अस्तेर्भूः

2-4-52 अस्तेः भूः आर्धधातुके

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अस्तेर्धातोर्भू इत्ययमादेशो भवत्यार्धधातुके। भविता। भवितुम्। भवितव्यम्। इह कस्माद् न भवति — ईहामास, ईहामासतुः, ईहामासुः? <<कृञ्चानुप्रयुज्यते लिटि>> ३.१.४० इति प्रत्याहारग्रहणेनास्तेर्ग्रहणसामर्थ्यात्। तथा चोच्यते — “अनुप्रयोगे तु भुवास्त्यबाधनं स्मरन्ति कर्तुर्वचनान् मनीषिणः” (महाभाष्य ३.२१६) इति॥

Siddhanta Kaumudi

Up

बभूव । भविता । अस्तु । स्तात् । स्ताम् । सन्तु ॥

Laghu Siddhanta Kaumudi

Up

आर्धधातुके। बभूव। भविता। भविष्यति। अस्तु, स्तात्। स्ताम्। सन्तु॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अस्तेर्भूः>> - अस्तेर्भूः । असधातोर्भूभावः स्यादार्धधातुके परे इत्यर्थः । अस् हि इति स्थिते —

Padamanjari

Up

अस्तेर्भूः॥ भवतेरेव भवितेत्यादौ सिद्धेऽसेतरसितेत्यादिनिवृतये योगारम्भः। अनुप्रयोगे त्विति। अनुप्रयोगेउविषये भुवाउभूभावेनास्तेरनिवृत्तिं मनीषिणः स्मरन्ति। कर्तुःऊ सूत्रकारस्य वचनात्। मनीषिणः कर्तुरिति वा॥