लुङ्

3-2-110 लुङ् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भूते

Sampurna sutra

Up

भूते धातोः परः आद्युदात्तः लुङ्

Neelesh Sanskrit Brief

Up

भूतकालं द्योतयितुम् धातोः परः आद्युदात्तः लुङ्-प्रत्ययः भवति ।

Neelesh English Brief

Up

The लुङ्-प्रत्ययः is used to indicate the past tense.

Kashika

Up

भूत इत्येव। भूतेऽर्थ वर्तमानाद् धातोर्लुङ् प्रत्ययो भवति। अकार्षीत्। अहार्षीत्॥ वसतेर्लुङ् रात्रिशेषे जागरणसंततौ वक्तव्यः॥ क्व भवानुषितः? अहमत्रावात्सम्॥

Siddhanta Kaumudi

Up

भूतार्थवृत्तेर्धातोर्लुङ्स्यात् ॥

Laghu Siddhanta Kaumudi

Up

भूतार्थे धातोर्लुङ् स्यात्॥

Neelesh Sanskrit Detailed

Up

अनेन सूत्रेण लुङ्लकारः विधीयते । भूतकालं द्योतयितुम् धातोः परः लुङ्-लकारः भवति । यथा - 1) सः चित्रमद्राक्षीत् । 2) यूयम गीतामपाठिष्ट । 3) वृक्षाणि ऐधिषत । 4) अहम् ग्रामम् न अगमम् । 5) त्वं किमकार्षीः ? ज्ञातव्यम् - परोक्ष-अनद्यतन-भूतकालं दर्शयितुम् <<परोक्षे लिट्>> 3.2.115 इत्यनेन लिट्-लकारः विधीयते (यथा - रामः वनं जगाम) तथा, यत्र अनद्यतन-भूतःकालः स्पष्टरूपेण निर्दिष्टः अस्ति, तत्र <<अनद्यतने लङ्>> 3.2.111 इत्यनेन लङ्-लकारस्य प्रयोगः विधीयते (यथा - सः ह्रः ग्राममगच्छत्) । एते द्वे अवस्थे विहाय अन्यत्र सर्वत्र भूतकालम् दर्शयितुमनेन सूत्रेण लुङ्-लकारः विधीयते ।

Balamanorama

Up

<<लुङ्>> - लुङ् । धातोरिति भूत इति चाधिकृतम् । तदाह — भूतार्थवृत्तेरिति ।

Padamanjari

Up

लुङ्॥ इह भूतसामान्ये लुङ् विधीयते, तस्य विशेषेऽनद्यतने लङ्लिटावपवादौ, तद्विषयेऽपि लुङ् द्दश्यते, आगमाम घोषात्, अपास पयः, अशेयिष्महि पूतीकतृणेषु, अभून्नृपो विवुधसखः परन्तपः, इति चिरवृतं कथयतः प्रयुञ्चते? नैष दोषः; विशेषे सामान्यमस्ति, तत्र विशेषाविवक्षायां सामान्याश्रयणेन वस्तुतोऽनद्यतनेऽपि लुणुपपद्यते, द्रूपविवक्षायामेव तु लङ्लिटौ, विवक्षोपारूढो ह्यर्थः शब्दप्रयोगनिमितः, न वस्तुतः सन्निति। गतमेतत्। वसेरिति।'वस निवासे' रात्रेश्चतुर्थे यामे पृष्टो यदा वाक्यं प्रयुङ्क्ते तदा तस्यातिक्रान्तरात्रिप्रहरत्रयवसनमनद्यतनमिति लङ्प्रयोगे लुङ् वक्तव्यः। लङ्निवृत्तिपरं चैतत् लुङ् भूतसामान्यविवक्षया सिद्धः। जागरणसन्तताविति। यदा प्रयोक्ता सकलमतिक्रान्त रात्रिप्रहरत्रयं जागरिवतान् तदा लुङ्प्रयोगः यदा सुप्त्वा प्रबुद्ध्य तदा लङ्प्रत्यय एवेत्यर्थः॥