सुपि च

7-3-102 सुपि च अतः दीर्घः यञि

Sampurna sutra

Up

अतः अङ्गस्य यञि सुपि दीर्घः

Neelesh Sanskrit Brief

Up

यञादि सुप्-प्रत्यये परे अदन्तस्य अङ्गस्य दीर्घादेशः भवति ।

Neelesh English Brief

Up

The last letter of an अदन्त अङ्ग becomes दीर्घ when followed by a यञादि सुप्-प्रत्यय.

Kashika

Up

<<अतो दीर्घो यञि>> ७.३.१०१ इत्यनुवर्तते। सुपि च यञादौ परतोऽकारान्तस्याङ्गस्य दीर्घो भवति। वृक्षाय। प्लक्षाय। वृक्षाभ्याम्। प्लक्षाभ्याम्। अत इत्येव — अग्निभ्याम्। यञीत्येव — वृक्षस्य। प्लक्षस्य॥

Siddhanta Kaumudi

Up

यञादौ सुपि परेऽतोऽङ्गस्य दीर्घः स्यात् । रामाभ्याम् ॥

Laghu Siddhanta Kaumudi

Up

यञादौ सुपि अतोऽङ्गस्य दीर्घः। रामाभ्याम्॥

Neelesh Sanskrit Detailed

Up

सुप्-प्रत्ययाः इत्युक्ते <<स्वौजसमौट्..>> 4.1.2 सूत्रेण उक्ताः एकविंशतिः प्रत्ययाः । एते प्रत्ययाः प्रातिपदिकेभ्यः आगच्छन्ति । एतेषु यञादि सुप्-प्रत्ययाः एते - भ्याम्, भिस्, भ्यस्, तथा (ङे-प्रत्ययस्य आदेशभूतः) य । एतेषु परेषु अदन्तस्य अङ्गस्य अन्तिमवर्णस्य दीर्घादेशः भवति । यथा - 1) राम + भ्याम् → रामाभ्याम् । 2) राम + ङे → [<<ङेर्यः>> 7.1.13 इति यकारादेशः] राम + य → रामाय । स्मर्तव्यम् - यद्यपि एतत् सूत्रम् बहु सुलभम् भासते, तथाप्यत्र सप्त-परिभाषाणाम् प्रयोगं कृत्वा एव सम्पूर्णा अर्थनिष्पत्तिः भवति - 1) <<तपरस्तत्कालस्य>> 1.1.70 इत्यनेन 'अतः' इत्यनेन केवलं अदन्तस्य अङ्गस्य इदं कार्यं भवति, आकारान्तस्य अङ्गस्य न । 2) <<अलोऽन्त्यस्य>> 1.1.52 इत्यनेन अङ्गस्य अन्तिमवर्णस्य दीर्घादेशः भवति । 3) <<अचश्च>> 1.2.28 इत्यनेन स्वरस्य दीर्घादेशः भवति । 4) <<तस्मिन्निति निर्दिष्टे पूर्वस्य>> 1.1.66 इत्यनेन 'सुपि' इत्यस्य अर्थः सुप्-प्रत्यये परे इति क्रियते । 5) <<षष्ठी स्थानेयोगा>> 1.1.49 इत्यनेन 'अतः' इत्यस्य अर्थः 'अदन्तस्य अङ्गस्य स्थाने' इति भवति । 6) <<येन विधिस्तदन्तस्य>> 1.1.72 इत्यनेन 'अतः अङ्गस्य' इत्युक्ते 'अदन्तस्य अङ्गस्य' इति अर्थनिष्पत्तिः भवति । 7) <<यस्मिन् विधिः तदादौ अल्ग्रहणे>> अनया परिभाषया 'यञि सुपि' इत्युक्ते 'यञादि-सुप्-प्रत्यये परे' इत्यर्थः जायते ।

Balamanorama

Up

<<जसि च>> - जसि च । 'ह्रस्वस्य गुणः' इत्यनुवर्तते ।अह्गस्ये॑त्यधिकृतं ह्रस्वेन विशेष्यते । तेन तदन्तविधिः । तदाह — ह्रस्वान्तस्येत्यादिना । हरय इति । अलोऽन्त्यपरिभाषयाऽन्त्यस्य गुणः । इकारस्य तालुस्थानसाम्यादेकारः । अयादेशः । रुत्वविसर्गाविति भावः ।

Padamanjari

Up

वृक्षायेति । सन्निपातपरिभाषाया अनित्यत्वादत्र दीर्घत्वम् । अनित्यत्वं च'कष्टाय' इति निर्देशादवसितम् ॥