आदेच उपदेशेऽशिति

6-1-45 आत् एचः उपदेशे अशिति

Kashika

Up

index: 6.1.45 sutra: आदेच उपदेशेऽशिति


धातोः इति वर्तते । एजन्तो यो धातुरुपदेशे तस्य आकारादेशो भवति, शिति तु प्रत्यये न भवति । ग्लै ग्लाता । ग्लातुम् । ग्लातव्यम् । शो निशाता । निशातुम् । निशातव्यम् । एचः इति किम् ? कर्ता । हर्ता । उपदेशे इति किम् ? चेता । स्तोता । अशितीति किम् ? ग्लायति । म्लायति । कथं जग्ले, मम्ले ? न एवं विज्ञायते, शकार इद् यस्य सोऽयं शितिति, किं तर्हि, श एव इत् शित् । तत्र यस्मिन् विधिस्तदादावल्ग्रहणे इति शिदादौ प्रत्यये प्रतिषेधः । एश् शकारान्तो भवति । अशितीति प्रसज्यप्रतिषेधोऽयम्, तेन एतदात्त्वमनैमित्तिकं प्रागेव प्रत्ययोत्पत्तेर्भवतीति, सुग्लः, सुम्लः इति आतश्चोपसर्गे 3.1.136 इति कप्रत्ययः, सुग्लानः, सुम्लानः इति आतो युच् 3.3.128 इत्येवमादि सिद्धम् भवतीति । आकाराधिकारस्त्वयं नित्यं स्मयतेः 6.1.57 इति यावत् ॥

Siddhanta Kaumudi

Up

index: 6.1.45 sutra: आदेच उपदेशेऽशिति


उपदेशे एजन्तस्य धातोरात्वं स्यान्न तु शिति ॥

Laghu Siddhanta Kaumudi

Up

index: 6.1.45 sutra: आदेच उपदेशेऽशिति


उपदेशे एजन्तस्य धातोरात्वं न तु शिति। जग्लौ। ग्लाता। ग्लास्यति। ग्लायतु। अग्लायत्। ग्लायेत्॥

Balamanorama

Up

index: 6.1.45 sutra: आदेच उपदेशेऽशिति


आदेच उपदेशेऽशिति - आदेच । एजन्तस्य धातोरिति ।लिटि धातो॑रित्यतो धातोरित्यनुवृत्तमेचा विशेष्यते, तदन्तविधिरिति बावः । न तु शितीति । श् चासौ इच्चेति कर्मधारयात्सप्तमी, प्रत्ययविशेषणत्वात्तदादिविधिः, इत्संज्ञकशकारादौ प्रत्यये परे इति लभ्यते । 'ल्यपि च'न व्यो लिटी॑त्यादिपूर्वोत्तरसूत्राणां प्रत्ययेष्वेव प्रवृत्त्या 'प्रत्यये' इति विशेष्यलाभः ।अशिती॑ति न पर्युदासः । तथा सति शिद्भिन्ने प्रत्यये परे इत्यर्थः स्यात् । ततश्च 'सुग्ल' इत्यत्र ग्लैघाटोः 'आतश्चोपसर्गे' इति कप्रत्ययो न स्यात्, कप्रत्ययनिमित्तमात्त्वम्, आदन्तात्प्रत्यय इत्यन्योन्याश्रयात् ।शिति ने॑ति प्रसज्यप्रतिषेधे तु आत्त्वस्य अनैमित्तिकतया कप्रत्ययनिमित्तकत्वाऽभावात् प्रथमात्त्वे कृते कप्रत्ययः सूपपादः ।शिती॑ति बहुव्रीह्राश्रयणे ग्लैधातोर्भावे लिटिभावकर्मणो॑रिति तङि एशि आत्त्वे आतो लोपे 'जग्ले' इति न सिध्येत्, एशः शित्त्वेन तस्मिन्परे आत्त्वस्य निषेधात् । अतः कर्मधारयमाश्रित्य इत्संज्ञकशकारादौ प्रत्यये परे नेत्यर्थ आश्रितः । एवं च पर्युदासेऽपि न क्षतिः । इत्संज्ञकशकारादिभिन्नप्रत्यये विवक्षिते इत्याश्रयणेन 'सुग्ल' इत्यत्र कप्रत्ययात्प्रागेव आत्त्वोपपत्तेः । उपदेशे किम् । चेता, स्तोता । दातोः किम् । गोभ्याम् ।गमेर्डो॑रिति डोप्रत्ययोपदेशात् उपदेशे एच् तदन्तत्वाद्गो इत्यस्य प्राप्तिः । न च मेङादीनामुपदेशे एजन्तत्वाऽभावात्कथमात्त्वमिति न शङ्क्यम्, 'उदीचां माङः' इति निर्देशेननानुबन्धकृतमनेजन्तत्व॑मिति ज्ञापनादित्यास्तां तावत् ।

