एच इग्घ्रस्वादेशे

1-1-48 एचः इक् ह्रस्व्आदेशे

Sampurna sutra

Up

एचः ह्रस्वादेशे इक्

Neelesh Sanskrit Brief

Up

एच्-वर्णस्य ह्रस्वादेशे कृते इक्-वर्णः विधीयते ।

Neelesh English Brief

Up

When an 'एच्' letter undergoes a हस्वादेश, it is replaced by an 'इक्' letter.

Kashika

Up

एचो ह्रस्वादेशे कर्तव्य इगेव ह्रस्वो भवति नान्यः। रै — अतिरि। नौ — अतिनु। गो — उपगु। एच इति किम्? अतिखट्वः। अतिमालः। ह्रस्वादेश इति किम्? देव॑दत्त। दे३वदत्त॥

Siddhanta Kaumudi

Up

आदिश्यमानेषु ह्रस्वेषु एच इगेव स्यात् । प्रद्यु । प्रद्युनी । प्रद्यूनि । प्रद्युनेत्यादि । इह न पुंवत् । यदिगन्तं प्रद्यु इति तस्य भाषितपुंस्कत्वाऽभावात् । एवमग्रेऽपि । प्ररि । प्ररिणी । प्ररीणि । प्ररिणा । एकदेशविकृतस्याऽनन्यत्वात् रायो हलि इत्यात्वम् । प्रराभ्याम् । प्रराभिः । नुमिचिरेति नुट्यात्वे प्रराणामिति माधवः । वस्तुतस्तु संनिपातपरिभाषया नुट्यात्वं न । नामि <{SK209}> इति दीर्घस्त्वारम्भसामर्थ्यात्परिभाषां बाधत इत्युक्तम् । प्ररीणाम् । सुनु । सुनुनी । सुनूनि । सुनुना । सुनुने । इत्यादि ॥

Laghu Siddhanta Kaumudi

Up

आदिश्यमानेषु ह्रस्वेषु एच इगेव स्यात् । प्रद्यु । प्रद्युनी । प्रद्यूनि । प्रद्युनेत्यादि ॥ प्ररि । प्ररीणि । प्ररिणा । <<एकदेशविकृतमनन्यवत्>> (परिभाषा) । प्रराभ्याम् । प्ररीणाम् । सुनु । सुनुनी । सुनूनि । सुनुनेत्यादि ॥

