6-1-2 अजादेः द्वितीयस्य एकाचः द्वे प्रथमस्य
index: 6.1.2 sutra: अजादेर्द्वितीयस्य
एकाचः अजादेः द्वितीयस्य द्वे
index: 6.1.2 sutra: अजादेर्द्वितीयस्य
एकाचो द्वे प्रथमस्य 6.1.1 अस्मिन् अधिकारे उक्तं द्वित्वमनेकाच्-अजादि-शब्दस्य द्वितीय-एकाच्-अवयवस्य भवति ।
index: 6.1.2 sutra: अजादेर्द्वितीयस्य
The द्वित्व mandated in the एकाचो द्वे प्रथमस्य 6.1.1 अधिकार happens for the second एकाच् component of an अनेकाच् अजादि word.
index: 6.1.2 sutra: अजादेर्द्वितीयस्य
प्रथमद्विर्वचनापवादोऽयम्। अजादेर्द्वितियस्य एकचो द्विर्वचनमधिक्रियते। अचादिर्यस्य धातोः तदवयवस्य द्वितीयस्य एकाचो द्वे भवतः। अटिटिषति। अशिशिषति। अरिरिषति। अर्तेः स्मिपूङ्रञ्ज्वशां सनि 7.2.74 इति इट् क्रियते। तस्मिन् कृते गुणे च रपरत्वे च द्विर्वचनेऽचि 1.2.59 इति स्थानिवद्भावः प्राप्नोति। तत्र प्रतिविधानं द्विर्वचननिमित्तेऽचि इति उच्यते। न च अत्र द्विर्वचननिमित्तमिट्। किं तर्हि? कार्यी। न च कार्यी निमित्तत्वेन अश्रीयते। तथा हि क्ङिनिमित्तयोर्गुणवृद्ध्योः प्रतिषेधो विधीयमानः शयिता इत्यत्र न भवति, न हि कार्यिणः शीङो गुणं प्रति निमित्तभावः इति। अत्र केचिदजादेः इति कर्मधारयात् पञ्चमीम् इच्छन्ति। अच् च असौ आदिश्च इत्यजादिः, तस्मातजादेरुत्तरस्य एकाचो द्वे भवतः इति। तेषां द्वितीयस्य इति विस्पष्टर्थं द्रष्टाव्यम्।
index: 6.1.2 sutra: अजादेर्द्वितीयस्य
इत्यधिकृत्य ॥
index: 6.1.2 sutra: अजादेर्द्वितीयस्य
एकाचो द्वे प्रथमस्य 6.1.1 इत्यनेन उक्तस्य द्वित्वस्य अयमपवादः । अस्य प्रसक्तिः अस्मिन् द्वित्वप्रकरणे (इत्युक्ते, एकाचो द्वे प्रथमस्य 6.1.1 इत्यस्य अधिकारे) सर्वत्र भवति । यत्र अस्मिन् अधिकारे द्वित्वं विधीयते, तत्र यदि अङगमनेकाच् अस्ति, अजादिः च अस्ति, तर्हि एकाचो द्वे प्रथमस्य 6.1.1 इत्यनेन तस्य प्रथम-एकाच्-अवयवस्य द्वित्वे प्राप्ते अनेन सूत्रेण द्वितीय-एकाच्-अवयवस्य द्वित्वं विधीयते ।
अजादि-शब्दस्य द्वितीय-एकाच्-अवयवः कः अस्ति? शब्दस्य प्रथमस्वरं विहाय द्वितीय-स्वर-पर्यन्तम् यः वर्णसमुदायः, तस्य 'द्वितीय-एकाच्-अवयवः' इति संज्ञा भवति । यथा. 'अटि' अस्य णिजन्तधातोः 'टि' इति द्वितीयः एकाच् अवयवः ।
ज्ञातव्यम् -
अस्य सूत्रस्य अर्थे 'अनेकाच्' इति निर्दिष्टमस्ति । अतः अङ्गम् 'अनेकाच्' अस्ति अजादि च अस्ति , तत्रैव द्वितीय-एकाच्-अवयवस्य द्वित्वं जायते । यत्र अङ्गम् एकाच् अस्ति तत्र यद्यपि अङ्गमजादिः अस्ति तथापि अस्य सूत्रस्य प्रयोगः न भवति, अतः एकाचो द्वे प्रथमस्य 6.1.1 इत्यनेन प्रथमस्यैव एकाच्-अवयवस्य द्वित्वं भवति । यथा, 'अट्' धातोः द्वित्वे कृते प्रथम-एकाच्-अवयवस्य (इत्युक्ते 'अट्' इत्यस्यैव) द्वित्वं भवति ।
मूलसूत्रे 'द्वितीयस्य' इति उक्तमस्ति । अयं शब्दः एव अस्य निर्देशकः यत् अङ्गमनेकाच् भवेत् । अतः अत्र सूत्रस्य अर्थे 'अनेकाच्' इति निर्दिश्यते ।
index: 6.1.2 sutra: अजादेर्द्वितीयस्य