Padamanjari

Up

index: 6.1.45 sutra: आदेच उपदेशेऽशिति


आदेच उपदेशेऽशिति ॥ अत्र यदि'धातोः' इति नानुवर्तेत, ततो विसेष्याभावादेवल नास्ति तदन्तविधिरित्युपदेशे य एच् तस्यात्वमित्यर्थो भवति; ततश्च ढौकिता, त्रौकिता इत्यत्रापि प्राप्नोति। ननु चाशितीत्युच्यते, न चात्राशितं पश्यामः; न च ककार एवाशित्, किं कारणम्? नञिवयुक्तन्यायेन शित्सदृशस्य प्रत्ययस्यैव ग्रहणात् ? स्यादेवं यद्यशितीति पर्युदासः स्यात्, प्रसज्यप्रतिषेधस्त्वयमिति वक्ष्यते। तस्माद्धातोरित्यनुवर्तयमित्याह - धातोरिति वर्तत इति। तस्य चैचो विशेषणातदन्तविधिरित्याह - एजन्तो यो धातुरिति। उपदेश इति। अनिर्ज्ञातस्वरूपस्य स्वरूपज्ञापनार्थमाद्यमुच्चारणमूपदेशः। चेता, स्तोतेति। आर्धधातुके गुणविधानं त्वात्वार्थमेव स्यात्; यं विधिं प्रत्युपदेश इति न्यायात्। कर्ता, हर्ता हत्यादौ च गुणविधिश्चरितार्थः। एवमपि लाक्षणिकत्वादेवात्र न भविष्यति? ज्ञापकाच्च; यदयं क्रीङ्जीनां णावात्वं शास्ति, तज्ज्ञापयति-न परनिमितस्यैच आत्वं भवतीति। नैतदस्ति ज्ञापकम्, नियमार्थमेतत् स्यात् - क्रीङ्जीनां णावेवेति। ततर्हि'मीनातिमिनोतिदीङं ल्यपि च' इत्यात्वं सास्ति? एवं तहर्युतरार्थमवश्यं कर्तव्यमुपदेशग्रहणम्, तदिहैव क्रियते मन्दधियामनुग्रहाय। कथमिति। अशिदित्ययं बहुव्रीहिः, तत्र शिति प्रतिषेधे क्रियमाणे शिन्मात्रस्य प्राप्नोति, ततश्च जग्लाये इति भवितव्यमिति प्रश्नः। भावे लकारः, तत्पुरुषाश्रयेणोतरम्। कः पुनस्तत्पुरुषे सति गुणः? इत्यत आह - तत्रेति। तत्पुरुषे हि वर्णग्रहणमिदं भवति, वर्णग्रहणे च तदादौ कार्यं भवति। स्तनन्धय इत्यत्र तु'नासिकास्तनयोः' इति खशि कृते मद्यपातिनं शपमाश्रित्य प्रतिषेधः। प्रयोजनाभावादेवात्र न शपपा भितव्यमिति चेत्? नन्विदमेव प्रयोजनं यदुतात्वनिवृत्तिः। अशितीति। यद्ययं पर्युदासः स्यात् - शितोऽन्योऽशित्, तस्मिन्नशितीति, ततो ग्लायन्ति, मलायन्तीत्यत्र शबकारस्यान्त्याकारस्य चैकादेशे कृते तस्य परं प्रत्यादिवद्भावादस्ति शितोऽन्य इति कृत्वाऽऽत्वमत्र प्राप्नोति। प्रसज्यप्रतिषेधे तु न दोषः; एकादेशस्य पूर्वं प्रत्यन्तवद्भावात् सिद्ग्रहणेन ग्रहणात् शिति प्रतिषेध एव भवति। किं पुनः कारणमेकादेशविषय एव आत्वप्राप्तिश्चोद्यते, न पुनर्ग्लायतीत्यादावपि लकार एवाशिति परत आत्वं प्राप्नोतीति? नैवं शक्यं चोदयितुम्; एवं ह्यशितीति प्रतिषेधो निर्वषयः स्यात्, न च'पाघाध्माधेट्दृशः' हृति धेटः शप्रत्ययोऽनन्यपूर्वो विषयः। न ह्यएकमुदाहरणं सित्प्रतिषेधं प्रयोजयति। यद्येतावत्। प्रयोजनं स्याद् ठशेऽ इत्येव ब्रूयात्। यद्वा - अन्तरङ्गत्वान्नित्यत्वाच्च पूर्वं चोद्यते? नैष दोषः; एकादेशस्य पूर्वविधौ स्थानिवद्भावेनादिशितोऽन्यस्य प्रत्ययस्याभवात्। इह तर्हि - सुग्लः, सुग्ला, सुग्लानमित्याकारान्तलक्षणाः काङ्यनो न स्युः? एषोऽप्यदोषः; आत्वभाविन एजन्तादाकारान्तनिमितकः। प्रत्ययो ज्ञाप्यते सर्वो ह्वावामश्चेत्यणा पुनः ॥ इह तर्हि ग्लै-ग्लानीयम्, पै - पानीयम्, अनीयरि कृते आत्वं च प्राप्नोति, आयादयश्च, परत्वादायादयः स्युः? सत्यम्; कृतेषु तेष्वलोन्त्यस्यात्वे सवर्णदीर्घत्वे ग्लानीयमित्यादि सिद्धम्। नन्वायादिषु कृतेषु नायमेजन्तः, न च स्थानिवद्बावोऽलाश्रयत्वात्? स्यादेतदेवं यदि सम्प्रति यदेजन्तं तस्यात्वं भवतीत्युच्येत, इह तूपदेशगतमेजन्तत्वं न सम्प्रतितनमिति नास्ति स्थानिवद्बावापेक्षा। नन्वेवमपि जग्लतुरित्यादौ यकारस्यात्वे कृते जग्लाआआअतुसिति स्थितेऽन्तरङ्गमप्याकारयोरेकादेशं बाधित्वा ठातो लोप इति चऽ इत्यातो लोपः स्यात्, न च पूर्वस्याकारस्य पुनर्लोपो लभ्यते, यकाराकारलोपस्य पूर्वविधौ स्थानिवद्भावात् ठसिद्धवदत्राभात्ऽ इत्यसिद्धत्वाच्च? नैष दोषः; समानाश्रये'वार्णादाङ्गं बलीयः' इह तु व्याश्रयत्वादन्तरङ्ग एकादेशे सति पश्चादाल्लोप इति सिद्धमिष्टम्। एवमपि'द्विर्वचने' चिऽ इत्यायादीनां स्थानिवताव्त ग्लैशब्दस्यद्विर्वचनेऽभ्यासस्येवर्णान्तता प्राप्नोति, पक्षान्तरे त्वनैमितिकत्वादात्वस्य द्विर्वचननिमितेऽच्यविहितत्वान्न दोषः? पर्युदासपक्षेऽपि न दोषः, लिटि वयो यःऽ इति द्विलकारकोऽयं निर्देशः, तथानिर्द्देशस्य च तत्र प्रयोजनाभावादिहानुवृतं वाक्यभेदेन सम्बद्ध्यते - अशित्येव आत्वं भवति, लिटि तु लकारादौ लावस्थायामेवेति। ततश्चात्वस्य द्विर्वचननिमिताज्निमितत्वाभावात्त्स्य तावन्न स्थानिवद्भावः। आयादयस्तु लिट।ल्प्राप्ता एव। तदेवं पर्युदासपक्षस्य बहुप्रतिविधेय त्वात्प्रसज्यप्रतिषेधोऽयमित्याह - अशितीति प्रसज्यप्रतिषेधोऽयमिति। तेन किं सिद्धं भवति? इत्याह - तेनैतदित्यादि। एवमादि सिद्धं भवतीति। आदिशब्देन सुग्लेत्यत्र ठातश्चोपसर्गेऽ इत्यङे ग्रहणम्। अन्यानि बहुनी प्रयोजनानि प्रागेवास्माभिर्द्दर्शितानि । इह कस्मान्न भवति-गोभ्याम्, नौभ्यामिति? ज्ञापकात्। यदयम् रायोहलिऽ इत्यात्वं शास्ति, तज्ज्ञापयति-न प्रातिपदिकस्यात्वं भवतीति। नैतदस्ति ज्ञापकम्, नियमार्थमेतत्स्यात् - रायो हल्येव; ठौतोम्ससोःऽ इत्येततु गां पश्येत्यत्र,'गोतो णित्' णित्वाद्वृद्धिः प्राप्नोति, गाः पश्येत्यत्र त्वशितीति प्रतिषेधः प्राप्नोतीति कृतं भवेदित्यज्ञापकम् ? एवं तहर्युपदेश इत्युच्यते, न च गोनौशब्दयोरुपदेशोऽस्ति, यः'गोपयसोर्यन्' ,'नौवयोधर्म' इत्यादौ उच्चारणं नासावुपदेशः, किं तर्हि? उद्देशः, सिद्धवदुपानात्। मा भूद् गौनौशब्दयोरुपदेशः, एचस्तूपदेशोऽस्ति -'गमेर्डोः' ,'ग्लानुदिभ्यां डौः' इति, न च डोडावोर्विधानवैयर्थ्यम्, शसि चरितार्थत्वात्? एवं तर्हि'धातोरिति वर्तते' - इत्युक्तत्वान्न भविष्यति ॥