सोऽपदादौ

8-3-38 सः अपदादौ पदस्य पूर्वत्र असिद्धम् संहितायाम् कुप्वोः

Sampurna sutra

Up

अपदादौ कुप्वोः पदस्य विसर्जनीयस्य सः

Neelesh Sanskrit Brief

Up

पदान्ते विद्यमानस्य विसर्गस्य 'पाश-कल्प-क-काम्य' एतेषु प्रत्ययेषु परेषु सकारादेशः भवति ।

Neelesh English Brief

Up

A पदान्त विसर्ग is converted to a सकार when it is followed by the प्रत्ययाः पाश्य, कल्प, क, काम्य.

Kashika

Up

सकार आदेशो भवति विसर्जनीयस्य कुप्वोरपदाद्योः परतः। पाशकल्पककाम्येषु। <<याप्ये पाशप्>> ५.३.४७ — पयस्पाशम्। <<ईषदसमाप्तौ कल्पप्०>> ५.३.६७ — पयस्कल्पम्। यशस्कल्पम्। <<प्रागिवात् कः>> ५.३.७० — पयस्कम्। यशस्कम्। <<काम्यच्०>> ३.१.९ — पयस्काम्यति। यशस्काम्यति। अपदादाविति किम्? पय कामयते। पय पिबति॥ सोऽपदादावित्यनव्ययस्येति वक्तव्यम्॥ इह मा भूत् — प्रातःकल्पम्, पुनःकल्पमिति॥ रोःकाम्ये नियमार्थम्॥ रोरेव काम्ये नान्यस्येति नियमार्थं वक्तव्यम्। पयस्काम्यति। यशस्काम्यति। इह मा भूत् — गीःकाम्यति। धूःकाम्यति॥ उपध्मानीयस्य च॥ कवर्गे परतः सकार आदेशो भवतीति वक्तव्यम्। किं प्रयोजनम् ? उब्जिरुपध्मानीयोपधः पठ्यत इति दर्शनेऽभ्युद्गः, समुद्ग इति यथा स्यात्॥

Siddhanta Kaumudi

Up

विसर्जनीयस्य सः स्यादपदाद्योः कुप्वोः परयोः ॥<!पाशकल्पककाम्येष्विति वाच्यम् !> (वार्तिकम्) ॥ पयस्पाशम् । यशस्कल्पम् । यशस्कम् । यशस्काम्यति ।<!अनव्ययस्येति वाच्यम् !> (वार्तिकम्) ॥ प्रातः कल्पम् ।<!काम्ये रोरेवेति वाच्यम् !> (वार्तिकम्) ॥ नेह । गीः काम्यति ॥

