क्त्वातोसुन्कसुनः

1-1-40 क्त्वातोसुन्कसुनः अव्ययम्

Sampurna sutra

Up

क्त्वा-तोसुन्-कसुनः अव्ययानि

Neelesh Sanskrit Brief

Up

'क्त्वा'प्रत्ययान्तशब्दाः, 'तोसुन्' प्रत्ययान्तशब्दाः, 'कसुन्' प्रत्ययान्तशब्दाः च अव्ययसंज्ञकाः भवन्ति ।

Neelesh English Brief

Up

The words ending in क्त्वा, तोसुन् and कसुन् प्रत्यय are known as 'अव्यय'.

Kashika

Up

क्त्वा तोसुन् कसुन् इत्येवमन्तं शब्दरूपमव्ययसंज्ञं भवति। कृत्वा। हृत्वा। तोसुन् — पुरा सूर्यस्योदेतोराधेयः (काठ०सं० ८.३) पुरा वत्सानामपाकर्तोः (काठ०सं ३१.१५)। <<भावलक्षणे स्थेण्कृञ्वदि०>> ३.४.१६ इति इणः कृञश्च तोसुन् प्रत्ययः। कसुन् — <<सृपितृदोः कसुन्>> ३.४.१७ — पु॒रा क्रू॒ रस्य॑ वि॒सृपो॑ विरप्शिन् (तै०सं० १.१.९.३)। पु॒रा ज॒त्रुभ्य॑ आ॒तृदः॑ (ऋ० ८.१.१२)॥

Siddhanta Kaumudi

Up

एतदन्तमव्ययं स्यात् । कृत्वा । उदेतोः । विसृपः ॥

Laghu Siddhanta Kaumudi

Up

एतदन्तमव्ययम्। कृत्वा। उदेतोः। विसृपः॥

Neelesh Sanskrit Detailed

Up

व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति 'अव्यय' इति संज्ञा । <<स्वरादिनिपातमव्ययम्>> 1.1.37 इत्यस्मात् सूत्रात् <<अव्ययीभावश्च>> 1.1.41 इति यावत्सु पञ्चसु सूत्रेषु अव्ययसंज्ञा पाठ्यते । एतेषु इदं चतुर्थं सूत्रम् । क्त्वा, तोसुन्, तथा कसुन् - एते कृत्प्रत्ययाः यस्य अन्ते विद्यन्ते तस्य कृदन्तस्य प्रकृतसूत्रेण अव्ययसंज्ञा भवति । क्त्वा-प्रत्ययः तृतीयाध्यायस्य चतुर्थपादे विद्यमानेभ्यः भिन्नेभ्यः सूत्रेभ्यः 'क्त्वा'प्रत्ययः पाठितः अस्ति । यथा - <<अलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वा>> 3.4.18, <<समानकर्तृकयोः पूर्वकाले>> 3.4.21, <<अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ>> 3.4.59 आदयः । अयं क्त्वा-प्रत्ययः यदा धातुभ्यः प्रयुज्यते, तदा सिद्धं कृदन्तम् प्रकृतसूत्रेण अव्ययसंज्ञकं भवति । यथा, कृ + क्त्वा --> 'कृत्वा' इति अव्ययम् । तोसुन्-प्रत्ययः, कसुन्-प्रत्ययः 'तोसुन्' तथा 'कसुन्' एतौ छान्दसौ प्रत्ययौ । <<ईश्वरे तोसुन्कसुनौ>> 3.4.13, <<भावलक्षणे स्थेण्कृञ्वदिचरिहुतमिजनिभ्यस्तोसुन्>> 3.4.16 तथा च <<सृपितृदोः कसुन्>> 3.4.17 इत्येतैः सूत्रै एतयोः विधानं क्रियते । एतयोः प्रयोगेण अपि अव्ययं सिद्ध्यति । यथा - अभि + चर् + तोसुन् --> 'अभिचरितस्' इति अव्ययम् । वि + लिख् + कसुन् --> 'विलिखस्' इति अव्ययम् । सुबुत्पत्तिः, पदसंज्ञा सर्वाणि कृदन्तानि <<कृत्तद्धितसमासाश्च>> 1.2.46 इत्यनेन प्रातिपदिकसंज्ञकानि सन्ति । एतेषु क्त्वा-तोसुन्-कसुन्-प्रत्ययान्तशब्दानाम् प्रकृतसूत्रेण अव्ययसंज्ञा विधीयते । एतेभ्यः विहितानाम् सुप्-प्रत्ययानाम् अग्रे <<अव्ययादाप्सुपः>> 2.4.82 इत्यनेन लुक् भवति । कृत्वा [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा । <<क्त्वातोसुन्कसुनः>> 1.1.40 इत्यनेन अव्ययसंज्ञा ।] --> कृत्वा + सुँ [<<स्वौजस्...>> 4.1.2 इत्यनेन सुबुत्पत्तिः] --> कृत्वा + ० [<<अव्ययादाप्सुपः>> 2.4.82 इत्यनेन अव्ययसंज्ञकात् विहितस्य सुप्-प्रत्ययस्य लुक्] --> कृत्वा [<<प्रत्ययलोपे प्रत्ययलक्षणम्>> 1.1.62 इति प्रत्ययस्य लोपे कृते अपि तल्लक्षणा <<सुप्तिङन्तं पदम्>> 1.4.14 इति पदसंज्ञा ] अनेन प्रकारेण पदसंज्ञायाम् जातायाम् एव अस्य शब्दस्य वाक्ये प्रयोगः भवति । अतः 'रामः रक्षणं कृत्वा गच्छति' अस्मिन् वाक्ये विद्यमानः 'कृत्वा' इति शब्दः पदसंज्ञकः अस्ति, न हि प्रातिपदिकम् । तदन्तग्रहणम् वस्तुतः अस्मिन् सूत्रे 'क्त्वा-तोसुन्-कसुनः' इति प्रत्ययानाम् एव निर्देशः कृतः अस्ति, तदन्तानां न । अस्यां स्थितौ <<संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति>> इत्यनया परिभाषया केवलप्रत्ययस्यैव अव्ययसंज्ञा प्राप्नोति, न हि तदन्तस्य । परन्तु केवलप्रत्ययस्य अव्ययसंज्ञायाः न किञ्चन प्रयोजनम्, अतः अत्र तदन्तस्यैव ग्रहणं क्रियते ।

Balamanorama

Up

<<अव्ययीभावश्च>> - अव्ययीभावश्च ।अव्ययसंज्ञः स्या॑दिति शेषः । अधिहरीति । विभक्तयर्थेऽव्ययीभावः । हरावित्यर्थः ।

Padamanjari

Up