2-4-72 अदिप्रभृतिभ्यः शपः
अदिप्रभृतिभ्यः शपः लुक्
अदादिगणस्य धातुभ्यः विहितस्य शप्-प्रत्ययस्य लुक् भवति ।
अदिप्रभृतिभ्य उत्तरस्य शपो लुग् भवति। अत्ति। हन्ति। द्वेष्टि॥
{$ {!1011 अद!} भक्षणे$} । द्वौ परस्मैपदिनौ ॥ लुक्स्यात् । अत्ति । अत्तः । अदन्ति ॥
॥ {$ {! 1 अद !} भक्षणे $} (धातुपाठे <{02.0001}>) ॥ लुक् स्यात्। अत्ति। अत्तः। अदन्ति। अत्सि। अत्थः। अत्थ। अद्मि। अद्वः। अद्मः॥
सर्वेभ्यः धातुभ्यः <<कर्तरि शप्>> 3.1.68 इति सूत्रेण सार्वधातुके कर्तरि प्रत्यये परे धातोः परः औत्सर्गिकतया 'शप्' इति विकरणप्रत्ययः विधीयते । अदादिगणस्य धातुभ्यः विहितस्य शप्-प्रत्ययस्य वर्तमानसूत्रेण 'लुक्' भवति (लोपः भवति) । कानिचन उदाहरणानि एतादृशानि - 1) अदँ (भक्षणे) धातोः लट्लकारस्य प्रथमपुरुष-एकवचनस्य रूपम् - अद् + लट् [ <<वर्तमाने लट्>> 3.2.123 इति लट् ] → अद् + तिप् [ <<तिप्तस्झि..>> 3.4.78 इति प्रथमपुरुष-एकवचनस्य विवक्षायाम् 'तिप्' प्रत्ययः ] → अद् + शप् + ति [ <<कर्तरि शप्>> 3.1.68 इति सार्वधातुके कर्तरि प्रत्यये परे औत्सर्गिकः 'शप्' विकरणप्रत्ययः ] → अद् + ति [ <<अदिप्रभृतिभ्यः शपः>> 2.4.72 इति शप्-प्रत्ययस्य लुक् ] → अत्ति [ <<खरि च>> 8.4.55 इति चर्त्वम् ] 2) अदँ (भक्षणे ) धातोः लङ्-लकारस्य मध्यमपुरुष-एकवचनस्य रूपम् - अद् + लङ् [ <<अनद्यतने लङ्>> 3.2.111 इति लङ् ] → आट् + अद् + लङ् [ <<आडजादीनाम्>> 6.4.72 इति लङ्-लकारे परे अजादेः अङ्गस्य आडागमः ] → आ + अद् + सिप् [<<तिप्तस्झि…>> 3.4.78 इति मध्यमपुरुष-एकवचनस्य विवक्षायाम् 'सिप्' प्रत्ययः ] → आ + अद् + शप् + सिप् [<<कर्तरि शप्>> 3.1.68 इति सार्वधातुके कर्तरि प्रत्यये परे औत्सर्गिकः 'शप्' विकरणप्रत्ययः ] → आ + अद् + सिप् [ <<अदिप्रभृतिभ्यः शपः>> 2.4.72 इति शप्-प्रत्ययस्य लुक् ] → आ + अद् + स् [ <<इतश्च>> 3.4.100 इति इकारलोपः, पकारस्य हलन्त्यम् इत्यनेन इत्संज्ञा ] → आ + अद् + अट् + स् [ <<अदः सर्वेषाम्>> 7.3.100 इति अपृक्त-स्-प्रत्ययस्य अट्-आगमः ] → आ + अद् + अ + स् [ <<हलन्त्यम्>> 1.3.3 इति टकारस्य इत्संज्ञा, <<तस्य लोपः>> 1.3.9 इति तस्य लोपः ] → आदस् [ <<आटश्च>> 6.1.90 इति वृद्धि-एकादेशः , वर्णमेलनम् ] → आदरुँ [ <<ससजुषो रुः>> 8.2.66 इति रुँत्वम् ] → आदः [ <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गनिर्माणम् ] 3) द्विषँ (अप्रीतौ) इति अदादिगणस्य धातोः लट्-लकारस्य प्रथमपुरुष-एकवचनस्य रूपम्- द्विष् + लट् [ <<वर्तमाने लट्>> 3.2.123 इति लट् ] → द्विष् + तिप् [ <<तिप्तस्झि..