Neelesh Sanskrit Detailed

Up

एच् = ए, ओ, ऐ, औ इक् = इ, उ, ऋ, ऌ एच्-प्रत्याहारस्थस्य स्वरस्य स्थाने यदि ह्रस्वादेशः प्राप्नोति, तर्हि तत्र इक्-प्रत्याहारस्थवर्णः एव आदेशरूपेण विधीयते इति अस्य सूत्रस्य आशयः । अत्र उचितस्य आदेशस्य निर्णस्यः स्थानसाधर्म्यस्य आधारेण क्रियते । इत्युक्ते, एकारस्य ऐकारस्य च स्थाने इकारः विधीयते, यतः एतेषाम् सर्वेषाम् उच्चारणार्थम् तालुनः साहाय्यं स्वीक्रियते । एवमेव, ओकारस्य औकारस्य च स्थाने उकारः विधीयते, यतः एतेषाम् सर्वेषाम् उच्चारणार्थम् ओष्ठयोः साहाय्यं स्वीक्रियते । क्रमेण उदाहरणानि एतानि — 1. एकारस्य ह्रस्वादेशे इकारादेशः हेड्-धातोः एकारस्य णिच्-प्रत्यये परे <<मितां ह्रस्वः>> 6.4.92 इति ह्रस्वादेशे प्राप्ते; प्रकृतपरिभाषाम् उपयुज्य इकारः आदेशरूपेण विधीयते । प्रक्रिया इयम् — हेडृ (अनादरे, भ्वादिः, <{1.817}>) [अयं धातुः घटादि-अन्तर्गणे विद्यते, अतः <<घटादयो मितः>> इति गणसूत्रेण अयम् मित् स्वीक्रियते ।] → हेड् + णिच् [<<हेतुमति च>> 3.1.26 इति हेतौ णिच्] → हेड् + इ [इत्संज्ञालोपः] → हिड् + इ [<<मितां ह्रस्वः>> 6.4.92 इति ह्रस्वः । एकारस्य ह्रस्वादेशे कर्तव्ये <<एच इग्घ्रस्वादेशे>> 1.1.48 इत्यनेन स्थानसाधर्म्यात् इकारादेशः विधीयते ।] → हिडि [<<सनाद्यन्ता धातवः>> 3.1.32 इति धातुसंज्ञा] → हिडि + अनीयर् [<<तव्यत्तव्यानीयरः>> 3.1.96 इति अनीयर्-प्रत्ययः] → हिड् + अनीय [<<णेरनिटि>> 6.4.51 इति णिच्-प्रत्ययस्य लोपः । अग्रे <<पुगन्तलघूपधस्य च>> 7.3.86 इत्यनेन हकारोत्तस्य इकारस्य गुणादेशे प्राप्ते <<अचः परस्मिन् पूर्वविधौ>> 1.1.57 इति इकारस्य स्थानिवद्भावेन सः नैव प्रसज्यते ।] → हिडनीय 2. ऐकारस्य ह्रस्वादेशे इकारादेशः अतिरै-इति ऐकारान्तशब्दः यदा नपुंसके प्रयुज्यते, तदा <<ह्रस्वो नपुंसके प्रातिपदिकस्य>> 1.2.47 इत्यनेन अस्य ह्रस्वादेशः भवति । अत्र ऐकारस्य स्थाने ह्रस्वादेशे प्राप्ते प्रकृतसूत्रेण इकारः आदेशरूपेण विधीयते । प्रक्रिया इयम् — अतिरै + सुँ [नपुँसकलिङ्गस्य प्रथमैकवचनस्य