प्रथमद्विर्वचनापवादोऽयमिति। ननु विरोधे समानफलत्वे च बाध्यबाधकभावः, यथा -ठष्टश्रिर्यूपः कर्तव्यो वाजपेयस्य चतुरश्रिःऽ इत्यष्टाश्रित्वचतुरश्रित्वयोर्तथा नैवारश्चरुर्नखावपूतानामिति नखावपनेन वैतुष्यफलकेन तत्फलकोऽवघातो बाध्यते, नखैस्चोलूखलमुसलम्; यत्र त्वेतदुभयं न भवति न तत्र बाधः, यथा -कृत्कृत्यप्रत्ययसंज्ञानाम्, यथा वा -तद्धिततद्राजप्रत्ययसंज्ञानाम्। इह तु न समानफलत्वम्; फलस्य कस्यचिदभावात्, अस्ति च सभ्भवो यदुभयं स्यात्? स्यादेतत् -द्वयोरासीनयोर्मध्ये कस्मिश्चिदुपविष्टे द्वितीयस्तृतीयो भवति, तथा प्रथमे द्विरुक्ते द्वितीयस्तृतीयो भवतीत्यस्त्येवाक्षत्राप्ससम्भाव इति, स्यादप्येवम्, यदि प्रथमद्विर्वचनमेव नियोगतः पूर्वं स्यात्, किञ्च नात्रौत्पतिकस्य द्वितीयस्य द्विर्वचनमुच्यते, किं तर्हि? द्वितीयमात्रस्य, ततः किम्? प्रथमे द्विरुक्ते यो द्वितीयस्तस्य भविष्यति। नन्वेवमनारम्भसमं स्यात्, कथमटेः सन्, प्रथमस्य द्विर्वचनम्, अटाट् इति स्थिते हलादिःशेषश्च प्राप्नोति, द्वितीयद्विर्वचनं च, परत्वान्नित्यत्वाच्च हलादिःशेषः, ततो द्विर्वचनम्, आअट अट् इति स्थिते हलादिशेषे त्रयाणामकाराणामतो गुणे पररुपत्वेऽटिषतीत्येतद्रूपं स्याद्, अकृतेऽपि द्विर्वचने एतदेव रूपम्, द्वयोरकारयोः पररूपमित्येतावद् नानारम्भसमम्, कथम्? प्रथमं द्विर्वचनम्, हलादिःशेषः, आअट् इति स्थिते'सन्यतः' इतीत्वं च प्राप्नोति द्विर्वचनं च, द्वयोर्नित्ययोः परत्वादित्वम्। नन्वित्वं सनमभ्यासं चापेक्षत इति बहिरङ्गम्, ततः किम्? अन्तरङ्गम् ठतो गुणोऽ इति पररूपत्वं प्राप्नोति, समानाश्रये च वार्णादाङ्गं बलीय? एवं तर्हि कृतेऽपि पररूपे तरयान्तवद्भावादित्वं प्राप्नोति, अकृते चेति नित्यत्वं परत्वं चेति द्वे तस्य प्राबल्यकारणे। पररूपस्य त्वन्तरङ्गत्वमेकमेवेतीत्वमेव तावद् भवति। सति तु तस्मिन् ठभ्यासस्यासवर्णेऽ इतीयङ् च प्राप्नोति द्विर्वचनं च, तत्र द्विर्वचनमियङ् कृते यिङ्त्यिस्य प्राप्नोति; अकृते त्वङ्त्यिस्येति शब्दान्तरप्राप्त्याऽनित्यम्, तेन परत्वान्नित्यत्वाच्चेयैङ् कृते यङ्शब्दस्य द्विर्वचने हलअदिः शेषः, इत्वम्, इयियटिषति, ओणेः -उवुवोणिषतीति भवति। असति द्वितीये द्विर्वचने -इयटिषति, उवोणिषतीति भवतीति नानारम्भसाम्यम् । एवं तर्हि ठनभ्यासस्यऽ इति निषेधादेकस्मिन् द्विरुक्ते नापरो द्विर्वक्तुअं शक्यत इत्यस्यैवासम्बवः। अथ वा -सामान्यविहितस्य विशेषविहितं सत्यपि सम्भवे बाधकं भवति, तद्यथा -दधि ब्राह्मणेभ्यो दीयतां तक्रं कौण्कडिन्यायेति। ओदनसेकाख्यस्य फलस्य समानत्वादत्र दधिबाध इति चेद्? इहापि तर्ह्यर्थाभिधानाख्यं फलमेकम्, अर्थाभिधानाय हि द्विरुच्चारणम्, तच्चैकेनैव साध्यते। अथ रूपविशेषाख्यं फलं भिन्नम्, अन्यद्धि रूपं प्रथमस्य द्विर्वचने, अन्यच्च द्वितीयस्य ? इतरत्रापि तृप्तिविशेषाख्यं फलं भिद्यते, अन्या हि दध्नस्तृप्तिरन्या हि तक्रस्य, अतो नाप्राप्ते तस्मिन्नारभ्यमाणत्वमेव बाधनिबन्धनम्, नासम्भवः, सामान्यशब्दा हि विशेषशब्दसन्निधौ तत्रैवोपसंह्रियन्ते, ततोऽन्यत्र