>> 3.4.78 इति प्रथमपुरुष-एकवचनस्यविवक्षायाम् 'तिप्' प्रत्ययः ] → द्विष् + शप् + ति [ <<कर्तरि शप्>> 3.1.68 इति सार्वधातुके कर्तरि प्रत्यये परे औत्सर्गिकः 'शप्' विकरणप्रत्ययः ] → द्विष् + ति [ <<अदिप्रभृतिभ्यः शपः>> 2.4.72 इति शप्-प्रत्ययस्य लुक् ] → द्वेष् + ति [ <<पुगन्तलघूपधस्य च>> 7.3.86 इति सार्वधातुके 'तिप्' प्रत्यये परे लघूपध-अङ्गस्य इक्-वर्णस्य गुणः , इति इकारस्य एकारः ] → द्वेष्टि [ <<ष्टुना ष्टुः>> 8.4.41 इति ष्टुत्वम् ] ज्ञातव्यम् - 1. <<तिङ्शित्सार्वधातुकम्>> 3.4.113 इत्यनेन तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति । 2. 'लुक्' इति प्रत्ययलोपस्य किञ्चन विशिष्टं नाम । अस्मिन् विषये <<प्रत्ययस्य लुक्श्लुलुपः>> 1.1.61 इत्यत्र विस्तारेण उक्तमस्ति । शास्त्रविषयः - 1. गरुडपुराणे 'न विश्वसेत् अविश्वस्तम्' इति कश्चन प्रयोगः दृश्यते । अत्र 'वि + श्वस्' इत्यस्य अदादिगणस्य धातोः विधिलिङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् 'विश्वसेत्' इति प्रयुक्तमस्ति । वस्तुतस्तु 'वि + श्वस्' धातोः विधिलिङ्लकारस्य साधु रूपम् 'विश्वस्यात्' इति अस्ति, यतः प्रक्रियायां <<अदिप्रभृतिभ्यः शपः>> 2.4.72 इत्यनेन शप्-विकरणस्य लोपः क्रियते चेत् 'यासुट्' इत्यस्य यकारस्य 'इय्' आदेशः एव न भवति (यतः <<अतो येयः>> 7.2.80 इत्यस्य प्रसक्तिः तत्र न वर्तते) । यदि प्रक्रियायाम् शप्-विकरणस्य लोपः न भवति, तदा एव <<अतो येयः>> 7.2.80 इत्यनेन 'यासुट्' इत्यस्य 'इय्' इति आदेशं कृत्वा ततः 'विश्वसेत्' इति रूपं साधयितुम् शक्यते । अतः अस्य प्रयोगस्य समर्थनार्थमनेके वैयाकरणाः 'गणकार्यमनित्यमस्ति' इति वदन्ति । इत्युक्ते, तेषां मतेन विकरणविधानम् तस्य लोपः च 'अनित्यः' अस्ति, प्रक्रियायां कुत्रचित् नैव भवितुमर्हति - इति । अयं पक्षः स्वीक्रियते चेत् 'वि + श्वस्' इत्यस्य विधिलिङ्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रियायाम् 'शप्' विकरणस्य लोपं अकृत्वा 'विश्वसेत्' इत्यस्य साधुत्वं प्रदर्शयितुम् शक्यते । एतम् पक्षम् मनसि निधाय नागेशः परिभाषेन्दुशेखरे <<गणकार्यमनित्यम्>> इति काञ्चन परिभाषां पाठयति (परिभाषेन्दुशेखरः 96) । अनया परिभाषया गणकार्यस्य अनित्यत्वं संज्ञाप्य 'विश्वसेत्' सदृशाः प्रयोगाः