प्रत्ययः] → अतिरि + स् [<<ह्रस्वो नपुंसके प्रातिपदिकस्य>> 1.2.47 इति प्रातिपदिकस्य ह्रस्वादेशः । <<अचश्च>> 1.2.28 इत्यनेन अयम् अच्-वर्णस्य स्थाने भवति । ऐकारस्य स्थाने स्थानसाधर्म्येण <<एच इग्घ्रस्वादेशे>> 1.1.48 इति इकारादेशः विधीयते ।] → अतिरि [<<स्वमोर्नपुंसकात्>> 7.1.23 इति सुँ-प्रत्ययसस्य लुक्] 3. ओकारस्य ह्रस्वादेशे उकारादेशः श्लोक्-धातोः लिट्-लकारस्य प्रक्रियायाम् अभ्यासे विद्यमानस्य ओकारस्य ह्रस्वादेशे कर्तव्ये प्रकृतसूत्रेण तस्य उकारादेशः भवति । प्रक्रिया इयम् — श्लोकृ (संघाते, भ्वादिः, <{1.81}>) → श्लोक् + लिट् [<<परोक्षे लिट्>> 3.2.115 इति लिट्-लकारः] → श्लोक् + त [आत्मनेपदस्य प्रथमपुरुषैकवचनस्य विवक्षायाम् [<<तिप्तस्झि..>> 3.4.78 इति त-प्रत्ययः] → श्लोक् + एश् [<<लिटस्तझयोरेशिरेच्>> 3.4.81 इति तिप्-प्रत्ययस्य एश्-आदेशः । शित्त्वात् <<अनेकाल्शित्सर्वस्य>> 1.1.55 इति सर्वादेशः] → श्लोक् + ए [इत्संज्ञालोपः] → श्लोक् श्लोक् + ए [<<लिटि धातोरनभ्यासस्य>> 6.1.8 इति द्वित्वम्] → शो श्लोक् + ए [<<हलादिः शेषः>> 7.4.60 इति अभ्यासस्य हलादिः अवशिष्यते ।] → शु श्लोक् + ए [<<ह्रस्वः>> 7.4.59 इति अभ्यासस्य ह्रस्वः भवति । अत्र ओकारस्य ह्रस्वादेशे कर्तव्ये प्रकृतसूत्रेण तस्य स्थाने उकारः विधीयते ।] → शुश्लोके 4. औकारस्य ह्रस्वादेशे उकारादेशः अतिनौ-इति औकारान्तशब्दः यदा नपुंसके प्रयुज्यते, तदा <<ह्रस्वो नपुंसके प्रातिपदिकस्य>> 1.2.47 इत्यनेन अस्य ह्रस्वादेशः भवति । अत्र औकारस्य स्थाने ह्रस्वादेशे प्राप्ते प्रकृतसूत्रेण उकारः आदेशरूपेण विधीयते । प्रक्रिया इयम् — अतिनौ + सुँ [नपुँसकलिङ्गस्य प्रथमैकवचनस्य प्रत्ययः] → अतिनु + स् [<<ह्रस्वो नपुंसके प्रातिपदिकस्य>> 1.2.47 इति प्रातिपदिकस्य ह्रस्वादेशः । <<अचश्च>> 1.2.28 इत्यनेन अयम् अच्-वर्णस्य स्थाने भवति । औकारस्य स्थाने स्थानसाधर्म्येण <<एच इग्घ्रस्वादेशे>> 1.1.48 इति उकारादेशः विधीयते ।] → अतिनु [<<स्वमोर्नपुंसकात्>> 7.1.23 इति सुँ-प्रत्ययसस्य लुक्]