वा, यथा -वसिष्ठो ब्राह्मणः, ब्राह्मणाः आयाता वसिष्ठोऽप्यायात इति। ननु कौण्डिन्यस्यापि ब्राह्मणत्वाद् दधि प्राप्तम्, इह तु प्रथमस्योच्यमानं द्विर्वचनं द्वितीयस्य न प्राप्नोतीति कथं येन नाप्राप्तिः? न क्रमो द्वितीयस्य प्राप्तमिति; किन्तु धातुसामान्यविहितं प्रथमद्विर्वचनमजादेर्धातोः प्राप्तमिति; तत्र दधितक्राख्यं विधेयं भिद्यते, इह तु कार्यं भिद्यते, विधेयं द्विर्वचनमेकमित्येतावान् विशेषः। यद्वा-तत्रापि दानमेव विधेयं तस्य तु देयभेदाद् भेदः, इहापि कार्यिबेदाद्भेदः, तद्दमुक्तम् -प्रथमद्विर्वचनापवादोऽयं द्वितीयद्विर्वचनमिति। सर्वथा प्रथमद्विर्वचनं द्वितीयद्विर्वचनेन बाध्यते। यद्यंवम्, यथाभूतस्यैकाचः प्रथमद्विर्वचनं प्राप्तं तथाभूतस्यैवद्वितीयद्विर्वचनं बाधकं स्यात्, सव्यञ्जनस्यैतत्प्राप्तमिति तेन सहव्यञ्कजनानामप्यनावृत्तिप्रसङ्गः? स्यादेवं यद्यजादिषु प्रथमस्यैकाचः किञ्चिद्विहितं प्रतिषिद्धं वा भवेत्, इह तु विशेषसन्निधौ सामान्यशब्दस्य ततोऽन्यत्र वृतेरजादिषु प्रथमद्विर्वचनरूपाप्रतीतत्वादप्राप्त्यनुमानमेव बाधः। व्यञ्जनानि च यदा यस्य कार्थं तदा तदङ्गानीति द्वितीयैकाच्यन्तर्भावातेन सह द्विर्वचनं केन वार्यते! अत्र च लिङ्गम्'न न्द्राः' इति प्रतिषेधः। अथेयाय, आरेत्यादौ केन द्विर्वचनम्? न तावदनेनाद्वितीयत्वात्, नापि पूर्वेणाजादिषु तस्याप्रवृतेः, यत्रैतदप्रवृत्तिः, यत्र तु द्वितीयाभावादेतन्न प्रवर्तते न तत्र तस्य प्रवृत्तिर्वार्यते ? तत्रापि वार्यते, अजादेरिति सामान्यनिर्द्देशात्। सामान्यनिर्द्देशे हि क्वचिदपि द्वितीयवत्यां व्यक्तौ सर्वत्र बाधेत, यथा हलादिःशेषे वक्ष्यते -ठ्क्वचिदपि प्रवर्तमानो हलादिःशेषः सर्वत्र निवृत्तिं करोतिऽ इति? नैष दोषः; जात्योपलक्षिता व्यक्तिः प्राधान्येनेह गृह्यते। द्वितीयवत्यामेवेदं व्यक्तौ तेन प्रवर्तते ॥ प्रवर्तते च यत्रेदं तत्र पूर्वं निवर्तते। जातिर्हलादिशेषे तु प्राधान्येन समाश्रिता ॥ इति। गुणे चेति। नित्यत्वात्परत्वाच्च। स्थानिवद्भावः प्राप्नोतीति। ततश्च इस इत्यस्य द्विर्वचने हलादिःशेषे च दीर्घत्वे सति अरीषतीति प्रसङ्गः। न चात्र द्विर्वचनमनिमितमिडिति। यत्र परतो द्विर्वचनमुच्यते, तदेव तस्य निमितमिति भावः। कि तर्हि कार्यीति।'सन्यङेः' इति षष्ठ।लश्रयणात्। ततः किम्? इत्याह न चेति। तद्भावभावित्वे सत्यपि कायिणः सप्तमीनिर्द्देशाबावान्न निमितत्वं शास्त्रे स्थितमित्यर्थः। अवश्यं चैतदेवं विज्ञेयमित्याह -तथा हीति। गुणवृद्ध्योरिति।'क्ङिति च' इत्यत्र वृद्धेरपि प्रतिषेधाद् गुणवृद्ध्योरित्युक्तम्। शयितेत्यत्र न भवतीति। गुणस्य प्रतिषेधः। क्वचितु -शायक इत्यपि पठ।ल्ते, तदयुक्तम्, अप्रकृतित्वादत्र वृद्धेः। यथा चोतरग्रन्थे गुणग्रहणमेव कृतम् । तेषां द्वितीयस्येति विस्पष्टार्थमिति।'तस्मादित्युक्तरस्य' इत्यनन्तरस्य द्विरीयस्यैव भविष्यति, न तृतीयादेः। यदा तु बहुव्रीहेः षष्ठी-अजादिर्यस्य धातोरिति, तदा सामर्थ्यादप्रथमार्थेऽप्यारम्भे तृतीयादेरपि प्रसङ्गः ॥