सिद्ध्यन्ति । परन्तु इयं परिभाषा भाष्यकारेण कुत्रापि न पाठिता लभ्यते, अतः नागेशः अपि इमां परिभाषां न स्वीकरोति (प्रत्याचष्टे इत्याशयः । Mentions the paribhasha and then rejects its correctness) । इत्युक्ते, भाष्यकारस्य नागेशस्य च मतेन 'विश्वसेत्' तथा तत्सदृशाः अन्ये प्रयोगाः अपाणिनीयाः / आर्षप्रयोगाः एव ज्ञातव्याः । 2. (प्रश्नः) - <<कर्तरि शप्>> 3.1.68 इत्यनेन अदिप्रभृतिभ्यो शपः विधानं कृत्वा पुनः तस्य लुकः किं प्रयोजनम् ? मूलरूपेणैव शपः विधानं नैव क्रियेत (इत्युक्ते -'कर्तरि शप्, अदिप्रभृतिभ्यो न' इत्येव उच्यते) चेत् कः दोषः ? उत्तरम् - यदा शप्-प्रत्ययस्य विधानं कृत्वा ततः तस्य लोपः क्रियते, तदा अदादिगणस्य धातवः 'लुग्विकरणत्वम्' प्राप्नुवन्ति । (येभ्यो विहितस्य विकरणप्रत्ययस्य लुक् भवति ते लुग्विकरणाः) । अतएव <<लुग्विकरणालुग्विकरणयोः अलुग्विकरणस्य>> इति परिभाषया <<गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु>> 2.4.77 इत्यत्र केवलं भ्वादिगणस्य 'पा' धातोः एव ग्रहणं भवति, अदादिगणस्य 'पा' धातोः न । अनेनैव अदादिगणस्य 'पा' धातो' लुङि 'अपासीत्' इति इष्टरूपं सिद्ध्यति । यदि अदिप्रभृतिभ्यः शप्-प्रत्ययः नैव उक्त्वा तस्य लोपोऽपि न क्रियेत, तर्हि अदादिगणस्य धातवः 'लुग्विकरणत्वम्' न प्राप्नुयुः । अस्या स्थितौ पा-धातोः विषये <<गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु>> 2.4.77 इत्यस्य प्राप्तिः स्यात् । अनेन 'अपात्' इति अनिष्टं रूपं सिद्ध्येत । अतएव अदादिगणस्य धातूनां विषये शपः विधानं कृत्वा तस्य लुक् अपि क्रियते ।
<<अदिप्रभृतिभ्यः शपः>> - अदिप्रभृतिभ्यः ।ण्यक्षत्रियार्षञितः॑ इत्यतो लुगित्यनुवर्तते इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे — लुक् स्यादिति । अदिप्रभृतिभ्यः परस्य शपो लुगिति फलितम् । अत्तीति । शपो लुकि दस्य चर्त्वेन तकारः । एवमत्त इत्यपि । अदन्तीति । तदर्थमेव 'झोऽन्तः' इत्यत्र अकारादिरादेश आश्रितः । अत्सि अत्थः अत्थ । अद्मि अद्वः अद्मः ।
अदिप्रभृतिभ्य शपः॥ कथम्' न विश्वसेदविश्वस्ते विश्वस्ते' पि न विश्वसेद्ऽ इति, तथा भट्टिकाव्ये - ठाश्वसेयुर्निशाचराःऽ इति, तथा'न विश्वसेत्पूर्वविरोधितस्य' इति? निरङ्गशाः कवयः। अपर आह -'क्षमूष् सहने' घटादिः; तत्र'घटादयः षितः' इति सिद्धे षित्करणं ज्ञापकम् - अनित्यं गणकार्थमिति, तेनैवमादिप्रयोगोपपतिरिति नात्र किञ्टचिदपभाषितमस्ति॥