्य आकारादेशः]
→ पथ आ + स् [इतोऽत् सर्वनामस्थाने 7.1.86 इत्यनेन इकारस्य अकारादेशः]
→ पन्थ् अ आ + स् [थो न्थः 7.1.87 इति थकारस्य 'न्थ्' आदेशः]
→ पन्थाः [सवर्णदीर्घः, विसर्गनिर्माणम्]
एवमेव मन्थाः इति रूपं सिद्ध्यति ।
→ ऋभुक्षि आ + स् [पथिमथ्यृभुक्षामात् 7.1.85 इत्यनेन नकारस्य आकारादेशः]
→ ऋभुक्ष आ + स् [इतोऽत् सर्वनामस्थाने 7.1.86 इत्यनेन इकारस्य अकारादेशः]
→ ऋभुक्षाः [सवर्णदीर्घः, विसर्गनिर्माणम्]
ज्ञातव्यम् -
यद्यपि 'न्थ्' अयमनेकाल् आदेशः, तथाप्यत्र स्थानी स्पष्टरूपेण निर्दिष्टः अस्ति । अतः 'कः स्थानी' एतादृशः अनियमः नास्ति, अतः अत्र अनेकाल् शित् सर्वस्य 1.1.55 अस्य न किमपि प्रयोजनम् । ] अनया परिभाषया थकारस्यैव आदेशः अत्र विधीयते ।
अयमात्वम् नपुंसकस्य विषये न विधीयते । यथा, सुपथिन् इति नकारान्त-नपुंसकलिङ्गवाची शब्दः । 'सुपथिन् + सुँ' इत्यत्र स्वमोर्नपुंसकात् 7.1.23 इत्यनेन सुँ-प्रत्ययस्य लुकि कृते न लुमताङ्गस्य 1.1.63 इत्यनेन पथिमथ्यृभुक्षामात् 7.1.85 इति अङ्गकार्यम् निषिध्यते । अतः केवलं नकारलोपं कृत्वा 'सुपथि' इति रूपं सिद्ध्यति ।
index: 7.1.85 sutra: पथिमथ्यृभुक्षामात्
पथिमथ्यृभुक्षामात् - तेषु विशेषमाह — पथिमथ्यृभुक्षामात् । पन्थाश्च, मन्थाश्च ऋभुक्षाश्च, पथिमथ्यृभुक्षाणः, तेषामिति विग्रहः । 'सावनडुहः' इत्यतःसा॑वित्यनुवर्तते । आदिति तपरकरणम् । आकार एव विधेयः । तदाह — एषामित्यादिना ।अलोऽन्त्यस्ये॑ति नकारस्य आकारः । ननु नकारस्य आन्तरतम्यादनुनासिक एव आकारः प्राप्नोति । नच निरनुनासिकस्यैवाकारस्योच्चारणाच्छुद्ध एव आकार इति वाच्यं, गुणानामभेदकत्वाद्भेदकत्वेऽपि तपरकरणेन अनुनासिकस्याप्याकारस्य ग्रहणात्, व्यक्तिपक्षे तपरसूत्रस्य अनण्सु दीर्घप्लुतेषु विध्यर्थत्वात् । नच ग्रहणकसूत्रे वार्णसमाम्नायिकत्वेन निश्चितस्याऽण्ग्रहणस्य अप्रत्यय इत्यस्य च तपरसूत्रे अनुवृत्तेराकास्स्येहानण्त्वाद्विधीयमानत्वाच्च न तत्काल इति वाच्यं, तपरसूत्रे अण्ग्रहणस्य अप्रत्ययग्रहणस्य चानुवृत्तौ मानाऽभावादित्यत आह — आ आदिति सवर्णदीर्घेणाकारान्तरं प्रश्लिष्यते । ततश्चाननुनासिकरूप आकारो भवतीति लभ्यते । नच सर्वादेशत्वं शङ्क्यम् । नह्रत्र वर्णद्वयं विधीयते, विशेषणविशेष्यबावेनान्वयाभ्युपगमेन अननुनासिकाकारस्यैकस्यैव विधानादिति भावः । भाष्ये तु अनुनासिकविधेः संमतत्वे प्रतिपत्तिलाघवाय अनुनासिकस्यैव 'उञः, ऊ#ँ' इत्यत्रेव उच्चार्य विधानसंभवात्तदनुच्चारणाच्छुद एव आकार इह विधेय इत्युक्तम् । तपरकरणं तु उच्चारणार्थमेव । वस्तुतस्तुभाव्यमानेन सवर्णानां ग्रहणं ने॑ति परिभाषयैव अनुनासिकाकारनिराससंभवादाकारप्रश्लेषक्लेशो व्यर्थः ।भाव्यमानोऽण् सवर्णान्न गृह्णाती॑ति पाठस्तु प्रामादिकः, 'ज्यादादीयसः' इति सूत्रे आदिति तपरनिर्देशेनेयं परिभाषा ज्ञाप्यते-॒भाव्यमानेन सवर्णानां ग्रहणं ने॑त्यवे भाष्ये पाठात्, अणुदित्सूत्रभाष्येऽप्यण्ग्रहणरहिताया एवास्याः परिभाषायाः पाठदर्शनाच्चेत्यास्तां तावत् । नकारस्य आत्त्वे पथि आ स् इति स्थिते ।
index: 7.1.85 sutra: पथिमथ्यृभुक्षामात्
एपन्था इति । इतोऽत्सर्वनामस्थाने इतीकारस्याकारः, सवर्णदीर्घत्वम्, थो न्थः । अनुनासिकस्य नकारस्यान्तर्यतोऽनुनासिक आकारः कस्मान्न भवति इत्याशङ्क्याह - स्थानिन्यनुनासिकेऽपीति । अक्ष कारणमाह - भाव्यमानेनेति । केचिद्भाव्यमानोऽण् सवर्णान्न गृह्यतीति पठन्ति, तेषाम्प्यण्ग्रहणं ग्राहकोपलक्षणार्थम्, तेनाकारोऽपि भाव्यमानो ग्राहको न भवति । तपरस्तत्कालस्य इत्यनेन तु ग्रहणशङ्का, उक्तं हि तत्र - अनणि विध्यर्थमेतदिति । स्यादेतत् - मा भूत्सवर्णाग्रहणम्, अनुनासिकस्यैव तु सूत्रे उच्चारणात्स एव स्यात् इत्यत आह - शूद्धो ह्ययमिति । अकारविधाने अतो गुणे परुपं स्यात् । अकारविधानं तु नकारनिवृत्यर्थ स्यात् लोपविधौ गौरवप्रसङ्गात् । तस्मादाकर एव विहितः ॥