Balamanorama

Up

<<एच इग्घ्रस्वादेशे>> - अथ ओदन्ताः । प्रकृष्टा द्यौर्यस्येति बहुव्रीहौ प्रद्योशब्दस्य 'ह्रस्वो नपुंसके' इति ह्रस्वः प्राप्नुवन्नेचो ह्रस्वाऽभावात्तेषां द्विस्थानत्वेन अ, इ, उ, ऋ, लृ, इत्येतेषां ह्रस्वानामन्तरतमत्वाऽभावादन्तरस्थानसाम्याश्रयेण अवर्णादिषु यस्य कस्यचिदनियमेन पर्यायेण वा प्राप्ताविदमारभ्यते — एच इक् । आदिश्यते इत्यादेशः । कर्मणि घञ् । तस्य ह्रस्वपदेन सह कर्मधारयः विशेष्यस्यार्षः पूर्वनिपातः । आदेश इति निर्धारणसप्तमी । सौत्रमेकवचनम् । तदाह — आदिश्यमानेष्वित्यादिना । 'मध्ये' इत्यपपाठः, तद्योगे षष्ठआ एवौचित्यात् । इगेवेति । तेन अकारव्यावृत्तिः फलतीति भावः । यद्यपीकश्चत्वारः, एचोऽप्येवं, तथापि स्थान्यादेशानां यथासङ्ख्यं न भवति । न ह्रयमपूर्वविधिः, किन्तु नियमविधिः । यताप्राप्तमेव नियम्यते । एचां हि पूर्वभागोऽवर्णसदृशः । उत्तरभागस्तु इवर्णोवर्णसदृशः । तत्पर पूर्वभागसादृश्यमवर्णस्यास्ति । तस्य च इग्ग्रहणेन निवृत्तौ इवर्णसादृश्यमात्रमादाय एकारस्य ऐकारस्य च इवर्णः, उवर्णसादृस्यादोकारस्य औकारस्य च उवर्ण इति व्यवस्था न्यायप्राप्ता । यताप्राप्तमेव च नियम्यत इति न यतासङ्ख्यम् । ततश्च प्रद्योशब्दे ओकारस्य उकारो ह्रस्व इत्यभिप्रेत्योदाहरति — प्रद्यु इत्यादि । ननुं पुंनपुंसकयोः प्रकृष्टस्वर्गवत्त्वमेकमेव प्रवृत्तिनिमित्तमिति टादौ पुंवत्त्वविकल्पः कुतो नेत्यत आह — इह न पुंवदिति । कुत इत्यत आह — यदिगन्तमिति । प्रद्योशब्द ओदन्तः पुंसि । प्रद्युशब्दस्तु उदन्तो नपुंसके । तथाच पुंसि प्रद्योशब्दस्य भाषितपुंस्कत्वेऽपि नपुंसके प्रद्युशब्दस्य तदपेक्षया भिन्नत्वेन भाषितपुंस्कत्वाऽभावान्न पुंवत्वमित्यर्थः । केचित्तु पुंसि यः प्रद्योशब्द ओदन्तः स एवेदानीं नपुंसकः, तस्य ह्रस्वान्तत्वेऽपि एकदेशविकृतस्याऽनन्यत्वात्, अतः पुंवत्वविकल्पोऽस्त्येवेत्याहुः । एवमग्रेऽपीति । प्ररि, सूवु इत्यादावपीत्यर्थः । इत्योदन्ताः । अथ ऐदन्ताः । एकारान्तस्योदाहरणं तु स्मृत इः कामो येन स स्मृतेः । सु=शोभनः स्मृतेर्यस्य तत् 'सुस्मृति' इत्यादि बोध्यम् । प्ररीति । प्रकृष्टो रा=धनं यस्य इति बहुव्रीहौ प्ररैशब्दः । तस्य नपुंसकह्रस्वत्वेन इकारः । सुटि वारिवत् । सोर्लुप्तत्वात्रायो हली॑त्यात्वं न, टादावचि पुंवत्त्वविकल्पः प्रद्युशब्दवत् । भ्यामादौ हलि विशेषमाह — रायो हलीत्यात्वमिति । ननु रैशब्दस्य ऐदन्तस्य बिहितमात्वं कथमिदन्तस्येत्यत आह — एकदेशविकृकतस्यानन्यत्वादिति । आमि विशेषमाह — नुमचिरेति । नुटिरायो हली॑त्यात्वे प्रराणामित्यन्वयः । ननु प्ररि-आमिति स्थिते नुटं बाधित्वा परत्वान्नुमि तस्याङ्गभक्तत्वाद्धलादिविभक्त्यभावात्कथमात्वमित्यत आह — नुमचिरेति । पूर्वविप्रतिषेधान्नुमं बाधित्वा नुठआत्वं निर्बाधमिति भावः । संनिपातेति । ह्रस्वान्तत्वमुपजीव्य प्रवृत्तस्य नुटस्तद्विघातकमात्वं प्रति निमित्तत्वाऽसंभवादिति भावः । ननु तर्हि ह्रस्वान्तत्वमुपजीव्य प्रवृत्तस्य नुटस्तद्विघातकंनामी॑ति दीर्घं प्रति कथं निमित्तत्वमित्यत आह — नामीति दीर्घस्त्विति । इत्युक्तमिति । 'रामशब्दाधिकारे' इति शेषः । इत्यैदन्ताः । अथ औदन्ताः । सु=शोभना नौर्यस्येति विग्रहे बहुव्रीहौ 'ह्रस्वो नपुंसके' इति ह्रस्व उकार इति मत्वाह — सुनु इति । इत्यौदन्ताः॥*इति बालमनोरमायामजन्ता नपुंसकलिङ्गाः***अथाऽलुक्समासप्रकरणम् । — — — — — — — — —