Laghu Siddhanta Kaumudi

Up

पाशकल्पककाम्येषु विसर्गस्य सः॥

Neelesh Sanskrit Detailed

Up

विसर्गात् परः ककारः / खकारः / पकारः / फकारः अस्ति चेत् <<कुप्वोः ≍क≍पौ च>> 8.3.37 इत्यनेन विसर्गस्य विकल्पेन जिह्वामूलीय-उपध्मानीयौ भवतः, विकल्पाभावे च विसर्गः तादृशः एव तिष्ठति । वर्तमानसूत्रेण अस्य अपवादः उच्यते - यदि विसर्गात् परः पाश-कल्प-क-काम्य एते शब्दाः आगच्छति, तर्हि विसर्गस्य सकारादेशः एव भवति । अस्मिन् सूत्रे 'अपदादौ' इति उक्तमस्ति । अपदादौ = अपदस्य आदौ । अतः 'अपदादौ कुप्वोः' अस्य अर्थः - सः कवर्गीयः/पवर्गीयः वर्णः यः अपदस्य आदौ अस्ति । इत्युक्ते, पदस्य आदौ नास्ति, कस्यचित् अन्यशब्दस्य आदौ अस्ति । कः अयमन्यशब्दः? अस्य उत्तरम् वार्त्तिकेन दीयते - <!पाश-कल्प-क-काम्येष्विति वाच्यम् !> । इत्युक्ते, यदि सः 'अन्यः शब्दः' पाश-कल्प-क-काम्य एतेषु कश्चन प्रत्ययः अस्ति, तर्हि अयम् सकारादेशः भवति । (एते चत्वारः प्रत्ययाः सन्ति - पदानि न - इति स्मर्तव्यम्) । क्रमेण पश्यामः - 1) 'पाश' अयम् प्रत्ययः <<याप्ये पाशप्>> 5.3.47 इत्यनेन दीयते । 'याप्य' इत्युक्ते कुत्सितम् । यथा - पयः + पाशम् → पयस्पाशम् । (दुर्गतम् / अपेयम् दुग्धम् इत्यर्थः) । 2) 'कल्प' अयम् प्रत्ययः <<ईषदसमाप्तौ कल्पब्देश्यदेशीयरः>> 5.3.67 इत्यनेन दीयते । यथा - यशः + कल्पम् → यशस्कल्पम् । (सम्पूर्णरूपेण यशः न प्राप्तम्, ईषद्रूपेण प्राप्तम्, इत्यर्थः) । 3) 'क' अयम् प्रत्ययः <<प्रागिवात्कः>> 5.3.70 अस्मिन् अधिकारे उक्तः अस्ति । यथा, <<अज्ञाते>> 5.3.73 अनेन सूत्रेण अयम् प्रत्ययः 'अज्ञातम्' अस्मिन् अर्थे विधीयते । यशः + क = यशस्क । (अज्ञातम् यशः इत्यर्थः)। <<उरःप्रभृतिभ्यः कप्>> 5.4.151 इत्यनेन निर्दिष्टः कप्-प्रत्ययः अप्यत्र स्वीक्रियते । व्यूढमुरः यस्य सः = व्यूढोरः + क → व्यूढोरस्कः । 4) 'काम्य' अयम् प्रत्ययः <<काम्यच्च>> 3.1.9 इत्यनेन दीयते । 'यशः आत्मानम् इच्छति' अस्मिन् अर्थे 'यशः' शब्दस्य काम्यच्-प्रत्ययं कृत्वा 'यशस्काम्य' इति धातुः सिद्ध्यति । यथा - सः यशं आत्मानम् इच्छति = सः यशस्काम्यति । अत्र वार्त्तिकद्वयम् ज्ञातव्यम् - 1. <!अनव्ययस्येति वाच्यम् !> - यदि विसर्गः अव्ययस्य अन्ते अस्ति चेत् अस्य सूत्रस्य प्रयोगः न भवति इत्यर्थः । यथा - प्रातः + कल्पम् → प्रातःकल्पम्, प्रात≍कल्पम् । अत्र 'प्रातः' इति अव्ययमस्ति, अतः वर्तमानसूत्रेण सकारादेशः न भवति, अपितु <<कुप्वोः ≍क ≍पौ च>> 8.3.37 इत्यनेन जिह्वामूलीय-विसर्गौ भवतः । 2. <!काम्ये रोरेवेति वाच्यम् !> - यदि विसर्गः रुँ-इत्यस्मात् निर्मितः नास्ति, तर्हि काम्य-शब्दे परे अस्य सूत्रस्य प्रयोगः न भवति । यथा - 'गिर्' इति रेफान्तशब्दः ('वाणी' इति अर्थः) । अस्य प्रथमैकवचनम् 'गीः' इति भवति । अस्मिन् शब्दे विसर्गः रेफात् निर्मितः अस्ति, रुँ-इत्यस्मात् न । अतः 'काम्यच्' प्रत्यये परे अस्य विसर्गस्य सकारादेशः न भवति । गीः + काम्यति = गीःकाम्यति, गी≍काम्यति ।

Balamanorama

Up

Padamanjari

Up

ठपदादौऽ इति कुप्वोरेतद्विशेषणम्, व्यत्ययेन त्वेकवचनम् । पूर्वस्यायमपवादः । पाशकल्पककाम्येष्विति । सम्भवप्रदर्शनमेतत्, न परिगणनम्; अन्यस्यासम्भवात् । प्रातः कल्पमिति । अधिकरणशक्तिप्रधानस्यापि प्रातः - शब्दस्य वृत्तिविषये शक्तिमद्वाचित्वादीषदसमाप्त्या योगः, यथा - दोषाभूतमहः, दिवाभूता रात्रिरित्यत्राभूततद्भावयोगः । रोः काम्ये नियमार्थमिति । एतदेव विवृणोति - रोरेवेति । गीः काम्यतीति । उतरसूत्रेण षत्वं न भवति । यदि पुनस्तत्रैवेदमुच्यते ? नैवं शक्यम् ; षत्वमात्रप्रतिषेधेऽप्यनेन सत्वं प्राप्नोति । उपघ्मानीयस्य चेति । अस्यैव विवरणम् - कवर्गेपरत इति । उब्जिरयमित्यादि । यथा पुनरयं दकारोपध एषितव्यः, तथा'हयरट्' इत्यत्रोक्तम् ॥