उरःप्रभृतिभ्यः कप्

5-4-151 उरःप्रभृतिभ्यः कप् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

उरःप्रभृत्यन्ताद् बहुव्रीहेः कप् प्रत्ययो भवति। व्यूढमुरोऽस्य व्यूढोरस्कः। प्रियसर्पिष्कः। अवमुक्तोपानत्कः। पुमान् अनड्वान् पयो नौर्लक्ष्मीरिति विभक्त्यन्ताः पठ्यन्ते, न प्रातिपदिकानि। तत्रेदं प्रयोजनम् — एकवचनान्तानामेव ग्रहणमिह विज्ञायेत, द्विवचनबहुवचनान्तानां मा भूदिति। तत्र <<शेषाद् विभाषा>> ५.४.१५४ इति विकल्प एव भवतीति। द्विपुमान्, द्विपुंस्कः। बहुपुमान्, बहुपुंस्कः॥ उरस्। सर्पिस्। उपानह्। पुमान्। अनड्वान्। नौः। पयः। लक्ष्मीः। दधि। मधु। शालि। अर्थान्नञः (ग०सू० १६२)। अनर्थकः॥

Siddhanta Kaumudi

Up

व्यूढोरस्कः । प्रियसर्पिष्कः । इह पुमान्, अनड्वान्, पयः, नौ, लक्ष्मीरिति एकवचनान्तानि पठ्यन्ते । द्विवचनबहुवचनान्तेभ्यस्तु शेषाद्विभाषा <{SK811}> इति विकल्पेन कप् । द्विपुमान् । द्विपुंस्कः ॥ (गणसूत्रम् -) अर्थान्नञः ॥ अनर्थकम् । नञः किम् । अपार्थम् । अपार्थकम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<उरःप्रभृतिभ्यः कप्>> - उरःप्रभृतिभ्यः कप् । बहुव्रीहौ समासान्तस्तद्धित इति विशेषः । तद्धितत्वात् ककारस्य नेत्संज्ञा । व्यूढोरस्क इति । व्यूढं=विशालमुर=वक्षो यस्येति विग्रहः । कप् । 'सोऽपदादौ' इति सत्वम् । प्रियसर्पिष्क इति । प्रियं सर्पिर्यस्येति विग्रहः । कप् । 'इणः ष' इति षत्वम् । ननु द्वौ पुमांसौ यस्य स द्विपुमानित्यनुपपन्नम्, उरः प्रभृतिषु पुमानिति पुंस्शब्दस्य पाठादित्यत आह — इहेति । गणेऽविभक्तिकानामेव पाठः । इह तु केषांचिदेकवचनान्तानामेव पाठस्तद्विवक्षार्थ इति भावः । द्विपुंस्क इति ।संपुंकाना॑मिति सः । अर्थान्नञ इति । गणसूत्रम् । नञ परो योऽर्थशब्दस्तदन्ताद्बहुव्रीहेः कप् स्यादिति तदर्थः । अनर्थकमिति । अविद्यमानोऽर्थो यस्येति विग्रहः । अपार्थम्-अपार्थकमिति । अपगतोऽर्थो यस्मादिति विग्रहः । अत्र नञ्पूर्वकत्वान्न नित्यः कविति भावः ।

Padamanjari

Up

व्यूढोरस्कः, प्रियसर्पिष्कः। इति।'सो' पदादौऽ, ठिणः षःऽ, उपपूर्वान्नह्यतेः सम्पदादित्वात्कर्मणि क्विप्, उपनद्धा उपानत्,'नहिवृत्ति' इति दीर्घः, अवमुक्ते उपानहौ येन सोऽवमुक्तोपानत्कः।'नहो धः' जश्त्वचर्त्वे ॥ विकल्प एव भवतीति। लक्ष्मीशब्दात्'नद्यःतश्च' इति नित्यः कब् न भवति; एकवचनान्तपाठस्य नियमार्थत्वात्। अर्थान्नञ इति। नञः परो योऽर्थशब्दस्तदन्ताद्बहुव्रीहेर्नित्यं कब्भवति। नास्यार्थोऽस्ति अनर्थमः ॥