Padamanjari

Up

परिभाषेयं स्थानिनियमार्था । 'ह्रस्वो नपुंसके' इत्यादाववुपतिष्ठते । इहैचां पूर्वो भागो मात्रात्मकः कण्ठ।लेऽकारसदृशाः । एदैतोरुतरस्तालब्य इकारसदृशः । ओदौतोरोष्ठ।ल् उकारसदृशः । एवमवयवसमाहारात्मनामेचां ह्रस्वशासनेषु समुदायान्तरतमस्याभावाद् अवयवान्तरतमो ह्रस्वो भवन् कदाचिदकारः स्यात्, कदाचिदिकारोकारौ; मा कदाचिदकारो भूदित्येवमर्थमिदमारभ्यते, तदाह - इगेव ह्रस्वो भवतीति । यदि त्वयं विधिः स्यात्, तदा ह्रस्वादेश इति विषयोपलक्षणमेतत्स्याद् - यस्मिन्विषय एचो ह्रस्वादेशप्रसङ्गस्त त्रेग्भवतीति । ततश्च दीर्घाणां स्थाने दीर्धा एवकः स्युः सवर्णग्रहणात्, नैषदोषः;'भाव्यमानोऽण् सर्वर्णान्न गृह्णाति' 'भाव्यमानोऽप्यकारः सवर्णान् गृह्णाति' 'दिव उत्' इतितपरकरणाद् अमूभ्यामितिवत्; तथैचामिकां च साम्यात् संख्यातानुदेशोऽपि स्याद्, आदेशग्रहणं चानर्थकं स्यात् । तत आदेशग्रहणसामर्थ्याद् ह्रस्वादेशे ह्रस्वदेशनकाल इक्कर्तव्यः, ह्रस्वादेशं कुर्वन्निकं कुर्यादित्यर्थः । यद्वा -आदिश्यत इत्यादेशः, ह्रक्वश्चासावादेशश्च ह्रस्वादेशः । निर्द्धारणे सप्तमी, जातावेकवचनम् । आदिश्यमानेषु ह्रस्वेषु मध्ये इगेव ह्रस्वो भवतीति सर्वथा नियमरूपेणास्य प्रवृत्तिः । प्राप्तिपूर्वकश्च नियम इति ये प्राप्ता अन्तरतमास्तेष्वेव नियमः । न च ऋकारऌकारौ प्राप्ताविति कुतो यथासङ्ख्यम् ? कुतो दीर्घप्रसङ्गः ? एवं चेणित्येव सिद्धे इग्ग्रहणं परेण मा भूदिति । अतिरि । अतिनु । रायमतिक्रान्तं नावमतिक्रान्तं ब्राह्मणकुलमिति प्रदिसमासे नपुंसकह्रस्वत्वम् । उपग्विति । अव्ययीभावः । रैशब्दश्च्छन्दस्येवेति भाष्यम् । एकारस्याप्रसिद्धत्वादुदाहरणं न प्रदर्शितम् । हेशब्दमतिक्रान्तं ब्राह्मणकुलमतिहि । अतिखट्व इति । उपसर्जनह्रस्वः । देश्वदेतेति । आमन्त्रिताद्यौदातत्वम् । देवद3त । 'गुरोरनृत' इत्यादिना प्लुतः ॥ षष्ठी स्थानेयोगा । योगनियमार्थेति । यद्यपि षष्ठी स्थानेयोगैवेत्यस्यां वचनव्यक्तौ यत एवकारस्ततोऽन्यत्रावधारणमिति षष्ठीनियमः श्रुत्या प्रतीयते तथापि स्थाननिमितक एव सम्बन्धः षष्ठ।ल वाच्य इत्यर्थात्सम्बन्धनियमोऽपि भवतीति भावः । योगे वा नियमो योगनियमः । यदि योगनियमः क्रियते लोकेऽपि नियमः प्राप्नोति, अवयवषष्ठ।लदयश्च न सिद्ध्यन्ति; ततश्च 'शास इदङ्हलोः' शासेश्चान्त्यस्य स्यादुपधामात्रस्य च, 'ऊदुपधाया गोहः' गोहेश्चान्त्यस्य स्याद् उपधामात्रस्य च, तत्राह-इह शास्त्रे या षष्ठ।ल्नियतयोगेति । एतेन शास्त्रेऽयं नियमः, शास्त्राङ्गत्वात्परिभाषाणाम्; तत्राप्यनियमप्रसङ्ग इति दर्शयति । अनियमप्रसङ्गे नियमः कर्तव्यो लोकवत्, तद्यथा-लोके ग्रामान्तरं जिगमिषुः कश्चित्कञ्चिदाह-'पन्थानं मे भवानुपदिशतु' इति, स यत्र संदेहः, पथि द्वैविध्यात्, तत्रैवोपदिशति-'अमुष्मिन्नवकाशेऽनेन पथा गच्छ' इति; एवमिहापि 'अस्तेर्भूः' अस्तेः स्थानेऽनन्तरो वेति संदेहे नियमः क्रियते - स्थानेयोगैवेति । एतदेव स्पष्टयति-स्थानेयोगस्य निमितभूत इति । निमितभूते, निमितत्वं प्राप्ते । निमितग्रहणं कुर्वन् श्थाने' इति निमितसप्तमीति दर्शयति । स्थानशब्दोऽयमस्त्यपकर्षवचनः-गोस्थानेऽश्वो बध्यतामिति, अस्ति च निवृत्तिवचनः-श्लेष्मणः स्थाने कटुअकमौषधमिति, अस्ति च प्रसङ्गवचनः - दर्भाणां स्थाने शरैः प्रस्तरितव्यमिति, तदिह चरमस्य ग्रहणमित्याह - स्थानशब्दश्चेति । चशब्दोऽवधारणे भिन्नक्रमश्च वाचीत्यस्यानन्तरं द्रष्टव्यः । प्रसङ्गवाच्येवेति कथमिवेत्याह - यथेति । निवृत्तिवाची न गृह्यते, अस्तेरुपदेशसामर्थ्यात् । न ह्यार्धधातुके निवर्तितस्य सार्वधातुके श्रवणमुपपद्यते, न हि मथुरायां व्यापादितः स्रुघ्ने जीवति । नाप्यपकर्षवचनः, न ह्यर्थेन नित्यसम्बद्धस्य ततोऽपकर्षः सम्भवति । नाप्यार्द्धधातुकादपकर्षः, न हि नित्ये प्रकृतिप्रत्ययसमुदाये प्रकृतेरपकर्षः सम्भवति । स्वाभाविक एव ह्यस्तेरप्रयोग आर्द्धधातुके भूशब्द स्य च प्रयोगोऽनेन प्रकारेणान्वाख्यायते, अतः प्रसङ्गः एव स्थानम् । प्रसङ्गः प्राप्तिः, अस्तेः प्राप्तौ भूः प्रयोक्तव्य इत्यर्थः । अस्तिनार्थं प्रतिपादयितुमुद्यौक्त आर्द्धधातुके विषये भवतिना प्रतिपादयेदिति यावत् । प्रसङ्गसम्बन्धस्येत्यादिना सूत्रार्थमुद्राहरणे दर्शयति । ब्रुव इत्युपलक्षणम् । किं पुनर्बहवः षष्ठ।ल्र्था यत इदमुच्यत इत्यत आह - बहवो हीति । एकशतं षष्ठ।ल्र्थाः तत्र स्वस्वामिभावादयः शब्दे न सम्भवन्ति, समीपादय एव तु सम्भवन्तीत्यतो यावन्तः शब्दे सम्भवन्तीत्युक्तम् । व्यवहितमपि समीपं भवतीत्यनन्तराद्भेदेनोपादानम् । स्थानेयोगेत्यसमासश्चेद् योगेति स्त्रीलिंगं षष्ठीशब्देन च सामानाधिकरण्यमनुपपन्नम् । समासेऽपि तत्पुरुषश्चेत् तौ च पूर्वोक्तदोषौ, सप्तम्या लुक्प्रसङ्गश्च, बहुव्रीहावपि लुक्प्रसङ्गोऽनिवार्य एवेत्यत आह - षष्ठी स्थानेयोगेत्यादि । यद्वा - अयोगेति पदच्छेदः । न विद्यते योगो यस्याः साऽयोगा । तत्र योगः मन्तरेण षष्ठ।ल एवाभावाद् विशिष्टो योगो यस्या नास्तीत्यर्थः । एवं च कृत्वासंदेह एवोपस्थानमित्येवं सर्वत्र सिद्धं भवति । अथ वा - योगवती योगा, षष्ठ।लश्चावश्यम्भावी योग इति सामर्थ्याद् भूम्नि मत्वर्थीयोऽकारः, बहवो योगा यस्याः सन्तीति । अस्मिन्नपि पक्षे सन्देहविषय उपस्थानमिति सिद्धम् । भाष्ये सूत्रं प्रत्याख्यातम्, कथम् ? 'अस्तेर्भूः' इत्यत्र सन्देहः - स्थानेऽनन्तरः, समीप इति ? लक्ष्यानुरोधात् स्थान इति व्याख्यास्यामः । इदं तु षष्ठ।ल्न्तं यथा स्थानेन युज्येत; अतः षष्ठयुच्चारिता । तेन ङिर्द्दिश्यमानस्यादेशा भवन्ति' इति सिद्धं भवतीति । तत्र सूत्रे षष्ठ।ल्न्तं गृह्यते - षष्ठ।ल्न्तमेव निर्द्दिश्यमानं स्थानेन युज्यते, न तु प्रतीयमानमिति । तेन 'पादः पत्' इत्यस्यायमर्थः - पादन्तस्याङ्गस्य यो।वयवः पाच्छब्दः सूत्रे षष्ठ।ल निर्दिष्टः, तस्य पच्छब्द आदेशः, न तु प्रतीयमानस्य तदन्तस्येति ॥